सप्तचत्वारिंशः पटलः - रूद्र ध्यानम्

रूद्राणीरूद्रयो पूजाप्रकरणम्


धृतशूलपालादि बाणशक्तिप्रखेटकाः ।
वराभयकरा नित्याः सर्पवाहनवाहनाः ॥६६॥

श्रीकण्ठाद्या महारुद्रा धृतशूलकपालकाः ।
खड्‌गखेटकशक्तीषु गदामूसलधारकाः ॥६७॥

नानास्त्रधारका नित्या बन्धूककोटिसुन्दरा ।
रक्तचन्दनदिग्धाङा पञ्चचूडधराः पराः ॥६८॥

रक्तोत्पलमहामाला लङ्कारकरपङ्कजाः ।
पीठन्यासं ततः कुर्यात् मम तन्त्रानुसारतः ॥६९॥

सर्वत्रमूलपुटितमथवा वर्णसम्पुटम् ।
कृत्वा पीठन्यासकार्यं विधानेन वदामि तत् ॥७०॥

ॐ अनन्ताय नमश्च नमो ह्रदि ततः परम् ।
ॐ पद्माय नमः शब्दं ह्रदये च ततः परम् ॥७१॥

ॐ सूर्यमण्डलाय द्वादशान्ते कलात्मने ।
ॐ नमः पदं समुच्चार्य चान्ते च ह्रदये प्रभो ॥७२॥

ॐ उं सोममण्डलाय षोडशलकलास्मने नमः ।
सर्वत्र ह्रदये कार्यं पीठन्यासं मनोलयम् ॥७३॥

ॐ मं वहिनमण्डलाय दशकलात्मने नमः ।
ॐ सं सत्त्वाय नमश्च ॐ रं रजसे नमः ॥७४॥

ॐ तं तमसे नमश्च पूर्वादिकेशरेषु च ।
ॐ तं आत्मने नमश्च ॐ सर्वव्यापिने नमः ॥७५॥

ॐ अं अन्तरात्मने च ॐ मनोन्मन्यै नमश्च ।
तदुपरि ततो वदेत् नमोऽन्ते शून्यवासिने ॥७६॥

ॐ पं परमात्मने च नमोऽन्ते कालरुपिणे ।
ॐ ह्रीं ज्ञानान्मने चान्ते नमोऽन्ते वर्णवासिने ॥७७॥

पीठशक्तेस्तती न्यासं कुर्यात् साधकयोगिराट्‌ ।
ह्रल्पद्मस्यापि पूर्वादि केशरेषु च संन्यसेत् ॥७८॥

ॐ वामायै नमश्चान्ते ॐ ज्येष्ठायै नमो वदेत् ।
ॐ सर्वभूतदमन्यै नमः शब्दं समुच्चरेत् ॥७९॥

(ॐ रौद्रायै नमश्चान्ते ॐ काल्यै च नमो वदेत् ।
ॐ कलाविरिण्यै नमः शब्द ततो वदेत् ।
ॐ बलप्रमथन्यै नमो व भोऽन्ते न पुनर्वदेत् ।)

एता विन्यस्य देवेश मध्ये विन्यासमाचरेत् ।
ह्रत्पद्मस्य कर्णिकायां कृत्वा भावनमाचरेत् ॥८०॥

ॐ मनोन्मन्यै नमश्च तदुपरि ततो वदेत् ।
ॐ नमो भगवतेऽन्ते च सकलपदमुच्चरेत् ।
गुणाय शक्तियुक्ताय अनन्ताय पदं तातः ॥८१॥

(योगपीठात्मने चान्ते नमः शब्द समुच्चरेत् ।
ततः कुर्यानहादेव ऋष्यादिन्यासमेव च ।
रुद्रशक्त्या ऋषेर्विष्णुस्तथा मृत्युञ्जयस्य च ।
कहोड मुनिपुत्रश्च ऋषिरस्य प्रकीर्तितः ।
महेश्वरमुखाज्ज्ञात्वा यः साक्षात्तपसा मनुम् ॥८२॥

संसाधयती शुद्धात्मा स तस्य ऋषिरीरितः ।
गुरुल्वान्मस्तके चास्य न्यासस्तु परिकीर्तितः ॥८३॥

सर्वेषां मन्त्रतत्त्वानां छादनाद् छन्द उच्यते ।
अक्षरात्वात्पदवाच्च मुखे च्छन्दः समीरितम् ॥८४॥

सर्वेषामेव जन्तूनां प्रेषणात्प्रेरणात्तथा ।
ह्रदयाम्भोजमध्यस्था देवता तत्र तां न्यसेत् ॥८५॥

ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रः फलभाग्भवेत् ।
दौर्बल्यं याति मन्त्राणां विनियोगमजानताम् ॥८६॥

न्यसेन्मूर्ध्नि ऋषिन्यासं छन्दोन्यासं मुखाम्बुजे ।
देवतान्यासमाकुर्यात् ह्रदयाम्भोरुहे सुधीः ॥८७॥

मूके गुह्ये बीजन्यासं शक्तिन्यासं तु पादयोः ।
सर्वाङे कीलकन्यासमाचरेत् यत्नतः सुधीः ॥८८॥

शिवशक्त्यात्मकन्यासं शिरस्तेव समाचरेत् ।
शिरसि पडि‌क्तच्छन्दसे वै नमः शब्दं समुच्चरेत् ।
ह्रदि महारुद्राय शक्तियुक्ताय संवदेत् ॥९०॥

देवतायै नमः शब्दं करन्यासं तत्स्श्चरेत् ।
ततोऽङुन्यासमाकृत्य ध्यानं कुर्यात् प्रयत्नतः ॥९१॥

वहिननां दीर्घबीजने मन्त्रस्याङुक्रिया  चरेत ।
रुद्रध्यानं प्रवक्ष्यामि ध्यानाद् भवती भूपतिः ॥९२॥

रौद्रं रौद्रात्मकं तं प्रकृतिपुरुषं गंभीरगीताभिधानं‍
शूलं खड्‌गं दधानं वरमभयकरं पद्मकेम प्रचण्डम् ।
सञ्चारं रश्मिजाल सशिशतिकिरणं कामधेनुस्वरुपं
ध्यायेद्रौदीं स्वरशक्तिं प्रलयमयतनु सूर्यकोटिप्रकाशम् ॥९३॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP