सप्तचत्वारिंशः पटलः - महामृत्युञ्जयध्यानम्

रूद्राणीरूद्रयो पूजाप्रकरणम्


इन्द्वर्कानललोचनं स्मितमुखं पद्मद्वयान्तास्पदं
मुद्रापाशमृगाक्षूत्रविलसत्पाणिं हिमांशुच्छविम् ।
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं
कान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥१७१॥

एवं ध्यात्वा मानसोपचारद्रव्यैः प्रपूजयेत् ।
अर्घ्यस्थापनकृत्य तत्तन्मन्त्रेण साधकः ॥२७२॥

पूजयेत्पीठ मन्वन्ता तत्तन्मन्त्रेण साधकः ।
पुनर्ध्यात्वा समावाह्य मूलमन्त्रेण मन्त्रवित् ॥२७३॥

शिखायै वषडित्यादि सैं बीजं तदनन्दरम् ।
कवचाय पदस्यान्ते तारबीजं समुच्चरेत् ॥२७७॥

सों बीजं पूर्वमुच्चार्य नेत्रत्रयाय इत्यपि ।
वौषडादिमध्यपदं चतुर्दिक्षु ततः परम् ॥२७८॥

सश्चान्तेऽस्त्राय शब्दान्ते फडित्येव समर्चयेत् ।
षडङुनि पूजयित्वा तद्बहिः प्रतिपूजयेत् ॥२७९॥

इन्द्रादींल्लोकपालांश्च वज्रादींश्च तथा प्रभो ।
धूपदीपादिनैवेद्यपानादीनि प्रदापयेत् ॥२८०॥

विधिना वादनं कुर्यान्मृञ्जयसुतोषणात् ।
विसर्जनान्तं यत्कर्म समाप्य विधिनामुना ॥२८१॥

संहारमुद्रया चैव ह्रदये चानयेद् बुधः ।
प्रसन्नह्रदयो भूत्वा चरणोदकमापिबेत् ॥२८२॥

एतन्मात्रेण देवेश सर्वसिद्धिं समाप्नुयात् ।
पिबामि चरणद्वन्द्वाम्भोजनिःसृतकं भजे ॥२८३॥

अमरत्वं सदा देहि मृत्युञ्जय नमोऽस्तुते ॥२८४॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे मन्त्रप्रकाशो नाम सप्तचत्वारिंशः पटलः ॥४७॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP