TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मिमांसा - भाग ४

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


भाग ४

अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा ॥१ -१॥

यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् ॥१ -२॥

तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः ॥१ -३॥

अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः ॥१ -४॥

अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसम्बन्धात् ॥१ -५॥

तथा च लोकभूतेषु ॥१ -६॥

द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् ॥१ -७॥

स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः ॥१ -८॥

चोद्यन्ते चार्थकर्मसु ॥१ -९॥

लिङ्गदर्शनाच् च ॥१ -१०॥

तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् ॥१ -११॥

एकश्रुतित्वाच् च ॥१ -१२॥

प्रतीयते इति चेत् ॥१ -१३॥

नाशब्दं तत्प्रमाणत्वात् पूर्ववत् ॥१ -१४॥

शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् ॥१ -१५॥

तद्वच् च लिङ्गदर्शनम् ॥१ -१६॥

तथा च लिङ्गम् ॥१ -१७॥

आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत ॥१ -१८॥

चोदनायां त्व् अनारम्भो ऽविभक्तत्वान् न ह्य् अन्येन विधीयते ॥१ -१९॥

स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः ॥१ -२०॥

अर्थे समवैषम्यतो द्रव्यकर्मणाम् ॥१ -२१॥

एकनिष्पत्तेः सर्वे समं स्यात् ॥१ -२२॥

संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् ॥१ -२३॥

मुख्यशब्दाभिसंस्तवाच् च ॥१ -२४॥

पदकर्माप्रयोजकं नयनस्य परार्थत्वात् ॥१ -२५॥

अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते ॥१ -२६॥

पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् ॥१ -२७॥

एकदेशद्रव्यश् चोत्पत्तौ वद्यमानसंयोगात् ॥१ -२८॥

निर्देशात् तस्यान्यद् अर्थाद् इति चेत् ॥१ -२९॥

न शेषसन्निधानात् ॥१ -३०॥

कर्मकार्यात् ॥१ -३१॥

लिङ्गदर्शनाच् च ॥१ -३२॥

अभिघारणे विप्रकर्षाद् अनूयाजवत् पात्रभेदः स्यात् ॥१ -३३॥

न वा पात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् ॥१ -३४॥

हेतुत्वाच् च सहप्रयोगस्य ॥१ -३५॥

अभावदर्शनाच् च ॥१ -३६॥

सति सव्यवचनम् ॥१ -३७॥

न तस्येति चेत् ॥१ -३८॥

स्यात् तस्य मुख्यत्वात् ॥१ -३९॥

समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् ॥१ -४०॥

वचने हि हेत्वसामर्थ्यम् ॥१ -४१॥

तत्रोत्पत्तिर् अविभक्ता स्यात् ॥१ -४२॥

तत्र जौहवम् अनूयाजप्रतिषेधार्थम् ॥१ -४३॥

औपभृतं तथेति चेत् ॥१ -४४॥

स्याज् जुहूप्रतिषेधान् नित्यानुवादः ॥१ -४५॥

तदष्टसङ्ख्यं श्रवणात् ॥१ -४६॥

अनुग्रहाच् च जौहवस्य ॥१ -४७॥

द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने ॥१ -४८॥


स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् ॥२-१॥

जात्यन्तराच् च शङ्कते ॥२ -२॥

तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् ॥२ -३॥

शकलश्रुतेश् च ॥२ -४॥

प्रतियूपं च दर्शनात् ॥२ -५॥

आदाने करोतिशब्दः ॥२ -६॥

शाखायां तत्प्रधानत्वात् ॥२ -७॥

शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् ॥२ -८॥

श्रुत्यपायाच् च ॥२ -९॥

हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् ॥२ -१०॥

प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् ॥२ -११॥

अर्थे ऽपि चेत् ॥२ -१२॥

न तस्यानधिकाराद् अर्थस्य च कृतत्वात् ॥२ -१३॥

उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् ॥२ -१४॥

संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् ॥२ -१५॥

प्रासनवन् मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् ॥२ -१६॥

अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् ॥२ -१७॥

कर्मयुक्ते च दर्शनात् ॥२ -१८॥

उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् ॥२ -१९॥

सौमिके च कृतार्थत्वात् ॥२ -२०॥

अर्थकर्म वाभिधानसंयोगात् ॥२ -२१॥

प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः ॥२ -२२॥

कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् ॥२ -२३॥

नियमार्था वा श्रुतिः ॥२ -२४॥

तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् ॥२ -१५॥

संस्कारे च तत्प्रधानत्वात् ॥२ -२६॥

यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् ॥२ -२७॥

तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् ॥२ -२८॥

विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् ॥२ -२९॥

अपि वोत्पत्तिसंयोगाद् अर्थसम्बन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् ॥२ -३०॥

द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् ॥२ -३१॥

उत्पत्तेश् चातत्प्रधानत्वात् ॥३ -२॥

फलं तु तत्प्रधानायाम् ॥३ -३॥

नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् ॥३ -४॥

एकस्य तूभयत्वे संयोगपृथक्त्वम् ॥३ -५॥

शेष इति चेत् ॥३ -६॥

नार्थपृथक्त्वात् ॥३ -७॥

द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् ॥३ -८॥

पृथक्त्वाद्व्यवतिष्ठेत ॥३ -९॥

चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते ॥३ -१०॥

अपि वाम्नानसामथर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थत्वेन वचनानि प्रतीयन्ते ऽर्थतोप्य् असमर्थानाम् आनन्तर्ये ऽप्य् असम्बन्धस् तस्माच् छ्रुत्येकदेशः सः ॥३ -११॥

वाक्यार्थश् च गुणार्थवत् ॥३ -१२॥

तत्सर्वार्थम् अनादेशात् ॥३ -१३॥

एकं वा चोदनैकत्वात् ॥३ -१४॥

स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् ॥३ -१५॥

प्रत्ययाच् च ॥३ -१६॥

क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः ॥३ -१७॥

फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् ॥३ -१८॥

अङ्गेषु स्तुतिः परार्थत्वात् ॥३ -१९॥

काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः ॥३ -२०॥

वीते च कारणे नियमात् ॥३ -२१॥

कामो वा तत्संयोगेन चोद्यते ॥३ -२२॥

अङ्गेषु स्तुतिः परार्थत्वात् ॥३ -२३॥

वीते च नियमस् तदर्थम् ॥३ -२४॥

सर्वकाम्यम् अङ्गकामैः प्रकरणात् ॥३ -२५॥

फलोपदेशो वा प्रधानशब्दसंयोगात् ॥३ -२६॥

तत्र सर्वे ऽविशेषात् ॥३ -२७॥

योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् ॥३ -२८॥

समवाये चोदनासंयोगस्यार्थवत्वात् ॥३ -२९॥

कालश्रुतौ काल इति चेत् ॥३ -३०॥

नासमवायात्प्रयोजनेन ॥३ -३१॥

उभयार्थाम् इति चेत् ॥३ -३२॥

न शब्दैकत्वात् ॥३ -३३॥

प्रकरणाद् इति चेत् ॥३ -३४॥

नोत्पत्तिसंयोगात् ॥३ -३५॥

अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् ॥३ -३६॥ उतपत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् ॥३ -३७॥

फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् ॥३ -३८॥

अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥३ -३९॥

प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् ॥३ -४०॥

अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् ॥३ -४१॥


प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् ॥४-१॥

अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् ॥४ -२॥

मध्यस्थं यस्य तन्मध्ये ॥४ -३॥

सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये ॥४ -४॥

प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् ॥४ -५॥

अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य ॥४ -६॥

फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् ॥४ -७॥

दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् ॥४ -८॥

नित्यश् च ज्येष्ठशब्दात् ॥४ -९॥

सार्वरूप्याच् च ॥४ -१०॥

नित्यो वा स्याद् अर्थवादस्तयोः कर्मण्य् असम्बन्धाद् भङ्गित्वाच् चान्तरायस्य ॥४ -११॥

वैश्वानरश् च नित्यः स्यान् नित्यैः समानसङ्ख्यत्वात् ॥४ -१२॥

पक्षे वोत्पन्नसंयोगात् ॥४ -१३॥

षट्चितिः पूर्ववत्त्वात् ॥४ -१४॥

ताभिश् च तुल्यसंख्यानात् ॥४ -१५॥

अर्थवादोपपत्तेश् च ॥४ -१६॥

एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन ॥४ -१७॥

विप्रतिषेधात् ताभिः समानसङ्ख्यत्वम् ॥४ -१८॥

पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् ॥४ -१९॥

तुल्यवच् च प्रसङ्ख्यानात् ॥४ -२०॥

प्रतिषिद्धे च दर्शनात् ॥४ -२१॥

पश्वङ्ग रशमा स्यात् तदागमे विधानात् ॥४ -२२॥

यूपाङ्गं वा तत्संस्कारात् ॥४ -२३॥

अर्थवादश् च तदर्थवत् ॥४ -२४॥

स्वरुश्चाप्य् एकदेशत्वात् ॥४ -२५॥

निष्क्रयश् च तदङ्गवत् ॥४ -२६॥

पश्वङ्गं वार्थकर्मत्वात् ॥४ -२७॥

भक्त्या निष्क्रयवादः स्यात् ॥४ -२८॥

दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् ॥४ -२९॥

अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः ॥४ -३०॥

तथा चान्यार्थदर्शनम् ॥४ -३१॥

अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् ॥४ -३२॥

नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् ॥४ -३३॥

पृथवत्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधाव् असंयुक्तं तदङ्गंस्याद्भागित्वात् कारणस्याश्रुतश् चान्यसम्बन्धः ॥४ -३४॥

गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते ॥४ -३५॥

तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसम्बन्धः ॥४ -३६॥

उत्पत्ताव् अभिसम्बन्धस् तस्माद् अङ्गोपदेशः स्यात् ॥४ -३७॥

तथा चान्यार्थदर्शनम् ॥४ -३८॥

ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् ॥४ -३९॥

गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् ॥४ -४०॥

तथा चान्यार्थदर्शनम् ॥४ -४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-15T09:56:55.8630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

brake bleeding

  • रोधक निःस्त्रवण 
RANDOM WORD

Did you know?

कोणतीही ही पूजा करण्याआधी संकल्प कां करावा?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site