TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मिमांसा - भाग १०

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


भाग १०

विधेः प्रकरणान्तरे ऽतिदेशात्सर्वकर्म स्यात् ॥१ -१॥

अपि वाभिधानसंस्कारद्रव्यर्थे क्रियेत तादर्थ्यात् ॥१ -२॥

तेषामप्रत्यक्षविशिष्टत्वात् ॥१ -३॥

इष्ठिरारम्भसंयोगादङ्गभूतान्निवर्तेतारमभस्य प्रधानसंयोगात् ॥१ -४॥

प्रधानाच्चान्यसंयुक्तात्कसर्वारम्भान्निवर्तेतानङ्गत्वात् ॥१ -५॥

तस्यां तु स्यात्प्रयाजवत् ॥१ -६॥

न वाङ्गभूतत्वात् ॥१ -७॥

एकवाक्यत्वाच्च ॥१ -८॥

कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् ॥१ -९॥

स्थाणौ तु देशमात्रत्वादनिबृत्तिः प्रतीयेत ॥१ -१०॥

अपि वा शेषभूतत्वात्संस्कारः प्रतीयेत ॥१ -११॥

समाख्यानं च तद्वत् ॥१ -१२॥

मन्त्रवर्णश्च तद्वत् ॥१ -१३॥

प्रयाजे च तन्न्यायत्वात् ॥१ -१४॥

लिङ्गदर्शनाच्च ॥१ -१५॥

तथाज्यभागाग्निरपीति चेत् ॥१ -१६॥

व्यपदेशाद्देवतान्तरम् ॥१ -१७॥

समत्वाच्च ॥१ -१८॥

पशावपीति चेत् ॥१ -१९॥

न तदभूतवचनात् ॥१ -२०॥

लिङ्गदर्शनाच्च ॥१ -२१॥

गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च ॥१ -२२॥

अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात् ॥१ -२३॥

व्यृद्धवचनञ्च विप्रतिपत्तौ तदर्थत्वात् ॥१ -२४॥

गुणेपीति चेत् ॥१ -२५॥

नासंहानात्करालवत् ॥१ -२६॥

ग्रहाणाञ्च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् ॥१ -२७॥

ग्रहाभावे च तद्वचनम् ॥१ -२८॥

देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति ॥१ -२९॥

अविरुद्वोपपत्तिरर्थापत्तेः शृतवद्भूतविकारः स्यात् ॥१ -३०॥

स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्लमुक्तं तस्यार्थवादत्वम् ॥१ -३१॥

विप्रतिपत्तौ तासामाख्याविकारः स्यात् ॥१ -३२॥

अभ्यासो वा प्रयाजवदेकदेशो ऽन्यदेवत्यः ॥१ -३३॥

चरुर्हविर्विकारः स्यादिज्यासंयोगात् ॥१ -३४॥

प्रसिद्धग्रहणत्वाच्च ॥१ -३५॥

ओदनो वान्नसंयोगात् ॥१ -३६॥

न द्व्यर्थत्वात् ॥१ -३७॥

कपालविकारो वा विशये ऽर्थोपपत्तिभ्याम् ॥१ -३८॥

गुणमुख्यविशेषाच्च ॥१ -३९॥

तच्छ्रुतौ चान्यहविष्ठात् ॥१ -४०॥

लिङ्गदर्शनाच्च ॥१ -४१॥

ओदनो वा प्रयुक्तत्वात् ॥१ -४२॥

अपूर्वव्यपदेशाच्च ॥१ -४३॥

तथा च लिङ्गदर्शनम् ॥१ -४४॥

स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात् ॥१ -४५॥

एकस्मिन्वाविप्रतिषेधात् ॥१ -४६॥

न वार्ऽथान्चरसंयोगादपूपे पाकसंयुक्तं धारणार्थं तरौ भवति तत्रार्थात्पात्रलाभः स्यादन्यमो ऽविशेषात् ॥१ -४७॥

चरौ वा लिङ्गदर्शनात् ॥१ -४८॥

तस्मिन्पेषणमनर्थलोपात्स्यात् ॥१ -४९॥

अक्रिया वा अपूपहेतुत्वात् ॥१ -५०॥

पिण्डार्थत्वाच्च संयवनम् ॥१ -५१॥

संवपनञ्च तादर्थ्यात् ॥१ -५२॥

सन्तापनमधःश्रपणात् ॥१ -५३॥

उपधानं च तादर्थ्यात् ॥१ -५४॥

पृथुश्र्लक्ष्णे वानपूपत्वात् ॥१ -५५॥

अभ्यूहश्चोपरिपाकार्थत्वात् ॥१ -५६॥

तथावज्वलनम् ॥१ -५७॥

व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् ॥१ -५८॥


कृष्णलेष्वर्थलोपाकः स्यात् ॥२-१॥

स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत् ॥२ -२॥

उपस्तरणाभिघारणयोपमृतार्थत्वादकर्म स्यात् ॥२ -३॥

क्रियेत वार्ऽथवादत्वात्तयोः संसर्गबेतुत्वात् ॥२ -४॥

अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम् ॥२ -५॥

क्रिया वा मुख्यावदानपरिमाणात्सामन्यात्तद्गुणत्वम् ॥२ -६॥

तेषां चैकावदानत्वात् ॥२ -७॥

आप्तिः संख्या समानत्वात् ॥२ -८॥

सतोस्त्वाप्तिवचनं व्यर्थम् ॥२ -९॥

विकल्पस्त्वेकावदानत्वात् ॥२ -१०॥

सर्वविकारे त्वभ्यसानर्थक्यं हविषो हीतरस्य स्यादपि वा स्विष्टकृतः स्यादितरस्यान्याय्यत्वात् ॥२ -११॥

अकर्म वा संसर्गार्थनिवृत्तस्मादाप्तिसमर्थत्वं ॥२ -१२॥

भक्षाणां तु प्रत्यर्थत्वादकर्म स्यात् ॥२ -१३॥

स्याद्वा निर्धानदर्शनात् ॥२ -१४॥

वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात् ॥२ -१५॥

वचनं वा हिरण्यस्य प्रदानवदाज्यस् . गुणभूतत्वात् ॥२ -१६॥

एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् ॥२ -१७॥

सर्वत्वं च तेषामधिकारात्स्यात् ॥२ -१८॥

पुरिषापनयो वा तेषामवाच्यत्वात् ॥२ -१९॥

पुरुषापनयात्स्वकालत्वम् ॥२ -२०॥

एकार्थत्वादविभागः स्यात् ॥२ -२१॥

ऋत्विद्जानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात् ॥२ -२२॥

परिक्रयार्थं वा कर्मसंयोगाल्लोकवत् ॥२ -२३॥

दक्षिणायुक्तवचनाच्च ॥२ -२४॥

नचान्येनानम्येत परिक्रीयात्कर्मणः परार्थत्वात् ॥२ -२५॥

परिक्रीतवचनाच्च ॥२ -२६॥

सनिवन्येव भृति वचनात् ॥२ -२७॥

नैष्कर्तृकेण समस्तवाच्च ॥२ -२८॥

शेषभक्षाश्च तद्वत् ॥२ -२९॥

संस्कारो वा द्रव्यस्य परार्थत्वात् ॥२ -३०॥

शेषे च समत्वात् ॥२ -३१॥

स्वामिनि त दर्शनात्तत्सामान्यादितरेषान्तथात्वम् ॥२ -३२॥

तथा चान्यार्थदर्शनम् ॥२ -३३॥

वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात् ॥२ -३४॥

परिक्रयश्च तादर्थ्यात् ॥२ -३५॥

प्रतिषेघश्च कर्मवत् ॥२ -३६॥

स्याद्वाप्रासर्पिकस्य धर्ममात्रत्वात् ॥२ -३७॥

न दक्षिणाशब्दात्तस्मान्नित्यानुवादः स्यात् ॥२ -३८॥

उदवसानीयः सत्रधर्मा स्यात्तदङ्गत्वात्तत्र दाने धर्ममात्रं स्यात् ॥२ -३९॥

न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च ॥२ -४०॥

तेषां तु वचवाद्द्वियज्ञवत्सहप्रयोगः स्यात् ॥२ -४१॥

तत्रान्यानृत्विजो वृणीरन् ॥२ -४२॥

एकैकशस्तवविप्रतिषेधात्प्रकृतेश्चैकसंयोगात् ॥२ -४३॥

कामेष्टौ च दानशब्दात् ॥२ -४४॥

वचनं वा सत्रत्वात् ॥२ -४५॥

द्वेष्ये च चोदनाद्दक्षिणापनयात् ॥२ -४६॥

अस्थियज्ञो ऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम् ॥२ -४७॥

यावादुक्तमुपयोगः स्यात् ॥२ -४८॥

यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात ॥२ -४९॥

काम्यानि तु न विद्यन्ते कामा ज्ञामाद्यथेतरस्यानुच्यमानानि ॥२ -५०॥

ईहार्थाश्चाभावात्सूक्तवाकवत् ॥२ -५१॥

स्युर्वार्ऽथवादत्वात् ॥२ -५२॥

नेच्छाभिधानात्तदभावादितरस्मिन् ॥२ -५३॥

स्युर्वा होतृकामाः ॥२ -५४॥

न तदाषीष्ट्वात् ॥२ -५५॥

सर्वस्वारस्यदिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् ॥२ -५६॥

स्याद्वोभयोः प्रत्क्षशिष्टत्वात् ॥२ -५७॥

गते करमास्थियज्ञवत् ॥२ -५८॥

जीवत्यवचनमायुराशिषस्तदर्थत्वात् ॥२ -५९॥

वचनं वा भागित्वात्प्राग्यथोक्तात् ॥२ -६०॥

क्रिया स्याद्धर्ममात्राणाम् ॥२ -६१॥

गुणलोपे च मुख्यस्य ॥२ -६२॥

मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात् ॥२ -६३॥

न निर्वापशेषत्वात् ॥२ -६४॥

संख्यातु चोदनां प्रति सामान्यात्तद्विकारः संयोगाच्च परं मुष्ठेः ॥२ -६५॥

न चोदनाभिसम्बन्धात्प्रक्रतौ संस्कारयोगात् ॥२ -६६॥

औतपत्तिके तु द्रव्यतो विकारः स्यादकार्यात्वात् ॥२ -६७॥

नैमितेतिके तु कार्यत्वात्प्रकृतेः स्यात्त दापत्तेः ॥२ -६८॥

विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेनच कर्मसंयोगात् ॥२ -६९॥

परेषां प्रतिषेधः स्यात् ॥२ -७०॥

प्रतिषेधाच्च ॥२ -७१॥

अर्थाभावे संस्कारत्वं स्यात् ॥२ -७२॥

अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् ॥२ -७३॥


विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् ॥३-१॥

प्रकृतिवत्तस्य चानुपरोधः ॥३ -२॥

चोदनाप्रभुत्वाच्च ॥३ -३॥

प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान्विधिरविशेषात्प्रवर्तितः ॥३ -४॥

न चाङ्गविधिरनङ्गे स्यात् ॥३ -५॥

कर्मणश्चै कशब्द्यात्सन्निधाने विधेराख्यासंयोगो गुणेनतद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात् ॥३ -६॥

अकार्यत्वाच्च नाम्नः ॥३ -७॥

तुल्याच प्रभुता गुणे ॥३ -८॥

सर्वमेवंप्रधानमिति चेत् ॥३ -९॥

तथाभूतेनसंयोगाद्यथार्थविधयः स्युः ॥३ -१०॥

विधित्वं चाविशिष्ठ मेवं प्राकृतानां वैकृतैः कर्मणायोगात्तस्मात्सर्वं प्रधानार्थम् ॥३ -११॥

समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात् ॥३ -१२॥

हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् ॥३ -१३॥

प्रकृत्यनुपरोधाच्च ॥३ -१४॥

उत्तरस्य वा मन्त्रार्थित्वात् ॥३ -१५॥

विध्यतिदेशात्तच्छ्रुतौ बिकारः स्याद्गुणानामुपदेश्यत्वात् ॥३ -१६॥

पूर्वस्मिश्चामन्त्रत्वदर्शनात् ॥३ -१७॥

संस्कारे तु क्रियान्तर तस्य विधयकत्वात् ॥३ -१८॥

प्रकृत्यनुपरोधाच्च ॥३ -१९॥

विधेस्तु तत्र भावात्सन्देहे यस्य शब्दस्तदर्थः स्यात् ॥३ -२०॥

संस्कारसामर्थ्याद्गुणसंयोगाच्च ॥३ -२१॥

विप्रतिषेधात्क्रियाप्रकरणे स्यात् ॥३ -२२॥

षड्भिर्ःदीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् ॥३ -२३॥

अभ्यासात्तु प्रधानस्य ॥३ -२४॥

आवृत्त्या मन्त्रकर्म स्यात् ॥३ -२५॥

अपिवा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्च कृते ऽभ्यासः ॥३ -२६॥

पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् ॥३ -२७॥

तत्प्रथक्त्वं च दर्शयति ॥३ -२८॥

न चाविशेषाद्व्यपदेशः स्यात् ॥३ -२९॥

अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् ॥३ -३०॥

शैष्ठत्वाच्चेतरासां यथास्थानम् ॥३ -३१॥

विकारस्त्वप्रकरणे हि काम्यानि ॥३ -३२॥

शङ्कते च निवृत्तेरुभयत्वंहिश्रूयते ॥३ -३३॥

वासो वत्सञ्च सामान्यात् ॥३ -३४॥

अर्थापत्तेस्तद्धर्माः स्यान्निमित्ताख्याभिसंयोगात् ॥३ -३५॥

दाने पाको ऽर्थलक्षणः ॥३ -३६॥

पाकस्थ चान्नकारित्त्वात् ॥३ -३७॥

तथाभिघारणस्य ॥३ -३८॥

द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात्स्यात् ॥३ -३९॥

समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात् ॥३ -४०॥

यस्य वा सन्निधाने स्याद्वाक्यतोह्यभिसम्बन्धः ॥३ -४१॥

असंयुक्तास्तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात् ॥३ -४२॥

असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः ॥३ -४३॥

शब्जार्थश्चापि लोकवत् ॥३ -४४॥

सापशूनामुत्पत्तितो विभागात् ॥३ -४५॥

अनियमो ऽविशेषात् ॥३ -४६॥

भागित्वाद्वा गवां स्यात् ॥३ -४७॥

प्रत्ययात् ॥३ -४८॥

लिङ्गदर्शनाच्च ॥३ -४९॥

तत्र दानं विभागेन प्रदानानां पृथक्त्वात् ॥३ -५०॥

परिक्राच्च लोकवत् ॥३ -५१॥

विभागं चापि दर्शयति ॥३ -५२॥

समं स्यादश्रुतित्वात् ॥३ -५३॥

अपि वा कर्मवैषम्यात् ॥३ -५४॥

अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाभ्युदये ॥३ -५५॥

तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन ॥३ -५६॥

सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात् समवायाद्धिकर्मभिः ॥३ -५७॥

चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात् ॥३ -५८॥

एका पञ्चेति धेनुवत् ॥३ -५९॥

त्रिवत्सश्च ॥३ -६०॥

तथा च लिङ्गदर्शनम् ॥३ -६१॥

एके ति श्रुतिभूतत्वात्सङ्ख्यया गवां लिङ्गविशेषेण ॥३ -६२॥

प्राकाशौ तथेति चेत् ॥३ -६३॥

अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदन्ताविकारः स्यात् ॥३ -६४॥

धेनुवच्चाश्चदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य ॥३ -६५॥

एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण ॥३ -६६॥

अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् ॥३ -६७॥

तथा च सोमचमसः ॥३ -६८॥

सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनां ॥३ -६९॥

ब्रह्मदाने ऽविशिष्टमिति चेत् ॥३ -७०॥

उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्मस्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात् ॥३ -७१॥

यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् ॥३ -७२॥

सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात् ॥३ -७३॥

यजुर्युक्ते ऽध्वर्योर्दक्षिणा विकारः स्यात् ॥३ -७४॥

अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते ॥३ -७५॥


प्रकृतिलिङ्गासंयागात्कर्मसंस्कारंविकृतावधिकं स्यात् ॥४-१॥

चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् ॥४ -२॥

सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत् ॥४ -३॥

अधिकैश्चैकवाक्यत्वात् ॥४ -४॥

लिङ्गदर्शनाच्च ॥४ -५॥

प्राजापत्येषु चाम्नानात् ॥४ -६॥

आमने लिङ्गदर्शनात् ॥४ -७॥

उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसयोगात् ॥४ -८॥

आनर्थक्यात्त्वधिकं स्यात् ॥४ -९॥

संस्कारे चान्यसंयोगात् ॥४ -१०॥

प्रयाजवदिति चेत् ॥४ -११॥

नार्थान्यत्वात् ॥४ -१२॥

आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात् ॥४ -१३॥

अधिकं वान्यार्थत्वात् ॥४ -१४॥

समुच्चयं च दर्शयति ॥४ -१५॥

सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत ॥४ -१६॥

अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात् ॥४ -१७॥

सर्वेषामविशेषात् ॥४ -१८॥

एकस्या वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात् ॥४ -१९॥

स्तोमविबृद्धौ त्वधिकं स्यादविबृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च ॥४ -२०॥

पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात् ॥४ -२१॥

वचनानित्वपूर्वत्वात् ॥४ -२२॥

विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना ॥४ -२३॥

शेषाणां वा चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते ॥४ -२४॥

तथोत्तरस्यान्ततौ तत्प्रकृतित्वात् ॥४ -२५॥

प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् ॥४ -२६॥

अविकारो वार्ऽथशब्दानपायात्स्याद्द्रव्यवत् ॥४ -२७॥

तथारम्भासमवायद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशाःस्त्रमनर्थकंस्यात् ॥४ -२८॥

द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात् ॥४ -२९॥

बुधन्वान्पवमानवद्विशेषनिर्देशात् ॥४ -३०॥

मन्त्रनिशेषनिर्देशान्न देवताविकारः स्यात् ॥४ -३१॥

विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपिभेदः स्यात् ॥४ -३२॥

यथोक्तं वा विप्रतिपत्तेर्न चोदना ॥४ -३३॥

स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निवर्तेत ॥४ -३४॥

संयोगो वार्ऽथापत्तेरभिधानस्य कर्मजत्वात् ॥४ -३५॥

सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् ॥४ -३६॥

सर्वस्य वैककर्म्यात् ॥४ -३७॥

स्विष्टकृदावापिको ऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात् ॥४ -३८॥

अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात् ॥४ -३९॥

संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् ॥४ -४०॥

स्याद्गुणार्थत्वात् ॥४ -४१॥

मनोतायां तु वचनादविकारः स्यात् ॥४ -४२॥

पृष्ठार्थे ऽन्यद्रथन्तरात्तद्योनिपूर्वत्वादृचां प्रविभक्तत्वात् ॥४ -४३॥

स्वयोनौ वा सर्वाख्यत्वात् ॥४ -४४॥

यूपवदिति चेत् ॥४ -४५॥

न कर्मसंयोगात् ॥४ -४६॥

कार्यत्वादुत्तरयोर्यथाप्रकृति ॥४ -४७॥

समानदेवते वा तृचस्याविभागात् ॥४ -४८॥

ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् ॥४ -४९॥

उभयपानात्पृषदाज्ये दध्नःस्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात् ॥४ -५०॥

न वा परार्थत्वाद्यज्ञपतिवत् ॥४ -५१॥

सायाद्वा आवाहनस्य तादर्थ्यात् ॥४ -५२॥

न वा संस्कारशब्दत्वात् ॥४ -५३॥

स्याद्वाद्रव्याभिधानात् ॥४ -५४॥

दध्नस्तुगुणभूतत्वादाज्यपानिगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात् ॥४ -५५॥

दधिवा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात् ॥४ -५६॥

अपिवाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् ॥४ -५७॥

अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम् ॥४ -५८॥

न वा स्याद्गुणशास्त्रत्वात् ॥४ -५९॥


आनुपूर्व्यवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात् ॥५-१॥

लिङ्गदर्शनाच्च ॥५ -२॥

विकल्पो वा समत्वात् ॥५ -३॥

क्रमादुपजनो ऽन्तेस्यात् ॥५ -४॥

लिङ्गमविशिष्टं सङ्ख्याया हि तद्वचनम् ॥५ -५॥

आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यत्यविधिः स्यात् ॥५ -६॥

एकत्रिके तृचादिषु माध्यन्दिनेछंन्दसां श्रुतिभूतत्वात् ॥५ -७॥

आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात् ॥५ -८॥

यथानिवेशञ्च प्रकृतिवत्सङ्ख्यामात्रविकारत्वात् ॥५ -९॥

त्रिकस्तृचे धुर्ये स्यात् ॥५ -१०॥

एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् ॥५ -११॥

चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात् ॥५ -१२॥

प्राप्तिस्तु रात्रिशब्दसम्बन्धात् ॥५ -१३॥

अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात् ॥५ -१४॥

स्तोमविवृद्धौ प्राकृतानामभ्यासेन सङ्ख्यापूरणमविकारात्सङ्ख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात् ॥५ -१५॥

आगमेन वाभ्यासस्याश्रुतित्वात् ॥५ -१६॥

सङ्ख्यायाश्च पृथक्त्वनिवेशात् ॥५ -१७॥

पराक्शब्दत्वात् ॥५ -१८॥

उक्ताविकाराच्च ॥५ -१९॥

अश्रुतित्वान्नेति चेत् ॥५ -२०॥

स्यादर्थचोदितानां परिमाणशास्त्रम् ॥५ -२१॥

आवापवचनं चाभ्यासे नोपपद्यते ॥५ -२२॥

साम्नाञ्चोत्पत्तिसामर्थ्यात् ॥५ -२३॥

धूर्येष्वपीति चेत् ॥५ -२४॥

नावृत्तिधर्मत्वात् ॥५ -२५॥

वहिष्पवमाने न ऋगागमः सामैकत्वात् ॥५ -२६॥

अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात् ॥५ -२७॥

अविशेषान्नेति चेत् ॥५ -२८॥

स्यात्तद्धर्मत्वात् प्रकृतिवदभ्यस्येताऽसङ्ख्यापूरणात् ॥५ -२९॥

यावदुक्तं वा कृतपरिमाणत्वात् ॥५ -३०॥

अधिकानाञ्च दर्शनात् ॥५ -३१॥

कर्मस्वपीति चेत् ॥५ -३२॥

न चोदितत्वात् ॥५ -३३॥

षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् ॥५ -३४॥

प्रकृतौ चाभावदर्शनात् ॥५ -३५॥

अयज्ञवचनाच्च ॥५ -३६॥

प्रकृतौ वा शिष्टत्वात् ॥५ -३७॥

प्रकृतिदर्शनाच्च ॥५ -३८॥

आम्नातंपरिसङ्ख्यार्थम् ॥५ -३९॥

उक्तमभावदर्शनम् ॥५ -४०॥

गुणादयज्ञत्वम् ॥५ -४१॥

तस्याग्रणाद्ग्रहणम् ॥५ -४२॥

उक्थ्याच्च वचनात् ॥५ -४३॥

तृतीयसवने वचनात्स्यात् ॥५ -४४॥

अनभ्यासे पराक्शब्दस्य तादर्थ्यात् ॥५ -४५॥

उक्थ्यविच्छेदवचनत्वाच्च ॥५ -४६॥

आग्रयणाद्वा पराक्शब्दस्य देशवाचत्वात्पुनराधेयवत् ॥५ -४७॥

विच्छेदः स्तोमसामान्यात् ॥५ -४८॥

उक्थ्याग्निष्टोमसंयागादस्तुतशस्त्रः स्यात्सतिहि संस्थान्यत्वम् ॥५ -४९॥

संस्तुतशस्त्रो वा तदङ्गत्वात् ॥५ -५०॥

लिङ्गदर्शनाच्च ॥५ -५१॥

वचनात्संस्थान्यत्वम् ॥५ -५२॥

अभावादतिरात्रेषुगृह्मते ॥५ -५३॥

अन्वयो वानारभ्य वानारभ्य विधानात् ॥५ -५४॥

चतुर्थेचतुर्थे ऽहन्यहीनस्य गृह्मतैत्यभ्यासेन प्रतीयेतभोजनवत् ॥५ -५५॥

अपि वा सङ्ख्यावत्त्वान्नानाहीनेषौ गृह्मते पक्षवदेकस्मिन्संख्यार्थभावात् ॥५ -५६॥

भोजने तत्सङ्ख्यं स्यात् ॥५ -५७॥

जगक्साम्नि सामाभावागृक्तः सामतदाख्यं स्यात् ॥५ -५८॥

उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात् ॥५ -५९॥

मुख्येन वा नियम्येत ॥५ -६०॥

निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात् ॥५ -६१॥

ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात् ॥५ -६२॥

अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रतरणादग्रत्वमुच्यते ॥५ -६३॥

धारासंयोगाच्च ॥५ -६४॥

कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात् ॥५ -६५॥

तद्देशानां वाग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात् ॥५ -६६॥

परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु ॥५ -६७॥

प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् ॥५ -६८॥

प्रतिकर्षञ्च दर्शयति ॥५ -६९॥

पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात् ॥५ -७०॥

तुल्यधर्मत्वाच्च ॥५ -७१॥

तथा च लिङ्गदर्शनम् ॥५ -७२॥

सादनं चापि शेषत्वात् ॥५ -७३॥

लिङ्ग दर्शनाच्च ॥५ -७४॥

प्रदानं चापि सादनवत् ॥५ -७५॥

न वा प्रधानत्वाच्छेषत्वात्सादनन्तथा ॥५ -७६॥

त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात् ॥५ -७७॥

अपि वाहर्गणेष्वग्निवत्समानविधानं स्यात् ॥५ -७८॥

द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात् ॥५ -७९॥

व्यूढो वा लिङ्गदर्शनात्समूढविकारः स्यात् ॥५ -८०॥

कामसंयोगात् ॥५ -८१॥

तस्योभयथा प्रवृत्तिरैककर्म्यात् ॥५ -८२॥

एकादशिनीवत् त्र्यनीका परिवृत्तिः स्यात् ॥५ -८३॥

स्वस्थानविवृद्धिर्वाह्रामप्रत्यक्षसङ्ख्यत्वात् ॥५ -८४॥

पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् ॥५ -८५॥

वचनात्परिवृत्तिरैकादशिनेषु ॥५ -८६॥

लिङ्गदर्शनाच्च ॥५ -८७॥

छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकरालस्यम न्त्राणां यथोत्पत्तिवचनमूहवत्स्यात् ॥५ -८८॥


एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् ॥६-१॥

तृचे वा लिङ्गदर्शनात् ॥६ -२॥

स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् ॥६ -३॥

पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम् ॥६ -४॥

विभक्ते वा समस्तविधानात्तद्विभागेविप्रतिषिद्धम् ॥६ -५॥

समासस्त्वेकादशिनेषु तत्प्रकृतित्वात् ॥६ -६॥

विहारप्रतिषेधाच्च ॥६ -७॥

श्रुतितो वा लोकवद्विभागः स्यात् ॥६ -८॥

विहाप्रकृतित्वाच्च ॥६ -९॥

विशये च तदासत्तेः ॥६ -१०॥

त्रयस्तथेति चेत् ॥६ -११॥

न समत्वात्प्रयाजवत् ॥६ -१२॥

सर्वपृष्ठे पृष्ठशब्दात्तोषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् ॥६ -१३॥

विधेस्तु विप्रकर्षः स्यात् ॥६ -१४॥

वैरूपसामा क्रतुसंयागात् त्रिवृदेवदेकसामा स्यात् ॥६ -१५॥

पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् ॥६ -१६॥

त्रिवृद्वदिति चेत् ॥६ -१७॥

न प्रकृतावकृत्स्नसंयोगात् ॥६ -१८॥

विधित्वात्नेति चेत् ॥६ -१९॥

स्याद्विशये तन्नयायत्वात्कर्माविभागात् ॥६ -२०॥

प्रकृतेश्चाविकारात् ॥६ -२१॥

त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् ॥६ -२२॥

स्तोमस्य वा तल्लिङ्गत्वात् ॥६ -२३॥

उभयसाम्नि विश्वजिद्वद्विभागः स्यात् ॥६ -२४॥

पृष्टार्थे वातदर्थत्वात् ॥६ -२५॥

लिङ्गदर्शनाच्च ॥६ -२६॥

पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशे ऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत् ॥६ -२७॥

अन्ते वा कृतकालत्वात् ॥६ -२८॥

अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् ॥६ -२९॥

अन्ते वा कृतकालत्वात् ॥६ -३०॥

आवृत्तिश्चु व्यवाये कालभेदात् स्यात् ॥६ -३१॥

मधु न दीक्षिता ब्रह्मचारित्वात् ॥६ -३२॥

प्राश्येत यज्ञार्थत्वात् ॥६ -३३॥

मानसमहरन्तरं स्याद्भेदव्यपदेशात् ॥६ -३४॥

तेन च संस्तवात् ॥६ -३५॥

अहरन्ताच्च परेण चोदना ॥६ -३६॥

पक्षे सङ्ख्या सहस्रवत् ॥६ -३७॥

अहरङ्ग वांशुवच्चोदनाभावात् ॥६ -३८॥

दशमविसर्गवचनाच्च ॥६ -३९॥

दशमे ऽहनीति च तद्गुणशास्त्रात् ॥६ -४०॥

सङ्ख्यासामञ्जस्यात् ॥६ -४१॥

पश्वतिरेके चैकस्य भावात् ॥६ -४२॥

स्तुतिव्यपदेशमङ्गेनविप्रतिषिद्धं व्रतवत् ॥६ -४३॥

वचनादतदन्तत्वम् ॥६ -४४॥

सत्रमेकः प्रकृतिवत् ॥६ -४५॥

वचनात्तु बहूनां स्यात् ॥६ -४६॥

अपदेशः स्यादिति चेत् ॥६ -४७॥

नैकव्यपदेशात् ॥६ -४८॥

सन्निवापञ्च दर्शयति ॥६ -४९॥

बहूनामिति चैकस्मिन्विशेषवचनं व्यर्थम् ॥६ -५०॥

अन्ये स्युर् ऋत्विजः प्रकृतिवत् ॥६ -५१॥

अपि वा यजमानाः स्युर् ऋत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम् ॥६ -५२॥

कर्तृ संस्कारो वचनादाधातृवदिति चेत् ॥६ -५३॥

स्याद्विशये तन्नयायत्वात्प्रकृतिवत् ॥६ -५४॥

स्वाम्याख्याः स्युर्गृहपतिवदिति चेत् ॥६ -५५॥

न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण ॥६ -५६॥

दीक्षितादीक्षितव्यपदेशश्च नोपपद्यते ऽर्थयोर्नित्यभावित्वात् ॥६ -५७॥ अदक्षिणत्वाच्च ॥६ -५८॥

द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् ॥६ -५९॥

यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् ॥६ -६०॥

अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यह कर्मभेदः स्यात् ॥६ -६१॥

सर्वस्य वैककर्म्यात् ॥६ -६२॥

पृषदाज्यवद्वाह्रां गुणशास्त्रं स्यात् ॥६ -६३॥

ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात् ॥६ -६४॥

द्वादशाहे तु वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात् ॥६ -६५॥

परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात् ॥६ -६६॥

भेदस्तु गुणसंयोगात् ॥६ -६७॥

प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात् ॥६ -६८॥

एकार्थत्वान्नेति चेत् ॥६ -६९॥

स्यादुत्पत्तौ कालभेदात् ॥६ -७०॥

विभज्य तु संस्कारवचनाद्द्वादशाहवत् ॥६ -७१॥

लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत् ॥६ -७२॥

यावदर्थंवार्थ शेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम् ॥६ -७३॥

आग्नेये कृत्स्त्रविधिः ॥६ -७४॥

ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात् ॥६ -७५॥

वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् ॥६ -७६॥

तत्राहर्गणे ऽर्थाद्वासःप्रकृतिः स्यात् ॥६ -७७॥

मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य ॥६ -७८॥

हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन ॥६ -७९॥


पशोरेकहविष्ट्वं समस्तचोदितत्वात् ॥७-१॥

प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्कल्पनत्वात् ॥७ -२॥

हविर्भेदात्कर्मणे ऽभ्यासस्तस्मात्तेभ्यो ऽवदानं स्यात् ॥७ -३॥

आज्यभागवद्वा विर्देशात्परिसंख्यास्यात् ॥७ -४॥

तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेतपशोः पञ्चावदानत्वात् ॥७ -५॥

अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसङ्घ्याने ऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात् ॥७ -६॥

अपि वा परिसङ्ख्या स्यादनवदानीयशब्दत्वात् ॥७ -७॥

अब्राह्मणे च दर्शनात् ॥७ -८॥

शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वं ॥७ -९॥

इज्याशेषात्सिवष्टकृदिज्येत प्रकृचिवत् ॥७ -१०॥

त्र्यङ्गैर्वा शरवद्विकारः स्यात् ॥७ -११॥

अध्यूध्नी होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात् ॥७ -१२॥

शेषे वा समवैति तस्माद्रथवन्नियमः स्यात् ॥७ -१३॥

अशास्त्रत्वात्तु नैवं स्यात् ॥७ -१४॥

अपि वा दानमात्रं स्याद्भक्षशब्दानभिसम्बन्धात् ॥७ -१५॥

दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्याच्छेषं प्रत्यविशिष्चत्वात् ॥७ -१६॥

अग्नीधश्च वविष्ठुपध्यूध्नीवत् ॥७ -१७॥

अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम् ॥७ -१८॥

स्याद्वा होत्रध्वर्युविकारत्वात्तयो कर्माभिसम्बन्धात् ॥७ -१९॥

द्विभागः स्याद्द्विकर्मत्वात् ॥७ -२०॥

एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात् ॥७ -२१॥

प्रतिप्रस्थातुश्च वपाश्ररणात् ॥७ -२२॥

अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात् ॥७ -२३॥

विकृतौ प्राकृतस्य विधेर्ग्रहणात्पुनः श्रुतिरनर्थिका स्यात् ॥७ -२४॥

अपि वाऽग्नेयवद्द्विशब्दत्वं स्यात् ॥७ -२५॥

न वा शब्दपृथक्त्वात् ॥७ -२६॥

अधिकं वार्थवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्यं स्यादपूर्वत्वात् ॥७ -२७॥

प्रतिषेधः स्यादिति चेत् ॥७ -२८॥

नाश्रुतत्वात् ॥७ -२९॥

अग्रहणादिति चेत् ॥७ -३०॥

न तुल्यत्वात् ॥७ -३१॥

तथा तद्ग्रहणे स्यात् ॥७ -३२॥

अपूर्वतां तु दर्शयोद्ग्रहणस्यार्थवत्त्वात् ॥७ -३३॥

ततो ऽपि यावदुक्तं स्यात् ॥७ -३४॥

स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात् ॥७ -३५॥

अतिषेधो वा दर्शनादिडायां स्यात् ॥७ -३६॥

प्रतिषेधो वा विधिपूर्वस्य दर्शनात् ॥७ -३७॥

शंय्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधो ऽनर्थकः स्यात् ॥७ -३८॥

नित्यानुवादो वा कर्मणः स्यादशब्दत्वात् ॥७ -३९॥

प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात् ॥७ -४०॥

प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात् ॥७ -४१॥

प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम् ॥७ -४२॥

उपसत्सु यावदुक्तमकर्म स्यात् ॥७ -४३॥

स्त्रोवेण वागुणत्वाच्छेपप्रतिषेधः स्यात् ॥७ -४४॥

अतिषेझं वा प्रतिषिध्यप्रतिप्रसवात् ॥७ -४५॥

अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात् ॥७ -४६॥

अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात् ॥७ -४७॥

आज्यभागयोर्वा गुणत्वाच्छेषप्रतिषेधः स्यात् ॥७ -४८॥

प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वं तस्मान्नित्यानुवादः स्यात् ॥७ -४९॥

आज्यभागयोर्ग्रहणं वित्यानुवादो वा गृहमेधीयवत्स्यात् ॥७ -५०॥

विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात् ॥७ -५१॥

उभयप्रदेशान्नेतिचेत् ॥७ -५२॥

शरेष्वपीति चेत् ॥७ -५३॥

विरोध्यग्रहणात्तथा शरेष्विति चेत् ॥७ -५४॥

तथेतरास्मिन् ॥७ -५५॥

श्रुत्यानर्थक्यमिति चेत् ॥७ -५६॥

ग्रहणस्यार्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात् ॥७ -५७॥

अधिकं स्यादिति चेत् ॥७ -५८॥

अधिकं स्यादिति चेत् ॥७ -५९॥

नार्थाभावात् ॥७ -६०॥

तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् ॥७ -६१॥

यावच्छ्रतीति चेत् ॥७ -६२॥

न प्रकृतावशब्दत्वात् ॥७ -६३॥

विकृतौ त्वनियमः स्यात्प्रषदाज्यवद्ग्रहणस्य गुणार्थत्वादुभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात् ॥७ -६४॥

ऐकार्थ्याद्वा नियभ्येत श्रुतितो विशिष्टत्वात् ॥७ -६५॥

विरोधित्वाच्च लोकवत् ॥७ -६६॥

क्रतोश्चतद्गुणत्वात् ॥७ -६७॥

विरोधिनाञ्च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात् ॥७ -६८॥

पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम् ॥७ -६९॥

यद्यपिचतुरवत्तीति तु नियमे नोपपद्यते ॥७ -७०॥

क्रत्वन्तरे वा तन्नयायत्वात्कर्मभेदात् ॥७ -७१॥

यथाश्रुतीति चेत् ॥७ -७२॥

न चोदनैकत्वात् ॥७ -७३॥


प्रतिषेधः प्रदेशे ऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्वि कल्पःस्यात् ॥८-१॥

अर्थप्राप्तवदिति चेत् ॥८ -२॥

न तुल्यहेतुत्वादुभयं शब्दलक्षणम् ॥८ -३॥

अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधोनामेकदेशः स्यात् ॥८ -४॥

अपूर्वे चार्थवादः स्यात् ॥८ -५॥

शिष्ट्वा तु प्रतिषेधः स्यात् ॥८ -६॥

न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च ॥८ -७॥

पूर्वैश्चच तुल्यकालत्वात् ॥८ -८॥

उपवादश्च तद्वत् ॥८ -९॥

प्रतिषेधादकर्मेति चेत् ॥८ -१०॥

न शब्दपूर्वत्वात् ॥८ -११॥

दीक्षितस्य दानहोमपाकप्रतिषेधो ऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात् ॥८ -१२॥

अक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् ॥८ -१३॥

तस्य वाप्यानुमानिकमविशेषात् ॥८ -१४॥

अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् ॥८ -१५॥

अविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्ट स्यात् ॥८ -१६॥

अकरणे तु यच्छास्त्रं विशेषे श्रुयमाणमविकृतमाज्य भागवत्प्राकृतप्रतिषेधार्थम् ॥८ -१७॥

विकारे तु तदर्थं स्यात् ॥८ -१८॥

वाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य ॥८ -१९॥

मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात् ॥८ -२०॥

अनाम्नाते च दर्शनात् ॥८ -२१॥

प्रतिषेधाच्च ॥८ -२२॥

अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात् ॥८ -२३॥

मासि ग्रहणञ्च तद्वात् ॥८ -२४॥

ग्रहणं वा तुल्यत्वात् ॥८ -२५॥

लिङ्गदर्शनाच्च ॥८ -२६॥

ग्रहणं समानविधानं स्यात् ॥८ -२७॥

मासिग्रहणमभ्यासप्रतिषेधार्थम् ॥८ -२८॥

उत्पत्तितादर्थ्याच्चतुरवत्तम प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुणभूतत्वात् ॥८ -२९॥

तत्संस्कारश्रुतेश्च ॥८ -३०॥

ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् ॥८ -३१॥

तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात् ॥८ -३२॥

साप्तदश्यवन्नियम्येत ॥८ -३३॥

हविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात् ॥८ -३४॥

पुरोडाशाभ्यामित्यधिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत् ॥८ -३५॥

न त्वनित्याधिकारो ऽस्ति विधौ नित्येनसम्बन्धस्तस्मादवाक्यशेषत्वम् ॥८ -३६॥

सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् ॥८ -३७॥

कृत्स्नत्वात्तु तथा स्तोमे ॥८ -३८॥

कर्तुः स्यादिति चेत् ॥८ -३९॥

न गुणार्थत्वात्प्राप्ते न चोपदेशार्थः ॥८ -४०॥

कर्मणोस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात् ॥८ -४१॥

यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायोस्ति विभक्तकालत्वात् ॥८ -४२॥

अपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर्द्विदेवतार्था स्याद्यथानभिप्रेतस्तथाऽग्नेयो दर्शनादेकदेवते ॥८ -४३॥

विधिं तु बादरायणः ॥८ -४४॥

प्रतिषिद्धविज्ञानाद्वा ॥८ -४५॥

तथा चान्यार्थदर्शनम् ॥८ -४६॥

उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत ॥८ -४७॥

ध्रौवाद्वा सर्वसंयोगात् ॥८ -४८॥

तद्वच्च देवतायां स्यात् ॥८ -४९॥

तान्द्रीणां प्रकरणात् ॥८ -५०॥

धर्माद्वा स्यात्प्रजापतिः ॥८ -५१॥

देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण ॥८ -५२॥

विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात् ॥८ -५३॥

अपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधान स्यात् ॥८ -५४॥

आनन्तर्यञ्च सान्नाय्यस्य पुरोडाशेन दर्शयत्यमावास्या विकारे ॥८ -५५॥

अगनीषामविधानासत्तु पौर्णमास्यामुभयत्र विधीयते ॥८ -५६॥

प्रतिषिद्ध्यविधानाद्वा विष्णुः समानदेशः स्यात् ॥८ -५७॥

तथा चान्यार्थदर्शनम् ॥८ -५८॥

न चानङ्ग सकृच् छ्रुताव् उभयत्र विधीयोतासम्बन्धात् ॥८ -५९॥

गुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति ॥८ -६०॥

विकारे चाश्रुतित्वात् ॥८ -६१॥

द्विपुरोडाशायां स्यादन्तरार्थत्वात् ॥८ -६२॥

अजामिकरणार्थत्वाच्च ॥८ -६३॥

तदर्थमिति चेन्नतत्प्रधानत्वात् ॥८ -६४॥

अशिष्ठेन च सम्बन्धात् ॥८ -६५॥

उत्पत्तेस्तु निवेशः स्याद्गुस्यानुपरोधेनार्थस्य निद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावे ऽश्रुतौ स्यात् ॥८ -६६॥

उभयोस्तु विधानात् ॥८ -६७॥

गुणानाञ्च परार्थत्वादुपवेषवद्यदेति स्यात् ॥८ -६८॥

अनपायश्च कालस्य लक्षणं हि पुरोडाशौ ॥८ -६९॥

प्रशंसार्थमजामित्वम् ॥८ -७०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-15T10:07:16.8100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

date stamp

  • दिनांक मुहर, तारीख मुहर 
  • पु. तारखेचा ठसा 
  • पु. तारखेचा शिक्का 
RANDOM WORD

Did you know?

shatshastra konati?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.