TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मिमांसा - भाग ७

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


भाग ७

श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् ॥१ -१॥

उत्पत्त्यर्थाविभागाद् वा सत्त्ववद् ऐकधर्म्यं स्यात् ॥१ -२॥

चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् ॥१ -३॥

सत्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत ॥१ -४॥

अविभागात् तु नैवं स्यात् ॥१ -५॥

द्व्यर्थत्वं च विप्रतिषिद्धम् ॥१ -६॥

उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् ॥१ -७॥

यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् ॥१ -८॥

अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् ॥१ -९॥

स्मृतिर् इति चेत् ॥१ -१०॥

न पूर्ववत्वात् ॥१ -११॥

अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् ॥१ -१२॥

सामाने पूर्ववत्वाद् उत्पन्नाधिकारः स्यात् ॥१ -१३॥

श्येनस्येति चेति ॥१ -१४॥

नासन्निधानात् ॥१ -१५॥

अपि वा यद्य् अपूर्वत्वाद् इतरदधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् ॥१ -१६॥

पञ्चसञ्चरेष्व् अर्थवादातिदेशः सन्निधानात् ॥१ -१७॥

सर्वस्य वैकशब्द्यात् ॥१ -१८॥

लिङ्गदर्शनाच् च ॥१ -१९॥

विहिताम्नानान् नेति चेत् ॥१ -२०॥

नेतरार्थत्वात् ॥१ -२१॥

एककपालैन्द्राग्नौ च तद्वत् ॥१ -२२॥

एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् ॥१ -२३॥


साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् ॥२-१॥

शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरे ऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसम्बन्धः ॥२ -२॥

स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् ॥२ -३॥

शब्दमात्रम् इति चेत् ॥२ -४॥

नौत्पत्तिकत्वात् ॥२ -५॥

शास्त्रं चैवम् अनर्थकं स्यात् ॥२ -६॥

स्वरस्येति चेत् ॥२ -७॥

नार्थाभावाच् छ्रुतेर् असंबन्धः ॥२ -८॥

स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् ॥२ -९॥

लिङ्गदर्शनाच् च ॥२ -१०॥

अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति ॥२ -११॥

शब्दानां चासामञ्जस्यम् ॥२ -१२॥

अपि तु कर्मशब्दः स्याद् भावो ऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टो ऽन्यैः ॥२ -१३॥

अद्रव्यं चापि दृश्यते ॥२ -१४॥

तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् ॥२ -१५॥

तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् ॥२ -१६॥

योनिशस्याश् च तुल्यवद् इतराभिर् विधीयन्ते ॥२ -१७॥

अयोनौ चापि दृश्यते ऽतथायोनि ॥२ -१८॥

ऐकार्थ्ये नास्ति वैरूप्यम् इति चेत् ॥२ -१९॥

स्याद् अर्थान्तरेष्व् अनिष्पत्तेर् यथा पाके ॥२ -२०॥

शब्दानां च सामञ्जस्यं ॥२ -२१॥


उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्यात् ॥३-१॥

अपूर्वे वापि भागित्वात् ॥३ -२॥

नाम्नस् त्व् औत्पत्तिकत्वात् ॥३ -३॥

प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावे ऽप्रसिद्धं स्यात् ॥३ -४॥

अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् ॥३ -५॥

विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः ॥३ -६॥

षडहाद् वा तत्र हि चोदना ॥३ -७॥

लिङ्गाच् च ॥३ -८॥

उत्पन्नाधिकारो ज्योतिष्टोमः ॥३ -९॥

द्वयोर् विधिर् इति चेत् ॥३ -१०॥

न व्यर्थत्वात् सर्वशब्दस्य ॥३ -११॥

तथावभृथः सोमात् ॥३ -१२॥

प्रकृतेर् इति चेत् ॥३ -१३॥

न भक्तित्वात् ॥३ -१४॥

लिङ्गदर्शनाच् च ॥३ -१५॥

द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् ॥३ -१६॥

गुणविधिस् तु न गृह्णीयात् समत्वात् ॥३ -१७॥

निर्मन्थ्यादिषु चैवम् ॥३ -१८॥

प्रणयनं तु सौमिकम् अवाच्यं हीतरत् ॥३ -१९॥

उत्तरवेदिप्रतिषेधश् च तद्वत् ॥३ -२०॥

प्राकृतं वानामत्वात् ॥३ -२१॥

परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा ॥३ -२२॥

प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् ॥३ -२३॥

मध्यमयोर् वा गत्यर्थवादात् ॥३ -२४॥

औत्तरवेदिको ऽनारभ्यवादप्रतिषेधः ॥३ -२५॥

स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् ॥३ -२६॥

चोदनासामान्याद् वा ॥३ -२७॥

कर्मजे कर्म यूपवत् ॥३ -२८॥

रूपं वाशेषभूतत्वात् ॥३ -२९॥

विशये लौकिकः स्यात् सर्वार्थत्वात् ॥३ -३०॥

न वैदिकम् अर्थनिर्देशात् ॥३ -३१॥

तथोत्पत्तिर् इतरेषां समत्वात् ॥३ -३२॥

संस्कृतं स्यात् तच्छब्दत्वात् ॥३ -३३॥

भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् ॥३ -३४॥

कर्मणः पृष्टशब्दः स्यात् तथाभूतोपदेशात् ॥३ -३५॥

अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् ॥३ -३६॥


इतिकर्तव्यता विधेर् यजतेः पूर्ववत्त्वम् ॥४-१॥

स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् ॥४ -२॥

वचनात् तु ततो ऽन्यत्वम् ॥४ -३॥

लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् ॥४ -४॥

अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः ॥४ -५॥

मिथो विप्रतिषेधाच् च गुणानां यथार्थतल्पना स्यात् ॥४ -६॥

भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात् सम्बन्धाद् अभिधानवद् यथा धेनुः किशोरेण ॥४ -७॥

उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् ॥४ -८॥

उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् ॥४ -९॥

विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् ॥४ -१०॥

लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् ॥४ -११॥

लिङ्गस्य पूर्ववत्तवाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलाकेन ॥४ -१२॥

द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् ॥४ -१३॥

लिङ्गाच् च ॥४ -१४॥

न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् ॥४ -१५॥

लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् ॥४ -१६॥

न वार्थधर्मत्वात् संघातस्य गुणत्वात् ॥४ -१७॥

अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात् ॥४ -१८॥

प्रवृत्त्या नियतस्य लिङ्गदर्शनम् ॥४ -१९॥

विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् ॥४ -२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-15T10:02:24.4330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

parenthesis

  • पु. गोलकंस 
  • कंस, कंसगत विधान 
  • पु. कंस 
  • न. कंसगत विधान 
More meanings
RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site