सप्तचत्वारिंशः पटलः - रुद्राणीनामानि

रूद्राणीरूद्रयो पूजाप्रकरणम्


तत्प्रकारं श्रृणु प्राणनाथ शङ्कर वल्लभ ।
पूर्णोदरी च गिरिजा शाल्मली तदनन्तरम् ॥५७॥

लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा ततः परम् ।
सुदीर्घमुखि गोमुखौ दीर्घजिहवा ततः परम् ॥५८॥

कुण्डोदरी चोद्र्ध्वमुखी तथा विकृतमुख्यपि ।
ज्वालामुखी वहिनमुखी लोलजिहवा ततः परम् ॥५९।

विद्यामुखी तथा नाथ एताश्च स्वरशक्तयः ।
काद्यार्णशक्तिविद्याश्च वक्ष्यामि पार्वतीश्वर ॥६०॥

महाकालीसरस्वत्योर्महालक्ष्म्यास्ततः परम् ।
द्राविणी नागरी भूयः खेचरी चापि मञ्जरी ॥६१॥

रुपिणी बिम्बिनी पश्चात् काकोदरी च पूतना ।
भद्रकाली योगिनी च शाङ्ख्नी गर्ज्जिनी तथा ॥६२॥

कालरात्रिः कुञ्जिका च कपार्दि‌दनी ततः परम् ।
वज्रा गया ततो नाथ सुमुखेश्वर्यापि प्रभो ॥६३॥

रेवती माधवी चैव वारुणी वायवी तथा ।
वक्षोविदारिणी चैव सहजालक्ष्म्यथ प्रभो ॥६४॥

व्यापिनी चैव माया च रुद्राङ्कपीठदेवताः ।
सर्वाभरणसंयुक्ता सिन्दूरारुनविग्रहाः ॥६५॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP