TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मिमांसा - भाग ८

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


भाग ८

अथ विशेषलक्षणम् ॥१ -१॥

यस्य लिङ्गमर्थसंयोगादभिधानवत् ॥१ -२॥

प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात् ॥१ -३॥

लिङ्गदर्शनाच्च ॥१ -४॥

कृत्स्वविधानाद्वापूर्वत्वम् ॥१ -५॥

स्त्रुगभिघारणाभावस्य च नित्यानुवादात् ॥१ -६॥

विधिरिति चेत् ॥१ -७॥

न वाक्यशेषत्वात् ॥१ -८॥

शङ्कतेचानुपोषणात् ॥१ -९॥

दर्शनमैष्टिकानां स्यात् ॥१ -१०॥

इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् ॥१ -११॥

पशौ च लिङ्गदर्शनात् ॥१ -१२॥

दैक्षस्य चेतरेषु ॥१ -१३॥

ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् ॥१ -१४॥

तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात् ॥१ -१५॥

अव्यक्तासु तु सोमस्य ॥१ -१६॥

गणेषु द्वादशाहस्य ॥१ -१७॥

गव्यस्य च तदादिषु ॥१ -१८॥

निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् ॥१ -१९॥

कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृ समुदायस्यानन्वयस्तद्बन्धनत्वात् ॥१ -२०॥

प्रवृत्तौ चापि तादर्थ्यात् ॥१ -२१॥

अश्रुतित्वाच्च ॥१ -२२॥

गुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात् ॥१ -२३॥

निवृत्तिर्वा कर्मभेगात् ॥१ -२४॥

अपि वातद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात् ॥१ -२५॥

एककर्मणि विकत्पो ऽविभागो हि चोदनैकत्वात् ॥१ -२६॥

लिङ्गसाधारण्याद्विकल्पः स्यात् ॥१ -२७॥

ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि ॥१ -२८॥

अश्रुतित्वान्नेति चेत् ॥१ -२९॥

स्याल्लिङ्गभावात् ॥१ -३०॥

तथा चान्यार्थदर्शनम् ॥१ -३१॥

विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् ॥१ -३२॥

तेन च कर्मसंयोगात् ॥१ -३३॥

गुणत्वेनदेवताश्रुतिः ॥१ -३४॥

हिरण्यमाज्यधर्मस्तेजस्त्वात् ॥१ -३५॥

धर्मानुग्रहाच्च ॥१ -३६॥

औषधं वा विशदत्वात् ॥१ -३७॥

चरुशब्दाच्च ॥१ -३८॥

तस्मिंश्च श्रपणश्रुतेः ॥१ -३९॥

मधूदके द्रव्यसामान्यात्पयोविकारः स्यात् ॥१ -४०॥

आज्यं वा वर्णसामान्यात् ॥१ -४१॥

धर्मानुग्रहाच्च ॥१ -४२॥

पूर्वस्य चाविशिष्टत्वात् ॥१ -४३॥


वाजिने सोमपूर्वत्वं सौत्रामण्याञ्च ग्रहेषु ताच्छब्द्यात् ॥२-१॥

अनुवषट्कारच्च ॥२ -२॥

समुपहूय भक्षणाच्च ॥२ -३॥

क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ्च तद्वत् ॥२ -४॥

हविषा वा नियम्येत तद्विकारत्वात् ॥२ -५॥

प्रशंसा सोमशब्दः ॥२ -६॥

वचनानीतराणि ॥२ -७॥

व्यपदेशश्च तद्वत् ॥२ -८॥

पशुपुरोडाशस्य च लिङ्गदर्शनम् ॥२ -९॥

पशुः पुरोडाशविकारः स्याद्देवतासामान्यात् ॥२ -१०॥

प्रोक्षणातच्च ॥२ -११॥

पर्यग्निकरणाच्च ॥२ -१२॥

सान्नाय्यं वा तत्प्रभवत्वात् ॥२ -१३॥

तस्य च पात्रदर्शनात् ॥२ -१४॥

दध्नः स्यान्मूर्तिसामान्यात् ॥२ -१५॥

पयो वा कालसामान्यात् ॥२ -१६॥

पश्र्वानन्तर्यात् ॥२ -१७॥

द्रवत्वं चाविशिष्टम् ॥२ -१८॥

आमिक्षोभयभाव्यत्वादुभयविकारः स्यात् ॥२ -१९॥

एकं वा चोदनैकत्वात् ॥२ -२०॥

दधिसंघातसामान्यात् ॥२ -२१॥

पयो वा तत्प्रधानत्वाल्लोकवद्दध्नस्तदर्थत्वात् ॥२ -२२॥

धर्मानुग्रहाच्च ॥२ -२३॥

सत्रमहीनश्च द्वादशाहस्तस्योभयथा प्रवृत्तिरैककर्म्यात् ॥२ -२४॥

अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्प्रकृत्या तुल्य शब्दत्वात् ॥२ -२५॥

द्विरात्रादीनामेकादशरात्रादहीनत्वं यजतिचोदनात् ॥२ -२६॥

त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात् ॥२ -२७॥

लिङ्गाच्च ॥२ -२८॥

अन्यतरतो ऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डगयिनामयनस्य च चद्भूतेष्वहूनत्वं कुण्डगयिनामयनस्य दर्शनात् ॥२ -२९॥

अहीनवचनाच्च ॥२ -३०॥

सत्रे वोपायिचोदनात् ॥२ -३१॥

सत्रलिङ्गञ्चदर्शयति ॥२ -३२॥


हविर्गणे परमुत्तरस्य देशसामान्यात् ॥३-१॥

देवतया वा नियम्येतशब्दत्त्वादितरस्याश्रुतित्वात् ॥३ -२॥

गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् ॥३ -३॥

नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात् ॥३ -४॥

तथा चान्यार्थदर्शनम् ॥३ -५॥

कालाभ्यासे ऽपि बादरिः कर्मभेदात् ॥३ -६॥

तदावृत्तिं तु जैमिनिरह्रामप्रत्यक्षसंख्यत्वात् ॥३ -७॥

संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् ॥३ -८॥

अधिकाराद्वा प्रकृतिस्तस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात् ॥३ -९॥

गणादुपचयस्तत्प्रकृतित्वात् ॥३ -१०॥

एकाहाद्वा तेषां समत्वात्स्यात् ॥३ -११॥

गायत्रीषु प्राकृतीनामवच्छेदः प्रकृत्त्याधिकारात्संख्या त्वादग्निष्टोमवदव्यतिरेकात्तदाख्यत्वम् ॥३ -१२॥

तन्नित्यवच्च प्रथक्सतीषु तद्वचनम् ॥३ -१३॥

न विंशतौ दशेति चेत् ॥३ -१४॥

ऐकसंख्यमेव स्यात् ॥३ -१४॥

गुणाद्वाद्रव्यशब्दः स्यादसर्वविषयत्वात् ॥३ -१६॥

गोत्वच्च समन्वयः ॥३ -१७॥

संख्यायाश्च शब्दत्वात् ॥३ -१८॥

इतरस्याश्रुतित्वाच्च ॥३ -१९॥

द्रव्यान्तरे ऽनिवेशादुक्थ्यलोपैर्विशिष्टं स्यात् ॥३ -२०॥

अशास्त्रलक्षमत्वाच्च ॥३ -२१॥

उत्पत्तिनामधेयत्वाद्भतया पृथक्सतीषु स्यात् ॥३ -२२॥

वचनमिति चेत् ॥३ -२३॥

यावदुक्तम् ॥३ -२४॥

अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम् ॥३ -२५॥

ऋग्गुणत्वान्नेति चेत् ॥३ -२६॥

तथा पूर्ववति स्यात् ॥३ -२७॥

गुणावेशश्च सर्वत्र ॥३ -२८॥

निष्पन्नग्रहणान्नेति चेत् ॥३ -२९॥

तथेहापिस्यात् ॥३ -३०॥

यदि वाविशये नियमः प्रकृत्युपबन्धाच्छरेष्वपि प्रसिद्धः स्यात् ॥३ -३१॥

द्रष्टः प्रयोग इतिचेत् ॥३ -३२॥

तथा शरेष्वपि ॥३ -३३॥

भत्तयेति चेत् ॥३ -३४॥

तथेतरस्मिन् ॥३ -३५॥

अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात् ॥३ -३६॥


दर्विहोमो यज्ञाभिधानं होमसंयोगात् ॥४-१॥

स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात् ॥४ -२॥

सर्वेषां वा दर्शनाद्वास्तुहोमे ॥४ -३॥

जुहोतिचोदनानां वा तत्संयोगात् ॥४ -४॥

द्रव्योपदेशाद्वा गुणाभिधानं स्यात् ॥४ -५॥

न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात् ॥४ -६॥

दर्शनाच्चान्यपात्रस्य ॥४ -७॥

तथाग्निहविषोः ॥४ -८॥

उक्तश्चार्थसम्बन्धः ॥४ -९॥

तस्मिन्सोमः प्रवर्तेताव्यक्तत्वात् ॥४ -१०॥

न वा स्वाहाकारेण संयोगाद्वाषट्कारस्य च निर्देशात्तन्त्रेतेन विप्रतिषेधात् ॥४ -११॥

शब्दान्तरत्वात् ॥४ -१२॥

लिङ्गदर्शनाच्च ॥४ -१३॥

उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर्लिङ्गदर्शनात्पशुवत् ॥४ -१४॥

अनुत्तरार्थोवार्ऽथवत्त्वादानर्थक्याद्धि प्राकृतस्योपरोधःस्यात् ॥४ -१५॥

न प्रकृतावपीति चेत् ॥४ -१६॥

उक्तं समवाये पारदौर्बल्यम् ॥४ -१७॥

तच्चोदना वेष्टेः प्रवृत्तित्वाद्विधिः स्यात् ॥४ -१८॥

शब्दसानर्थ्याच्च ॥४ -१९॥

लिङ्गदर्शनाच्च ॥४ -२०॥

तत्राभावस्य हेतुत्वाद्गुणार्थेस्याददर्शनम् ॥४ -२१॥

विधिरिति चेत् ॥४ -२२॥

न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते ॥४ -२३॥

येषां वापरयोर्हेमस्तेषां स्यादविरोधात् ॥४ -२४॥

तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् ॥४ -२५॥

लिङ्गाद्वा शेषहोमयोः ॥४ -२६॥

प्रतिपत्ति तु ते भवतस्तस्मादताद्विकारत्वम् ॥४ -२७॥

सन्निपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेघत्वाद्वचनाद् अतिदेशः स्यात् ॥४ -१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-15T10:03:25.0930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वाघली

  • स्त्री. एक प्रकारचा मासा . याची शेपटी करवतीसारखी असते . याचे खत झाडास घालतात . याचे प्रकार - बोलाड , पलवा , वानवसा , भाट्या , आघ्या . शेवते - इ० - कृषि ७५६ . 
RANDOM WORD

Did you know?

भीमा माहात्म्य हा ग्रंथ उपलब्ध होइल का?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site