सप्तचत्वारिंशः पटलः - पञ्चमुखन्यासः

रूद्राणीरूद्रयो पूजाप्रकरणम्


कलायै नम उच्चार्य न्ससेदष्टौ कलाः प्रभोः ।
ईशानाख्यास्ततो नाथ भक्तः पञ्च ऋचो न्यसेत् ॥१८५॥

पञ्चाङ्‌गुलिषु योगेश क्रमशः कामनाशनात् ।
प्रणवं पूर्वमुच्चार्य ततो मन्त्रं स्मरेत्सुधीः ॥१८६॥

ईशानः सर्वविद्यानां ईश्वरस्तदनन्तरम् ।
उच्चरेत्सर्वभूतानां ब्रह्माधिपतिरित्यपि ॥१८७॥

ब्रह्मणोधिपतिः पश्चात् शिवो मेऽस्तु सदाशिवः ।
प्रणवं पूर्वमुच्चार्य ततस्तत्पुरुषाय च ॥१८८॥

विद्महे पदतः पश्चात् महादेवाय धीमहि ।
ततो रुद्रः पदस्यान्ते प्रचोदयात्पुनर्वदेत् ॥१८९॥

प्रणवं पूर्वमुद्धत्य ततो मन्त्रं स्मरेत् सुधीः ।
अघोरेभ्योऽअथ घोरेभ्यो घोरशब्दं समुच्चरेत् ॥१९०॥

घोरतरेभ्य एवान्ते सर्वतः सर्वशब्दकम् ।
सर्वेभ्योऽन्ते नमस्तेऽस्तु रुद्रपेभ्य एव च ॥१९१॥

अष्ट्ॐ स्थानेषु चैतेषु सर्वपापनिवृत्तये ।
पार्श्वयोर्हस्तयोग्श्चैव नासिकायाञ्च मस्तके ॥१९२॥

बाहुयुग्मे महावीर मणिपूरविभेदकः ।
तत्प्रकारं प्रवक्ष्येऽहं सावधानोऽवधारय ॥१९३॥

बलप्रमथनाय नमोऽन्ते च सर्वभूतपदं वदेत् ।
दमनाय नमोऽन्ते तु नमः शब्दं समुच्चरेत् ॥१९४॥

उन्मनाय नमः पश्चात् पुनः प्रणवमुद्धरेत् ।
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ॥१९५॥

भवे भवेनादिभवे भजस्व मां ततः परम् ।
भवोद्भवाय शब्दान्ते नमो मन्त्रं मुदा न्यसेत् ॥१९६॥

अङुगुलीभ्यां समाह्रत्य ऋचानया प्रभो ।
एवं क्रमेण सन्नयासं कुर्यादेषु स्थलेषु च ॥१९७॥

मूर्ध्निह्रद्ह्यपादेषु न्यसेदेता ऋचो मुदा ।
ततः कुर्यान्महाकाल चाङुन्यासान्तरं शुभम् ॥१९८॥

तत्प्रकारं प्रवक्ष्यामि सावधानोऽवधारय ।
वाग्भवं पूर्वमुच्चार्य कामबीजं ततः परम् ॥१९९॥

वकारं शत्रुसंयुक्तं दक्षकार्णेन्दुसंयुतम् ।
चन्द्रबीजं वामनेत्रथान्तवहिविधून्न्तम् ॥२००॥

केवलं चन्द्रबीजं तु सविसर्गमनुं ततः ।
सर्वज्ञाय पदस्यान्ते ह्रदयाय नमः पदम् ॥२०१॥

अमृते पदमुच्चार्य कामबीजं ततः पदम् ।
तेजोज्वालापदं मालिनेऽन्ते च क्लृप्ताय ब्रह्मणेऽपि वसेत्ततः ॥२०२॥

स्वाहान्तं तत एवाथ ज्वलितशिखिशब्दकम् ।
शिखायानादिबोधाय शिखायै वषडित्यथ ॥२०३॥

वज्रिणे वज्रहस्ताय स्वतन्त्राय पदं वदेत् ।
कवचाय तारशब्दं ततोऽन्यद् बीजमुच्चरेत् ॥२०४॥

नाकारं बिन्दुसंयुक्तं वामनेत्रं सबिन्दुकम् ।
पशुशब्द तारमन्त्रं अनन्तशक्तये पदम् ॥२०५॥

अस्त्राय फडिति प्रोच्य एवं विन्यस्य योगिराट्‍ ।
मणिपूरे मनो योज्य ध्यायेच्चैतन्यमुत्तमम् ॥२०६॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP