TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मिमांसा - भाग ६

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


भाग ६

द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः ॥१ -१॥

असाधकं तु तादर्थ्यात् ॥१ -२॥

प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्य् अभिसम्बन्धस् तस्मात् कर्मोपदेशः स्यात् ॥१ -३॥

फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् ॥१ -४॥

कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते ॥१ -५॥

लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः ॥१ -६॥

तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते ॥१ -७॥

जातिं तु बादरायणो ऽविशेषात् तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् ॥१ -८॥

चोदितत्वाद् यथाश्रुति ॥१ -९॥

द्रव्यवत्त्वात् तु पुंसां स्याद् द्रव्यसंयुक्तं क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् ॥१ -१०॥

तथा चान्यार्थदर्शनम् ॥१ -११॥

तादर्थ्यात् कर्म तादर्थ्यम् ॥१ -१२॥

फलोत्साहाविशेषात् तु ॥१ -१३॥

अर्थेन च समवेतत्वात् ॥१ -१४॥

क्रयस्य थर्ममात्रत्वम् ॥१ -१५॥

स्ववत्ताम् अपि दर्शयति ॥१ -१६॥

स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात् ॥१ -१७॥

लिङ्गदर्शनाच् च ॥१ -१८॥

क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते ॥१ -१९॥

फलार्थित्वात् तु स्वामित्वेनाभिसम्बन्धः ॥१ -२०॥

फलवत्तां च दर्शयति ॥१ -२१॥

द्व्याधानं च द्वियज्ञवत् ॥१ -२२॥

गुणस्य तु विधानत्वात् पत्न्या द्वितीयशब्दः स्यात् ॥१ -२३॥

तस्या यावदुक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात् ॥१ -२४॥

चातुर्वर्ण्यम् अविशेषात् ॥१ -२५॥

निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेये ऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेर् इत्य् आत्रेयः ॥१ -२६॥

निमित्तार्थे न बादरिस् तस्मात् सर्वाधिकारं स्यात् ॥१ -२७॥

अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत ॥१ -२८॥

निर्देशात् तु पक्षे स्यात् ॥१ -२९॥

वैगुण्यान् नेति चेत् ॥१ -३०॥

न काम्यत्वात् ॥१ -३१॥

संस्कारे च तत्प्रधानत्वात् ॥१ -३२॥

अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत ॥१ -३३॥

गुणार्थित्वान् नेति चेत् ॥१ -३४॥

संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः ॥१ -३५॥

विद्यानिर्देशान् नेति चेत् ॥१ -३६॥

अबैद्यत्वाद् अभावः कर्मणि स्यात् ॥१ -३७॥

तथा चान्यार्थदर्शनम् ॥१ -३८॥

त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् ॥१ -३९॥

अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः ॥१ -४०॥

अङ्गहीनश् च तद्धर्मा ॥१ -४१॥

उत्पत्तौ नित्यसंयोगात् ॥१ -४२॥

अत्र्यार्षेयस्य हानं स्यात् ॥१ -४३॥

वचनाद् रथकारस्याधाने ऽस्य सर्वशेषत्वात् ॥१ -४४॥

न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धतत्वात् ॥१ -४५॥

अकर्मत्वात् तु नैवं स्यात् ॥१ -४६॥

आनर्थक्यं च संयोगात् ॥१ -४७॥

गुणार्थेनेति चेत् ॥१ -४८॥

उक्तम् अनिमित्तत्वम् ॥१ -४९॥

सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन् ॥१ -५०॥

रथपतिर् निषादः स्याच् छब्दसामर्थ्यात् ॥१ -५१॥

लिङ्गदर्शनाच् च ॥१ -५२॥


पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात् ॥२-१॥

अपि चोत्पत्तिसंयोगो यथा स्यात् सत्वदर्यशनं तथाभावो विभागे स्यात् ॥२ -२॥

प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात् ॥२ -३॥

प्रत्यर्थं श्रुतिभाव इति चेत् ॥२ -४॥

तादर्थ्ये न गुणार्थतानुक्ते ऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् ॥२ -५॥

अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर् विषाणावत् ॥२ -६॥

अन्यस्य स्याद् इति चेत् ॥२ -७॥

अन्यार्थेनाभिसम्बन्धः ॥२ -८॥

फलकामो निमित्तम् इति चेत् ॥२ -९॥

न नित्यत्वात् ॥२ -१०॥

कर्म तथेति चेत् ॥२ -११॥

न समवायात् ॥२ -१२॥

प्रकमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् ॥२ -१३॥

फलार्थित्वाद् वानियमो यथानुपक्रान्ते ॥२ -१४॥

नियमो वा तन्निमित्तत्वात् कर्तुस् तत्कारणं स्यात् ॥२ -१५॥

लोके कर्माणि वेदवत् ततो ऽधिपुरुषज्ञानम् ॥२ -१६॥

अपराधे ऽपि च तैः शास्त्रम् ॥२ -१७॥

अशास्त्रात् तूपसम्प्राप्तिः शास्त्रं स्यान् न प्रकल्पकं तस्माद् अर्थेन गम्येताप्राप्ते शास्त्रम् अर्थवत् ॥२ -१८॥

प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम् ॥२ -१९॥

शास्त्राणां त्व् अर्थवत्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः ॥२ -२०॥

तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन् ॥२ -२१॥

अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् ॥२ -२२॥

अभ्यासो ऽकर्मशेषत्वात् पुरुषार्थो विधीयते ॥२ -२३॥

तस्मिन्न् असम्भवन्न् अर्थात् ॥२ -२४॥

न कालेभ्य उपदिश्यन्ते ॥२ -२५॥

दर्शनात् काललिङ्गानां कालविधानम् ॥२ -२६॥

तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत ॥२ -२७॥

तथा हि लिङ्गदर्शनम् ॥२ -२८॥

तथान्तःक्रतुप्रयुक्तानि ॥२ -२९॥ आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् ॥२ -३०॥

ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात् ॥२ -३१॥


सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् ॥३-१॥

अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिर्वृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात् ॥३ -२॥

तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसम्बन्धात् ॥३ -३॥

कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति ॥३ -४॥

अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु ॥३ -५॥

विध्यपराधे च दर्शनात् समाप्तेः ॥३ -६॥

प्रायश्चित्तविधानाच् च ॥३ -७॥

काम्येषु चैवम् अर्थित्वात् ॥३ -८॥

असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात् ॥३ -९॥

अकर्मणि चाप्रत्यवायात् ॥३ -१०॥

क्रियाणाम् आश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् ॥३ -११॥

अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐककर्म्यं स्यान् नामधेयं च सत्त्ववत् ॥३ -१२॥

श्रुतिप्रमाणत्वाच् छिष्टाभावे ऽनागमो ऽन्यस्याशिष्टत्वात् ॥३ -१३॥

क्वचिद् विधानाच् च ॥३ -१४॥

आगमो वा चोदनार्थाविशेषात् ॥३ -१५॥

नियमार्थः क्वाचिद् विधिः ॥३ -१६॥

तन् नित्यं तच्चिकीर्षा हि ॥३ -१७॥

न देवताग्निशब्दक्रियमन्यार्थसंयोगात् ॥३ -१८॥

देवतायां च तदर्थत्वात् ॥३ -१९॥

प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः ॥३ -२०॥

तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् ॥३ -२१॥

बहूनां तु प्रवृत्ते ऽन्यमागमयेद् अवैगुण्यात् ॥३ -२२॥

स स्वामी स्यात् संयोगात् ॥३ -२३॥

कर्मकरो वा भृतत्वात् ॥३ -२४॥

तस्मिंश् च फलदर्शनात् ॥३ -२५॥

स तद्धर्मा स्यात् कर्मसंयोगात् ॥३ -२६॥

सामान्यं तच्चिकीर्षा हि ॥३ -२७॥

निर्देशात् तु विकल्पे यत् प्रवृत्तम् ॥३ -२८॥

अशब्दम् इति चेत् ॥३ -२९॥

नानङ्गत्वात् ॥३ -३०॥

वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य ॥३ -३१॥

न प्रतिनिधौ समत्वात् ॥३ -३२॥

स्याच् छ्रुतिलक्षणे नियतत्वात् ॥३ -३३॥

न तदीप्सा हि ॥३ -३४॥

मुख्याधिगमे मुख्यम् आगमो हि तदभावात् ॥३ -३५॥

प्रबृत्ते ऽपीति चेत् ॥३ -३६॥

नानर्थकत्वात् ॥३ -३७॥

द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् ॥३ -३८॥

अर्थद्रव्यविरोधे ऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात् ॥३ -३९॥

विधिर् अप्य् एकदेशे स्यात् ॥३ -४०॥

अपि वार्थस्य शक्यत्वाद् एकदेशेन निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात् ॥३ -४१॥


शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् ॥४-१॥

निर्देशाद् वान्यद् आगमयेत् ॥४ -२॥

अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् ॥४ -३॥

निर्देशाच् छेषभक्षो ऽन्यैः प्रधानवत् ॥४ -४॥

सर्वैर् वा समवायात् स्यात् ॥४ -५॥

निर्देशस्य गुणार्थत्वम् ॥४ -६॥

प्रधाने श्रुतिलक्षणम् ॥४ -७॥

अर्थवद् इति चेत् ॥४ -८॥

न चोदनाविरोधात् ॥४ -९॥

अर्थसमवायत् प्रायश्चित्तम् एकदेशे ऽपि ॥४ -१०॥

न त्व् अशेषे वैगुण्यात् तदर्थं हि ॥४ -११॥

स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हितस्य गुणार्थेनानित्यत्वात् ॥४ -१२॥

गुणानां च परार्थत्वाद् वचनाद् व्यपाश्रय स्यात् ॥४ -१३॥

भेदार्थम् इति ॥४ -१४॥

न शेषभूतत्वात् ॥४ -१५॥

अनर्थकश् च सर्वनाशे स्यात् ॥४ -१६॥

क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् ॥४ -१७॥

दर्शनाद् एकदेशे स्यात् ॥४ -१८॥

अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः ॥४ -१९॥

तद्धविःशब्दान् नेति चेत् ॥४ -२०॥

स्याद् अन्यायत्वादिज्यागामी हविः शब्दस् तल्लिङ्गसंयोगात् ॥४ -२१॥

यथाश्रुतीति चेत् ॥४ -२२॥

न तल्लक्षणत्वाद् उपपातो हि कारणम् ॥४ -२३॥

होमाभिषवभक्षणं च तद्वत् ॥४ -२४॥

उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् ॥४ -२५॥

पुनर् आधेयम् ओदनवत् ॥४ -२६॥

द्रव्योत्पत्तेर् वोभयोः स्यात् ॥४ -२७॥

पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् ॥४ -२८॥

चोदना वा द्रव्यदेवताविधिर् अवाच्ये हि ॥४ -२९॥

स प्रत्यामनेत् स्थानात् ॥४ -३०॥

अङ्गविधिर् वा निमित्तसंयोगात् ॥४ -३१॥

विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् ॥४ -३२॥

निष्क्रयवादाच् च ॥४ -३३॥

वत्ससंयोगे व्रतचोदना स्यात् ॥४ -३४॥

कालो वोत्पन्नसंयोगाद् यथोक्तस्य ॥४ -३५॥

अर्थापरिमाणाच् च ॥४ -३६॥

वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् ॥४ -३७॥

कालस् तु स्याद् अचोदनात् ॥४ -३८॥

अनर्थकश् च कर्मसंयोगे ॥४ -३९॥

अवचनाच् च स्वशब्दस्य ॥४ -४०॥

कालश् चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् ॥४ -४१॥

कालार्थत्वाद् वोभयोः प्रतीयेत ॥४ -४२॥

प्रस्तरे शाखाश्रयणवत् ॥४ -४३॥

कालविधिर् वोभयोर् विद्यामानत्वात् ॥४ -४४॥

अतत्संस्कारार्थत्वाच् च ॥४ -४५॥

तस्माच् च विप्रयोगे स्यात् ॥४ -४६॥

उपवेषश् च पक्षे स्यात् ॥४ -४७॥


अभ्युदये कालापराधाद् इज्याचोदना स्याद् यथा पञ्चशरावे ॥५-१॥

अपनयो वा विद्यानत्वात् ॥५ -२॥

तद्रूपत्वाच् च शब्दानाम् ॥५ -३॥

आतञ्चनाभ्यासस्य दर्शनात् ॥५ -४॥

अपूर्वत्वाद् विधानं स्यात् ॥५ -५॥

पयोदोषात् पञ्चशरावे ऽदुष्टं हीतरत् ॥५ -६॥

सान्नाय्यो ऽपि तथेति चेत् ॥५ -७॥

न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् ॥५ -८॥

लक्षणार्थाश्रुतिः ॥५ -९॥

उपांशुयाजे ऽवचनाद् यथाप्रकृति ॥५ -१०॥

अपनयो वा प्रवृत्या यथेतरेषाम् ॥५ -११॥

निरुप्ते स्यात् तत्संयोगात् ॥५ -१२॥

प्रवृत्ते वा प्रापणान् निमित्तस्य ॥५ -१३॥

लक्षणमात्रम् इतरत् ॥५ -१४॥

तथा चान्यार्थदर्शनम् ॥५ -१५॥

अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् ॥५ -१६॥

व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य ॥५ -१७॥

विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् ॥५ -१८॥

अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् ॥५ -१९॥

अभावाच् चेतरस्य स्यात् ॥५ -२०॥

सान्नाय्यसंयोगान् नासन्नायतः स्यात् ॥५ -२१॥

औषधसंयोगाद् वोभयोः ॥५ -२२॥

वैगुण्यान् नेति चेत् ॥५ -२३॥

नातत्संस्कारत्वात् ॥५ -२४॥

साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् ॥५ -२५॥

प्रवृते वा प्रापणान् निमित्तस्य ॥५ -२६॥

आदेशार्थेतरा श्रुतिः ॥५ -२७॥

दीक्षापरिमाणे यथाकाम्यविशेषात् ॥५ -२८॥

द्वादशाहस् तु लिङ्गात् स्यात् ॥५ -२९॥

पौर्णमास्याम् अनियमो ऽविशेषात् ॥५ -३०॥

आनन्तर्यात् तु चैत्री स्यात् ॥५ -३१॥

माघी वैकाष्टकाश्रुतेः ॥५ -३२॥

अन्या अपीति चेत् ॥५ -३३॥

न भक्तित्वाद् एषा हि लोके ॥५ -३४॥

दीक्षापराधे चानुग्रहात् ॥५ -३५॥

उत्थाने चानुप्ररोहात् ॥५ -३६॥

अस्यां च सर्वलिङ्गानि ॥५ -३७॥

दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् ॥५ -३८॥

उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् ॥५ -३९॥ तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् ॥५ -४०॥

कालप्राधान्याच् च ॥५ -४१॥

प्रतिषेधाच् चोर्ध्वम् अवभृथादेष्टे ॥५ -४२॥

प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् ॥५ -४३॥

प्रातस् तु षोडशिनि ॥५ -४४॥

प्रायश्चित्तम् अधिकारे सर्वत्र दोषमामान्यात् ॥५ -४५॥

प्रकरणे वा शब्दहेतुत्वात् ॥५ -४६॥

अतिद्विकारश् च ॥५ -४७॥

व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत ॥५ -४८॥

विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते ॥५ -४९॥

स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् ॥५ -५०॥

तत्र विप्रतिषेधाद् विकल्पः स्यात् ॥५ -५१॥

प्रयोगान्तरे वोभयानुग्रहः स्यात् ॥५ -५२॥

न चैकसंयोगात् ॥५ -५३॥

पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् ॥५ -५४॥

यद्य् उद्गाता जघन्यः स्यात् पुनर् यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् ॥५ -५५॥

अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्म पृथक्त्वात् ॥५ -५६॥


सन्निपाते वैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् ॥६-१॥

वचनाद् वाशिरोवत्स्यात् ॥६ -२॥

न वानारभ्यवादत्वात् ॥६ -३॥

स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् ॥६ -४॥

न तत्प्रधानत्वात् ॥६ -५॥

औदुम्बर्याः परार्थत्वात् कपालवत् ॥६ -६॥

अन्येनापीति चेत् ॥६ -७॥

नैकत्वात्तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् ॥६ -८॥

सन्निपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये ॥६ -९॥

अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् ॥६ -१०॥

साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् ॥६ -११॥

वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणिवत् ॥६ -१२॥

अर्थाभावात् तु नैवं स्यात् ॥६ -१३॥

अर्थानां च विभक्तत्वान् न तच्छ्रुतेन संबन्धः ॥६ -१४॥

प्राणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत ॥६ -१५॥

सत्राणि सर्ववर्णामाम् अविशेषात् ॥६ -१६॥

लिङ्गदर्शनाच् च ॥६ -१७॥

ब्राह्मणानां वेतरयोर् आर्त्विज्यभावात् ॥६ -१८॥

वचनाद् इति चेत् ॥६ -१९॥

न स्वामित्वं हि विधीयते ॥६ -२०॥

गार्हपते वा स्याताम् अविप्रतिषेधात् ॥६ -२१॥

न वा कल्पविरोधात् ॥६ -२२॥

स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् ॥६ -२३॥

वासिष्ठानां वा ब्रह्मत्वनियमात् ॥६ -२४॥

सर्वेषां वा प्रतिप्रसवात् ॥६ -२५॥

विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः ॥६ -२६॥

विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् ॥६ -२७॥

सारस्वते च दर्शनात् ॥६ -२८॥

प्रायश्चित्तविधानाच् च ॥६ -२९॥

साग्नीनां वेष्टिपूर्वत्वात् ॥६ -३०॥

स्वार्थेन च प्रयुक्तत्वात् ॥६ -३१॥

सन्निवापं च दर्शयति ॥६ -३२॥

जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत ॥६ -३३॥

अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृत्वात् ॥६ -३४॥

प्रायश्चित्तम् आपदि स्यात् ॥६ -३५॥

पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् ॥६ -३६॥

लिङ्गाच् चेज्याविशेषवत् ॥६ -३७॥

न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना ॥६ -३८॥

इज्यायां तद्गुणत्वाद् विशेषेण नियमयेत ॥६ -३९॥


स्वदाने सर्वम् अविशेषात् ॥७-१॥

यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् ॥७ -२॥

न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् ॥७ -३॥

अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् ॥७ -४॥

नित्यत्वाच् चानित्यैर् नास्ति संबन्धः ॥७ -५॥

शूद्रश् च धर्मशास्त्रत्वात् ॥७ -६॥

दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद्दानसंयोगात् ॥७ -७॥

अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् ॥७ -८॥

अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् ॥७ -९॥

तथा चान्यार्थदर्शनम् ॥७ -१०॥

अशेषं तु समञ्जसादानेन शेषकर्म स्यात् ॥७ -११॥

नादानस्यानित्यत्वात् ॥७ -१२॥

दीक्षासु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् ॥७ -१३॥

अहर्गणे च तद्धर्मः स्यात् सर्वेषाम् अविशेषात् ॥७ -१४॥

द्वादशशतं वा प्रकृतिवत् ॥७ -१५॥

अतद्गुणत्वात् नैवं स्यात् ॥७ -१६॥

लिङ्गदर्शनाच् च ॥७ -१७॥

विकारः सन्न् उभयतो ऽविशेषात् ॥७ -१८॥

अधिकं वा प्रतिप्रसवात् ॥७ -१९॥

अनुग्रहाच् च पादवत् ॥७ -२०॥

अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस् तच्छ्रुतित्वात् ॥७ -२१॥

कल्पान्तरं वा तुल्यवत् प्रसङ्ख्यानात् ॥७ -२२॥

अनियमो ऽविशेषात् ॥७ -२३॥

अधिकं वा स्याद् बहूर्थत्वाद् इतरेषां सन्निधानात् ॥७ -२४॥

अर्थवादश् च तदर्थवत् ॥७ -२५॥

परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् ॥७ -२६॥

तद्युक्ते च प्रतिषेधात् ॥७ -२७॥

निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् ॥७ -२८॥

विधौ तु वेदसंयोगाद् उपदेशः स्यात् ॥७ -२९॥

अर्थवादो वा विधिशेषत्वात् तस्मान् नित्यानुवादः स्यात् ॥७ -३०॥

सहस्रसंवत्सरं तदायुषाम् असंभवान् मनुष्येषु ॥७ -३१॥

अपि वा तदधिकारान् मनुष्यधर्मः स्यात् ॥७ -३२॥

नासामर्थ्यात् ॥७ -३३॥

सम्बन्धादर्शनात् ॥७ -३४॥

स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् ॥७ -३५॥

अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् ॥७ -३६॥

विप्रतिषेधात् तु गुण्यन्यतरः स्याद् इति लावुकायनः ॥७ -३७॥

संवत्सरो विचालित्वात् ॥७ -३८॥

सा प्रकृतिः स्याद् अधिकारात् ॥७ -३९॥

अहानि वाभिसंख्यत्वात् ॥७ -४०॥


इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् पूर्वो ऽप्य् आधानस्य सर्वशेषत्वात् ॥८-१॥

इष्टित्वे न तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति ॥८ -२॥

उपदेशस् त्व् अपूर्वत्वात् ॥८ -३॥

स सर्वेषाम् अविशेषात् ॥८ -४॥

अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः ॥८ -५॥

जपो वानग्निसंयोगात् ॥८ -६॥

इष्टित्वेन संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् ॥८ -७॥

उभयोः पितृयज्ञवत् ॥८ -८॥

निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् ॥८ -९॥

पितृयज्ञे संयुक्तस्य पुनर् वचनम् ॥८ -१०॥

उपनयन्न् आदधीत होमसंयोगात् ॥८ -११॥

स्थपतीष्टवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् ॥८ -१२॥

आधानं च भार्यासंयुक्तम् ॥८ -१३॥

अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः ॥८ -१४॥

श्राद्धवद् इति चेत् ॥८ -१५॥

न श्रुतिविप्रतिषेधात् ॥८ -१६॥

सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् ॥८ -१७॥

सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत् ॥८ -१८॥

पितृयज्ञे तु दर्शनात् प्राग् आधानात् प्रतीयेत ॥८ -१९॥

स्थपतीष्टिः प्रयाजवद् अग्नयाधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत ॥८ -२०॥

अपि वा लौकिके ऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् ॥८ -२१॥

अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकलत्वात् ॥८ -२२॥

उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्य् आर्थदर्शनात् ॥८ -२३॥

अहनि च कर्मसाकल्यम् ॥८ -२४॥

इतरेषु तु पित्र्याणि ॥८ -२५॥

याच्ञाक्रयणम् अविद्यमाने लोकवत् ॥८ -२६॥

नियतं वार्थवत्वात् स्यात् ॥८ -२७॥

तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् ॥८ -२८॥

अनर्थकं त्व् अनित्यं स्यात् ॥८ -२९॥

पशुचोदनायाम् अनियमो ऽविशेषात् ॥८ -३०॥

छागो वा मन्त्रवर्णात् ॥८ -३१॥

न चोदनाविरोधात् ॥८ -३२॥

आर्षेयवद् इति चेत् ॥८ -३३॥ न तत्र ह्य् अचोदित्वात् ॥८ -३४॥

नियमो वैकार्थ्यं ह्य् अर्थभेदाद् भेदः पृथवत्वेनाभिधानात् ॥८ -३५॥

अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् ॥८ -३६॥

रूपाल् लिङ्गाच् च ॥८ -३७॥

छागे न कर्माख्या रूपलिङ्गाभ्याम् ॥८ -३८॥

रूपान्यत्वान् न जातिशब्दः स्यात् ॥८ -३९॥

विकारो नौत्पत्तिकत्वात् ॥८ -४०॥

स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् ॥८ -४१॥

जातेर् वा तत्प्रायवचनार्थवत्वाभ्याम् ॥८ -४२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-08-15T10:01:02.6500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

म्हातारा

  • वि. जरठ , बुढ्ढा , वयस्क , वयातीत , वयोवृद्ध , वृद्ध . 
  • वि. 
  • वृद्ध ; वयोवृद्ध ; वयस्क . म्हातार्‍यानें केलें नांव . 
  • पुनर्वसु नक्षत्राबद्दल शेतकरी लोक म्हणतात . तसेंच पुष्य नक्षत्राला तरणा अशी संज्ञा देतात . 
More meanings
RANDOM WORD

Did you know?

Are there any female godesses in Hinduism?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site