सप्तचत्वारिंशः पटलः - मृत्युञ्जयऋष्यादिन्यासः

रूद्राणीरूद्रयो पूजाप्रकरणम्


ततो नाथ समाकुर्यात साधको गतभीः स्वयम् ।
ऋष्यादिन्यासमाकुर्यात् तत्प्रकारं श्रृणु प्रभो ॥२६३॥

शिरसि पदमुच्चार्य कहोडऋषये नमः ।
तदुपरि ततो नाथ महाविष्णपदं वदेत् ॥२६४॥

ऋषये नम इत्युक्त्वा मुखे देवापदं वदेत् ।
गायत्रीच्छन्दसे पश्चान्नमः शब्दं समुच्चरेत् ॥२६५॥

ह्रदि मृत्युञ्जयायैवं दैवतायै नमः पदम् ।
ऋषिः कहोडो देवाश्च गायत्रीच्छन्द ईरितम् ॥२६६॥

मृत्युञ्जयो महादेवो देवतास्य प्रकीर्तिता ।
कराङुन्यासकौ कुर्यात् षड्‌दीर्घभाजया सह ॥१६७॥

सकारेण महाकाल तत्प्रकारं श्रृणु प्रभो ।
सामङ्‌गुष्ठाभ्यां चान्ते च नमः शब्दं क्रमेण तु ॥२६८॥

एवं कराङुगुलीन्यासं कुर्यादेव महाप्रभो ।
षड्‌दीर्घभाजा मन्त्रेण सकारेण सबिन्दुना ॥२६९॥

कराङुसमाकुर्यात् कुलतन्त्रक्रमेण तु ।
ततो ध्यानं समाकुर्यात् शुभभावपरायणः ॥२७०॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP