कार्तिक माहात्म्य - द्वादशोऽध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.

॥ नारदउवाच ॥ समांसंपूज्यविधिवद्दानवें द्रोतिभक्तिमान् ॥ संप्रहस्यतदावाक्यंजगादभुवनेश्वरः ॥१॥
कुतआगम्यतेब्रह्मनकिंचिद्दृष्टंत्वयाप्रभो ॥ यदर्थमिहचायातस्तदाज्ञापयमांमुने ॥२॥
॥ नारदउवाच ॥ ॥ गतः कैलास शिखरेदैत्येंद्राहंयदृच्छया ॥ तत्रोमयासमासीनंदृष्टवानसि शंकरम् ॥३॥
योजनायुतविस्तीर्णेकल्पवृक्षमहावने ॥ कामधेनुशताकीर्णोचिन्तामणि सुदीपिते ॥४॥
तद्दृष्ट्वामहदाश्चर्यविस्मयोमेभवत्तदा ॥ क्वापीदृशीभवेदृद्धिस्त्रैलोक्येवान वेतिच ॥५॥
तदातवापिदैत्येंद्रसमृद्धिः संस्मृतामया ॥ तद्विलोकनकामोस्मित्वत्सान्निध्यमिहागतः ॥६॥
त्वत्समृद्धिमिमांपश्यन्स्त्रीरत्नरहितांध्रुवम् ॥ तर्कयामिशिवादन्यस्त्रिलोक्यांनसमृद्धिमान् ॥७॥
अप्सरोनागकन्याद्यायद्यपित्वद्वशेस्थिताः ॥ तथापितानपार्वत्यारुपेणसदृशाध्रुवम् ॥८॥
यस्यालावण्यजलधौनिमग्नश्चतुराननः ॥ स्वधैर्यममुचत्पूर्वतयाकान्योपमीयते ॥९॥
वीतरागोपिचयथामदनारिः स्वलीलया ॥ सौंदर्यगहनेऽभ्रामिशफरीरुपयापुरा ॥१०॥
यस्याः पुनः पुनः पश्यनरुपंधातापिसर्जने ॥ ससर्जाप्सरसस्तासांतत्समैकापिनाभवत् ॥११॥
अतः स्त्रीरत्नसंभोक्तुः समृद्धिस्तस्यसावरा ॥ तथानतवदैत्येन्द्रसर्वरत्नाधिपस्यच ॥१२॥
एवमुक्त्वातमामंत्र्यगतेसतिसदैत्यराट् ॥ तद्रूपश्रवणादासीनंगज्वरपीडीतः ॥१३॥
अथसंप्रेषयामासदूतंतुसिंहिकासुतम् ॥ त्र्यंबकायापिचतदाविष्णुमायाविमोहितः ॥१४॥
कैलासमगमद्राहुः कुर्वनशुक्लेंदुवर्चसम् ॥ कार्ष्ण्येनकृष्णपक्षेंदुवर्चसंस्वांगजेनतम् ॥१५॥
निवेदितस्तुदेवायनंदिनाप्रविवेशसः ॥ त्र्यंबकभ्रूलतासंज्ञाप्रेरितोवाक्यमब्रवीत् ॥१६॥
॥ राहुरुवाच ॥ ॥ देवपन्नगसेव्यस्यत्रैलोक्याधिपतेः प्रभो ॥ सर्वरत्नेश्वरस्यत्वमाज्ञांश्रृणुवृषध्वज ॥१७॥
श्मशानवासिनोनित्यमस्थिभारवहस्यच ॥ दिगंबरस्यतेभार्याकथंहैमवतीशुभा ॥१८॥
अहंरत्नाधिनाथोस्मिसाचस्त्रीरत्नसंज्ञिका ॥ तस्मान्ममैवसायोग्यानैव भिक्षाशिनस्तव ॥१९॥
नारदउवाच ॥ ॥ वदत्येवंतदाराहौभ्रूमध्याच्छूलपाणिनः ॥ अभवत्पुरुषोरौद्रस्तीव्राशनिसमस्वनः ॥२०॥
सिंहास्यः प्रचलज्जिह्वः सज्वालनयनोमहान् ॥ ऊर्ध्वकेशः शुष्कतनुर्नृसिंहइवचापरः ॥२१॥
सतंखादितुमायांतंदृष्ट्वाराहुर्भयातुरः ॥ पलायन्नतिवेगेनबहिः सचदधारतम् ॥२२॥
सचराहुर्महाबाहोमेघगंभीरयागिरा ॥ उवाचदेवदेवत्वंपाहिमांशरणागतम् ॥२३॥
ब्राह्मणंमांमहादेवखादितुंसमुपागतः ॥ महादेवोवचः श्रुत्वाब्राह्मणस्यतदाब्रवीत् ॥२४॥
धृत्वाखादितुमारब्धस्तावद्रुद्रेणवारितः ॥ नैवासौवध्यतामेतिइतोयंपरवान्यतः ॥२५॥
मुंचेतिपुरुषः श्रुत्वाराहुंतत्याजसोंबरे ॥ राहुंत्यक्त्वासपुरुषस्तदारुद्रंव्यजिज्ञपत् ॥२६॥
॥ पुरुषउवाच ॥ ॥ क्षुधामांबाधतेत्यन्तंक्षुत्क्षामश्चास्मिसर्वथा ॥ किंभक्षयामिदेवेशतदाज्ञा पयमांप्रभो ॥२७॥
ईश्वरउवाच ॥ ॥ भक्षयस्वात्मनः शीघ्रंमांसंत्वंहस्तपादयोः ॥ नारद उवाच ॥ ॥ सशिवेनैवमाज्ञप्तश्चखादपुरुषः स्वकम् ॥२८॥
हस्तपादोद्भवंमांसंशिरः शेषं यथाभवत् ॥ दृष्ट्र्वाशिरोवशेषंतंसुप्रसन्नस्तदाशिवः ॥२९॥
उवाचभीमकर्माणंपुरुषंजातविस्मयः ॥ ईश्वरउवाच ॥ ॥ त्वंकीर्तिमुखसंज्ञोहिभवमद्वारिगः सदा ॥३०॥
त्वदर्चायेनकुर्वतिनैवतेमत्प्रियंकराः ॥ नारदउवाच ॥ तदाप्रभृतिदेवस्यद्वारिकीर्तिमुखः स्थितः ॥३१॥
नार्चयंतीहयेपूर्वतेषामर्चावृथाभवेत् ॥ राहुर्विमुक्तोयस्तेनसोपतद्वर्बरस्थले ॥३२॥
अतःसबर्बरेभूतइतिभूमौप्रथांगतां ॥ ततःसराहुः पुनरेवजातमात्मानमस्मिन्नितिमन्य मानः ॥ समेत्यसर्वंकथयांबभूवजलंधरायैवविचेष्टितंतत् ॥३३॥
॥ इति श्रीपद्मपु० कार्ति कमा० जलंधरोपाख्यानेदूतसंवादेद्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : June 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP