TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मिमांसा - भाग ९

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


भाग ९

यज्ञकर्म प्रधानं तद्धि चोदनाभूतं तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् ॥१ -१॥

संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात् ॥१ -२॥

तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसम्बन्धस्तस्माद्यज्ञ प्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात् ॥१ -३॥

फलदेवतयोश्च ॥१ -४॥

न चोदनाती हि ताद्गुण्यम् ॥१ -५॥

देवता वा प्रयोजयेदतिथिवद्भोजनस्यतदर्थत्वात् ॥१ -६॥

अर्थापत्याच ॥१ -७॥

ततश्च तेन सम्बन्धः ॥१ -८॥

अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः ॥१ -९॥

अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात् ॥१ -१०॥

द्रव्यसंख्याहितुसमुदायं वा श्रुतिसंयोगात् ॥१ -११॥

अर्थकारिते च द्रव्येण न व्यवस्था स्यात् ॥१ -१२॥

अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात् ॥१ -१३॥

अपूर्वत्वाद्व्यवस्था स्यात् ॥१ -१४॥

तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् ॥१ -१५॥

तद्यक्तस्येति चेत् ॥१ -१६॥

नाश्रुतित्वात् ॥१ -१७॥

अधिकारादिति चेत् ॥१ -१८॥

तुल्येषु नाधिकारः स्यादचोदितश्च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस्तस्माद्यज्ञप्रयोजनम् ॥१ -१९॥

देशबद्धमुपांशुत्वं तेषां स्याछ्रुतिनिर्देशात्तस्य च तत्रभावात् ॥१ -२०॥

यज्ञस्य वा तत्संयोगात् ॥१ -२१॥

अनुवादश्च तदर्थवत् ॥१ -२२॥

प्रणीतादि तथेति चेत् ॥१ -२३॥

न यज्ञस्याश्रुतित्वात् ॥१ -२४॥

तद्देशानां वा संघातस्यचोदितत्वात् ॥१ -२५॥

अग्निधर्मः प्रतिष्टकं संघातात्पौर्णमासीवत् ॥१ -२६॥

अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थ त्वात् ॥१ -२७॥

चोदनासमुदायात्तु पौर्ण मास्यां तथा स्यात् ॥१ -२८॥

पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् ॥१ -२९॥

लिङ्गाद्वा प्रागुत्तमात् ॥१ -३०॥

अनुवादो वा दोक्षा यथा नक्तं संस्थापनस्य ॥१ -३१॥

स्याद्वानारभ्य विधानादन्ते लिङ्ग विरोधात् ॥१ -३२॥

अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मःस्यात् ॥१ -३३॥

इष्ट्यावृतौ प्रयाजवदावर्तेतारम्भणीया ॥१ -३४॥

सकृद्वाऽरम्भसंयागादेकः पुनरारम्भो यावज्जीवप्रयोगात् ॥१ -३५॥

अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात् ॥१ -३६॥

ततश्चावचनन्तेषामितरार्थं प्रयुज्यते ॥१ -३७॥

गुणशब्दस्तथेति चेत् ॥१ -३८॥

नसमवायात् ॥१ -३९॥

चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात् ॥१ -४०॥

विकारस्तत्प्रधाने स्यात् ॥१ -४१॥

असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत ॥१ -४२॥

कर्माभावादेवमिति चेत् ॥१ -४३॥

न परर्थत्वात् ॥१ -४४॥

लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् ॥१ -४५॥

पश्र्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् ॥१ -४६॥

विशेषो वा तदर्थनिर्देशात् ॥१ -४७॥

पशुत्वं चैकशब्द्यात् ॥१ -४८॥

यथोक्तं वा सन्निधानात् ॥१ -४९॥

आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् ॥१ -५०॥

द्वैधं वा तुल्यहेतुत्वात्सामान्याद्विकल्पः स्यात् ॥१ -५१॥

उपदेशाच्च साम्नः ॥१ -५२॥

नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत् ॥१ -५३॥

अगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् ॥१ -५४॥

यत्स्थाने बा तद्गीतिः स्यात्पदान्यत्वप्रधानत्वात् ॥१ -५५॥

गानसंयोगाच्च ॥१ -५६॥

वचनमिति चेत् ॥१ -५७॥

न तत्प्रधानत्वात् ॥१ -५८॥


सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् ॥२-१॥

तदुक्तदोषम् ॥१ -२॥

कर्म वा विधिलक्षणम् ॥२ -३॥

तादृग्द्रव्यं वचनात्पाकयज्ञवत् ॥२ -४॥

तत्रीविप्रतिपिद्धो द्रव्यान्तरे व्यतिरेतकः प्रदेशश्च ॥२ -५॥

शब्दार्थत्वात्तुनैवं स्यात् ॥२ -६॥

परार्थत्वाच्च शब्दानाम् ॥२ -७॥

असम्बन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात् ॥२ -८॥

संस्कारश्चाप्रकरणे ऽग्निवत्स्यात्प्रयुक्तत्वात् ॥२ -९॥

अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत ॥२ -१०॥

आश्रितत्वाच्च ॥२ -११॥

प्रयुज्यत इति चेत् ॥२ -१२॥

ग्रहणार्थं प्रयुज्येत ॥२ -१३॥

तृचे स्याच्छ्रुतिनिर्देशात् ॥२ -१४॥

शब्दार्थत्वाद्विकारस्य ॥२ -१५॥

दर्शयति च ॥२ -१६॥

वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्सं स्कारस्य तदर्थत्वात् ॥२ -१७॥

तथा चान्यार्थ दर्शनम् ॥२ -१८॥

अनवानोपदेशश्च तद्वत् ॥२ -१९॥

अभ्यासेनेतरा श्रुतिः ॥२ -२०॥

तदभ्यासः समासु स्यात् ॥२ -२१॥

लिङ्गदर्शनाच्च ॥२ -२२॥

नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत ॥२ -२३॥

ऐकार्थ्याच्च तदभ्यासः ॥२ -२४॥

प्रागाथिकं तु ॥२ -२५॥

प्रगाथे च ॥२ -२७॥

लिङ्गदर्शनाव्यतिरेतकाच्च ॥२ -२८॥

अर्थैकत्वाद्विकल्पः स्यात् ॥२ -२९॥

अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात् ॥२ -३०॥

वचनाद्विनियोगः स्यात् ॥२ -३१॥

सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृत्वात् ॥२ -३२॥

वर्णे तु वादरिर्यथाद्रव्यं द्रव्यप्यतिरेकात् ॥२ -३३॥

स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत् ॥२ -३४॥

सर्वातिदेशस्तु सामान्याल्लीकवद्विकारः स्यात् ॥२ -३५॥

अन्वयञ्चापि दर्शयति ॥२ -३६॥

निवृत्तिर्वार्ऽथलोपात् ॥२ -३७॥

अन्वयोवार्थवादः स्यात् ॥२ -३८॥

अधिकञ्च विवर्णञ्च जैमिनिः स्तोभशब्दत्वात् ॥२ -३९॥

धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोजनानुबन्धः समवायात् ॥२ -४०॥

तदुत्पत्तेस्तु निष्टत्तिस्तत्कृतत्वात्स्यात् ॥२ -४१॥

अवेश्येरन्वार्थवत्त्वात्संरकारस्य तदर्थत्वात् ॥२ -४२॥

आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात् ॥२ -४३॥

परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् ॥२ -४४॥

क्रियेरन्वार्थनिर्वृत्तेः ॥२ -४५॥

एकार्थत्वादविभागः स्यात् ॥२ -४६॥

निर्देशाद्वा व्यवतिष्ठेरन् ॥२ -४७॥

अप्राकृते तद्विकाराद्विरोधाद्यवतिष्ठेरन् ॥२ -४८॥

उभयसाम्नि चैवमेकार्थापत्तेः ॥२ -४९॥

स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत् ॥२ -५०॥

पार्वणहोमयोस्तवप्रवृत्तिः समुदायार्थसंयोगात्तगभीज्याहि ॥२ -५१॥

कालस्येति चेत् ॥२ -५२॥

नाप्रकरणत्वात् ॥२ -५३॥ मन्त्रवर्णाच्च ॥२ -५४॥

तदभावे ऽग्निवगिति चेत् ॥२ -५५॥

नाधिकारकत्वात् ॥२ -५६॥

उभयोरविशेषात् ॥२ -५७॥

यदभीज्या वा तद्विषयौ ॥२ -५८॥

प्रयाजे ऽपीति चेत् ॥२ -५९॥

नाचीदितत्वात् ॥२ -६०॥


प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वादर्थे चाकार्यत्वात् ॥३-१॥

लिङ्गदर्शनाच्च ॥३ -२॥

जातिनैमित्तिकं यथास्थानम् ॥३ -३॥

अविकारमेके ऽनार्षत्वात् ॥३ -४॥

लिङ्गदक्शनाच्च ॥३ -५॥

निकारो वातदुक्तहेतुः ॥३ -६॥

लिङ्गं मन्त्रचिकीर्षार्थम् ॥३ -७॥

नियमो वोभयभागित्वात् ॥३ -८॥

लौकिके दोषसंयोगादपवृक्ते हिचोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात् ॥३ -९॥

अन्यायस्त्वविकारेणा द्रष्टप्रतिघातित्वादविशेषाच्च तेनास्य ॥३ -१०॥

विकारो वा तदर्थत्वात् ॥३ -११॥

अपित्वन्यायसम्बन्धात्प्रकृतिवत्परेष्वपियथार्थं स्यात् ॥३ -१२॥

यथार्थं त्वन्यायस्याचोदितत्वात् ॥३ -१३॥

छन्दसि तु यथादृष्टम् ॥३ -१४॥

विप्रतिपत्तौ विकल्पः स्यात्तत्सत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात् ॥३ -१५॥

प्रकरणविशेषाच्च ॥३ -१६॥

अर्थाभावात्तु नैवं स्याद्गुणनात्रमितरत् ॥३ -१७॥

द्यावोस्तथेति चेत् ॥३ -१८॥

नोत्पत्तिशब्दत्वात् ॥३ -१९॥

अपूर्वे त्वविकारो ऽप्रदेशात्प्रतीयेत ॥३ -२०॥

विकृतौ चापि तद्वचनात् ॥३ -२१॥

अध्रिगुः सवनीयेषु तद्वत्समानविधानाश्चेत् ॥३ -२२॥

प्रतिनिधौ चाविकारात् ॥३ -२३॥

अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात् ॥३ -२४॥

तादर्थ्याद्वा तदाख्यंस्यात्संस्कारैरविशिष्चत्वात् ॥३ -२५॥

उक्तञ्च तत्त्वमस्य ॥३ -२६॥

संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् ॥३ -२७॥

लिङ्गदर्शनाच्च ॥३ -२८॥

एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् ॥३ -२९॥

अविकारो वा बहूनामेककर्मवत् ॥३ -३०॥

सकृत्त्वं चैकध्यं स्यादेकत्वात्त्वचो ऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानां स्यात् ॥३ -३१॥

मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्तस्याचान्यायनिगदत्वात्सर्वत्रैवाविकारः स्यात् ॥३ -३२॥

अपि वा द्विसमवायो ऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् ॥३ -३३॥

स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात् ॥३ -३४॥

देवता तु तदाशीष्ट्वात्सम्प्राप्तत्वात्स्वात्स्वामिन्यनर्थिका स्यात् ॥३ -३५॥

उत्सर्गाच्च भक्त्यातस्मिन्पतित्वं स्यात् ॥३ -३६॥

उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् ॥३ -३७॥

एकस्तु समवायात्तस्य तल्लक्षणत्वात् ॥३ -२८॥

संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात् ॥३ -३९॥

एकत्वेपि गुणानपायात् ॥३ -४०॥

नियमो बहुदेवते विकारः स्यात् ॥३ -४१॥

विकल्पो वा प्रकृतिवत् ॥३ -४२॥

अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात् ॥३ -४३॥


षड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गाणस्य प्रविभक्तत्वादविकारे हि तासामकार्त्स्न्येनाभिसम्बन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः ॥४-१॥

अभ्यासे ऽपि तथेति चेत् ॥४ -२॥

न गुणादर्थकृतत्वाच्च ॥४ -३॥

समासे ऽपि तथेति चेत् ॥४ -४॥

नासम्भवात् ॥४ -५॥

स्वाभिश्च वचनं प्रकृतौ तथेह स्यात् ॥४ -६॥

वङ्क्रीणान्तु प्रधानत्त्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात् ॥४ -७॥

तासां च कृत्स्नवचनात् ॥४ -८॥

अपि त्वसन्निपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात् ॥४ -९॥

विकारस्तु प्रदेशत्वाद्यजमानवत् ॥४ -१०॥

अपूर्वत्वात्तथा पत्न्याम् ॥४ -११॥

अनाम्नातस्त्वविकारात्सङ्ख्यासु सर्वगामित्वात् ॥४ -१२॥

सङ्खाया त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम् ॥४ -१३॥

अनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः ॥४ -१४॥

अभ्यासो वाविकारात्स्यात् ॥४ -१५॥

पशुस्त्वेवं प्राधानंस्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात् ॥४ -१६॥

अश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम् ॥४ -१७॥

तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् ॥४ -१८॥

ऋगावास्यादाम्नातत्वादविकल्पश्च न्याय्यः ॥४ -१९॥

तस्यां तु वचनादैरवत्पदविकारः स्यात् ॥४ -२०॥

सर्वप्रतिषेधो वासंयागात्पदेन स्यात् ॥४ -२१॥

वनिष्ठुसन्निधानादुरूकेण वपाभिधानम् ॥४ -२२॥

प्रशसास्याभिधानम् ॥४ -२३॥

बाहुप्रशंसा वा ॥४ -२४॥

श्येन -शला -कश्यप - कवषस्त्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसन्निधानात् ॥४ -२५॥

कार्त्स्न्यं वा स्यात्तथाभावात् ॥४ -२६॥

अध्रिगोश्च तदर्थत्वात् ॥४ -२७॥

प्रासङ्गिके प्रायश्चत्तं न विद्यते परार्थत्वात्तदर्थे हिविधीयते ॥४ -२८॥

धारणे च परार्थत्वात् ॥४ -२९॥

क्रियार्थत्वादितरेषु कर्म स्यात् ॥४ -३०॥

न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् ॥४ -३१॥

प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत् ॥४ -३२॥

संस्कारप्रतिषेधश्च तद्वत् ॥४ -३३॥

तत्प्रतिषेधे च तथाभूतस्य वर्जनात् ॥४ -३४॥

अधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः ॥४ -३५॥

परो नित्यानुवादः स्यात् ॥४ -३६॥

विहितप्रतिषेधो वा ॥४ -३७॥

वर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम् ॥४ -३८॥

व्रतधर्माच्चलेपवत् ॥४ -३९॥

रसप्रतिषेधो वा पुरुषधर्मत्वात् ॥४ -४०॥

अभ्युदये दोगापनयः स्वधर्मा स्यात्प्रवृत्तत्वात् ॥४ -४१॥

शृतोपदेशाच्च ॥४ -४२॥

अपनयो वार्थान्तरे विधानाच्चरुपयोवत् ॥४ -४३॥

लक्षणार्था शृतश्रुतिः ॥४ -४४॥

श्रयणानां त्वपूर्वत्वात्प्रदानार्थेविधानं स्यात् ॥४ -४५॥

गुणो वा श्रयणार्थत्वात् ॥४ -४६॥

अर्थवादश्च तदथवत् ॥४ -४७॥

श्रुतेश्च तत्प्रधानत्वत् ॥४ -४८॥

अर्थवादश्च तदथवत ॥४ -४९॥

संस्कारं प्रति भावाच्च तस्मादप्यप्रधानम् ॥४ -५०॥

पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत् ॥४ -५१॥

शेषप्रतिषेधो वार्ऽथाभावादिडान्तवत् ॥४ -५२॥

पूर्वत्त्वाच्च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते ॥४ -५३॥

प्रबृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाजेयस्य ॥४ -५४॥

क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात् ॥४ -५५॥

आज्यसंस्थाप्रतिनिधिः स्याद्द्रब्योत्सर्गात् ॥४ -५६॥

समाप्तिवचनात् ॥४ -५७॥

चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात् ॥४ -५८॥

अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति ॥४ -५९॥

संस्था तद्देवतत्वात्स्यात् ॥४ -६०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-15T10:04:44.5000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

T-type

  • पु. T प्रकार 
  • पु. टी प्रकार 
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.