सप्तचत्वारिंशः पटलः - श्रीकण्ठन्यासः

रूद्राणीरूद्रयो पूजाप्रकरणम्


प्राणायामादिकं कृत्वा श्रीकण्ठन्यासमाचरेत् ।
पूर्णोदर्यादिसहित कृत्वा पीठं न्यसेत्सुधीः ॥१३०॥

पीठमनुं प्रविन्यस्य ऋष्यादिन्यासमाचरेत् ।
ऋषिरस्य वासुदेवः पङ्‌क्तिश्छन्द उदाह्रतम् ॥१३१॥

सदाशिवो देवता अ अङ्‌गुलिन्यासमाचरेत् ।
हामङुष्ठाभ्यां नमः पश्चात् ह्रीं तर्जनीभ्यां ततः परम् ।
खां नमः पदमन्ते षड्‌दीर्घभाजयान्वितम् ॥१३२॥

एवं करन्यासमाकार्यं विधानेन समाचरेत् ।
शूद्रस्तु एअतत्पर्यन्त कार्यं होमादिकं च यत् ॥१३३॥

न कुर्यात् पार्वतीनाथ तथा स्तोलोक इत्यपि ।
यदि ज्ञानी भवेद् देव स देवो न तु आनुषः ॥१३४॥

चाण्डालादीनि वा जातौ स्थितो ब्राह्मणोत्तमः ।
ज्ञानवान वादसंवादे वर्जितो न्यासमाचरेत् ॥१३५॥

न्यासस्तन्मयता बुद्धिः सोऽहं भावेन पूजयेत् ।
स एव ज्ञानी परमो वेदशास्त्रविशारदः ॥१३६॥

न्यासपूजादिकं तस्य सर्वदा नात्र संशयः ।
यावद्देहे ह्यहंबुद्धिस्तावन्मरणधारकः ॥१३७॥

तद्वर्जितो मृत्युजेता न्यासपूजादिकं कृतः ।
षड्‌दीर्घभाजा बीजेन हकारेण सबिहुना ॥१३८॥

करयोगोरंगुलिद्वद्व्नं विन्यसेत् संक्रमेण तु ।
ईशानाद्याः पञ्चमूर्तीर्विन्यसेत् साधकोत्तमः ॥१३९॥

ततः कुर्यान्महादेव उद्र्ध्वः प्राग्दक्षिणोत्तरे ।
मुखेषु विन्यसेन्मन्त्री चाङ्‌गुलिभिः परस्परम् ॥१४०॥

तत्तद्बीजैः प्रयत्नेन तत्तन्मूर्तीः प्रविण्यसेत् ।
अङ्‌गुष्ठयोः शेषभागे हौ ईशानाय ॐ नमः ॥१४१॥

षड्‌दीर्घभाजाबीजेन हकारेण सबिन्दुना ।
तत्पुरुषघोरञ्च वामदेवं ततः परम् ॥१४२॥

सद्योजातं क्रमेणैव अङ्‌गुली द्वे ततः परम् ।
विन्यसेत्साधकश्रेष्ठो नमोऽन्तं परमेश्वर ॥१४३॥

शिरोवदनह्रद‌गुह्यपादेषु विन्यसेत्सुधीः ।
तत्तदङ्‌गुलिभिश्चैव तत्क्रमेण प्रविन्यसेत् ॥१४४॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP