सप्तचत्वारिंशः पटलः - सदाशिवध्यानमानसोपचारञ्ज

रूद्राणीरूद्रयो पूजाप्रकरणम्


ओम् मुक्तापीतयोदमौक्तिकजवावर्णैर्मुखैः पञ्चभिः
त्र्यक्षै रञ्चितमीशामिन्दुमुकुटं पूर्णेअन्दुकोटिप्रभम् ।
शूलं टङ्कपाणवज्रदहनान्नागेन्द्रघण्टाङ्‌कुशान्
पाशं भीतिहरं दधान ममिकल्पोज्ज्वलाङुं भजे ॥२०७॥

एवं ध्यात्वा मानसोपचारैः सम्पूज्य पूज्यकः ।
अर्घ्यस्थापनमाकुर्यान्निज मन्त्राभिशोधनम् ॥२०८॥

शैवोक्तपीठमन्वन्तां पीठपूजां ततश्चरेत् ।
पुनर्ध्यात्वा समावाह्य चावाहनादिमुद्रया ॥२०९॥

पञ्चपुष्पाञ्जलिदानपर्यन्तं परिपूजयेत् ।
पञ्चपुष्पाञ्जलिं दत्त्वा वदनार्चनमाचरेत् ॥२१०॥

शिवावरुण देवांश्च पूजयेत्तत् क्रमं श्रृणु ।
ऐशान्यां पूजयेद्विद्वान् ईशानाय नमस्ततः ॥२११॥

पूर्वे ॐ तत्पुरुषाय नमः शब्दं समुच्चरेत् ।
दक्षिणे ॐ अघोराय नमः शब्दं समुच्चरेत् ॥२१२॥

उत्तरे ॐ वामशब्दं देवाय नम उच्चरेत् ।
पश्चिमे प्रणवं पश्चात् सद्योजाताय एव हि ॥२१३॥

नमोऽन्तं पूजनं कृत्वा सर्वसिद्धीश्वरो भवेत् ।
ईशानादिचतुष्केषु निवृत्तीत्यादीन् प्रपूजयेत् ॥२१४॥

प्रणवान्ते निवृत्यै च नमश्चान्ते ततोऽर्चयेत् ।
एवं “प्रतिष्ठां विद्यां च शान्तिं सम्पूज्य यत्नतः ॥२१५॥

प्रणवादिनमोऽन्तेन चतुर्थ्यन्तपदेन च ।
योजयित्वा महापूजाविधौ कुर्यात् समर्पणम् ॥२१६॥

दशदलस्य मध्ये तु विभाव्याष्ट दलं सुधीः ।
तत्रैव पूजनं कुर्यात् अष्टाङुयोगसिद्धये ॥२१७॥

प्रणवादिनमोऽन्तेन चतुर्थ्यपदेन च ।
पूजयेद्देवदेवेशं गन्धपुष्पाक्षतादिभिः ॥२१८॥

अनन्तेशं पूजयेद्वै तथा सूक्ष्मशमेव च ।
शिवोत्तमेशं सम्पूज्य एकनेत्रेशमेव च ॥२१९॥

एकरुदेशमेवं हि त्रिमूर्तीशं ततोऽर्चयेत् ।
भक्त्या समर्चयेत्तत्र श्रीकण्ठेशं शिखण्डिनम् ॥२२०॥

तद्बाह्यपत्रिकागेषु उत्तरदिक्रमेण तु ।
उमाद्यादेवताः पूज्याः प्रणवादिनमोऽन्तिकाः ॥२२१॥

उमादेवीं समभ्यर्च्य तथा चण्डेश्वरं ततः ।
नन्दिनञ्च महाकालं गणेश वृषभं तथा ॥२२२॥

भृङुरीटः स्कन्दपुत्रौ तद्बाह्ये क्रमतोऽर्चयेत् ।
इन्द्रादीन् लोकपालाँश्च गन्धदीपैः समर्चयेत् ॥२२३॥

वज्रादींश्च क्रमेनैव पूजयेत्साधकोत्तमः ।
धूपदीपादिनैवेध्यपानार्थं पुनराचमनम् ॥२२४॥

संहारमुद्रया चोर्ध्वे स्थापयेद्रुद्ररुपिणम् ।
विसर्जनान्तं तत्कर्म उत्सृष्टपूजादिकम् ॥२२५॥

समाप्य विधिनानेन पूजाकर्म समापयेत् ।
प्रत्यहं मानसं जापं होममर्चनतर्पणे ॥२२६॥

वर्धयेत् साधकश्रेष्ठो भक्तिभावपरायणः ।
पञ्चलक्षजपेनास्या पुरश्चरणामिष्यते ॥२२७॥

एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः ।
प्रसूनैः करवीरोत्थैरथवा जुहुयात सुधीः  ॥२२८॥

सर्वदा मानसं कार्यं द्रव्यालाभेऽनिशं चरेत् ।
तद्दशांशं प्रजुहुयात्तद्द्शांशञ्च तर्पणम् ॥२२९॥

तद्दशांशं चाभिषेकं दशांश विप्रभोजनम् ।
एवं जपं साधनञ्च पुरा नारायणो मुनिः ॥२३०॥

कृत्वा सर्वसत्त्वमयः शीतलो योगिराड्‌ भवेत् ।
यः करोति साधनानि सोऽचिरादमरो भवेत् ॥२३१॥

पूजान्ते पूजाशेषे च पूजामध्यक्रमेण च ।
प्रणमेत् साधकश्रेष्ठो वरुणात् पापभूपतेः ॥२३२॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP