संस्कृत सूची|संस्कृत साहित्य|पुराण|कार्तिक माहात्म्य| चतुर्थोऽध्यायः कार्तिक माहात्म्य प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः कार्तिक माहात्म्य - चतुर्थोऽध्यायः कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात. Tags : kartikpothiकार्तिकपोथी चतुर्थोऽध्यायः Translation - भाषांतर नारद उवाच ॥ ॥ इत्युक्त्वाभगवान्विष्णुः शफरीतुल्यरुपधृक ॥ खात्पपातांजलौविंध्यवासिनः कश्यपस्यसः ॥१॥ सतंकमंडलौक्षिप्रंकृपयाक्षिप्तवान्मुनिः ॥ तावत्सनममौतत्रततः कूपेन्यवेशयत् ॥२॥ तत्रापिनममौतावत्कासारंप्रावपत्सतम् ॥ एवंससागरेक्षिप्तस्तत्रसोपिव्यवर्धत ॥३॥ ततोवधीत्सतंशंखंविष्णुमत्स्यस्वरुपधृक् ॥ अथतंस्वकरेधृत्वाबदरीवनमागमत् ॥४॥ तत्राहूयऋषीन्सर्वानिदमाज्ञापयत्प्रभुः ॥ ॥ विष्णुरुवाच ॥ ॥ जलांतरविशीर्णांस्तेयूयंवेदान्प्रमार्गथ ॥५॥ आनयध्वंचत्वरिताः सागरस्यजलांतरात् ॥ तावत्प्रयागांतिष्ठामिदेवतागणसंयुतः ॥६॥ ॥ नारदउवाच ॥ ततस्तैः सर्वमुनिभिस्तपोबलसमन्वितैः ॥ उद्धताश्चसबीजास्तेवेदायज्ञसमन्विताः ॥७॥ तेषुयावन्मितंयेनलब्धंतावद्धितस्यतत् ॥ ससएवऋषिर्जातस्तत्तत्प्रभृतिपार्थिव ॥८॥ अथसर्वेपिसंगम्यप्रयागंमुनयोययुः ॥ विष्णवेसविधात्रेतेलब्धान्वेदान्यवेदयन् ॥९॥ लब्ध्वावेदानसमग्रांस्तुब्रह्माहर्षसमन्वितः ॥ अयजद्वाजिमेधेनदेवर्षिगणसंयुतः ॥१०॥ यज्ञांतेदेवगंधर्वयक्षपन्नगगुह्यकाः ॥ निपत्यंदंडवद्भूमौविज्ञप्तिंचक्रुरंजसा ॥११॥ देवाऊचुः ॥ देवदेवजगन्नाथविज्ञप्तिंशृणुनः प्रभो ॥ हर्षकालोयमस्माकं तस्मात्त्वंवरदोभव ॥१२॥ स्थानेऽस्मिन्द्रुहिणोवेदान्नष्टान्प्रापपुनस्त्वयम् ॥ यज्ञभागान्वयंप्राप्तास्त्वत्प्रसादाद्रमापते ॥१३॥ स्थानमेतद्धिनः श्रेष्ठपृथिव्यांपुण्यवर्धनम् ॥ भुक्तिमुक्तिप्रदंचास्तुप्रसादाद्भवतः सदा ॥१४॥ कालोप्ययंमहापुण्योब्रह्मघ्नादिविशुद्धिकृत् ॥ दत्ताक्षयकरश्चास्तुवरमेवंददस्वनः ॥१५॥ ॥ विष्णुउवाच ॥ ॥ ममाप्येतद्वतंदेवायद्भवद्भिरुदाहतम् ॥ तथाऽस्तुसुलभंत्वेतद्वह्यक्षेत्रमति प्रथम् ॥१६॥ सूर्यवंशोद्भवोराजागंगामत्रानयिष्यति ॥ सासूर्यकन्ययाचात्रकालिंद्यायोगमेष्यति ॥१७॥ यूयंचसर्वेब्रह्माद्यानिवसंतुमयासह ॥ तीर्थराजेतिविख्यातंतीर्थमेतद्भविष्यति ॥१८॥दानंतपोव्रतंहोमोजपपूजादिकाः क्रियाः ॥ अनंतफलदाः संतुमत्सान्निध्यकराः शुभाः ॥१९॥ ब्रह्महत्यादिपापानिसप्तजन्मार्जितानिच ॥ दर्शनादस्यतीर्थस्यविनाशंयांतुतत्क्षणात् ॥२०॥देहत्यागंचयेधीराः कुर्वंतिममसन्निधौ ॥ मत्तनुंप्रविशंत्येतेनपुनर्जन्मिनोनराः ॥२१॥ पितृनुद्दिश्ययेश्राद्धंकुर्वंत्यत्रममाग्रतः ॥ तेषांपितृगणाः सर्वेयांतितेमत्स्वरुपताम् ॥२२॥ कालोप्येषमहापुण्यफलदोस्तुसदानृणाम् ॥ सूर्येमकरगेप्राप्तेस्नायिनांपापनाशनम् ॥२३॥ मकर स्थेरवौमाघेप्रातः स्नानंप्रकुर्वताम् ॥ दर्शनादेवपापानियांतिसूर्याद्यथातमः ॥२४॥ सलोकत्वं समीपत्वंसारुप्यंचत्रयंक्रमात् ॥ नृणांदास्याम्यहंस्नानैर्माघेमकरगेरवौ ॥२५॥ यूयंमुनीश्वरा स्सर्वेश्रृणुत्वंवचनंमम ॥ बदरीवनमध्येहंसदातिष्ठामिसर्वगः ॥२६॥ अन्यत्र दशभिर्वर्षैस्तपसा प्राप्यतेफलम् ॥ तत्रतद्दिवसैकेन भवद्भिः प्राप्यतेसदा ॥२७॥ स्थानस्यदर्शनं तस्ययेकुर्वंतिनरोत्तमाः ॥ जीवन्मुक्ताः सदातेषुपापंनैवावतिष्ठते ॥२८॥ नारदउवाच ॥ ॥ एवंदेवानदेवदेवस्तदुक्त्वातत्रैवांतर्द्धानमागात्सवेधाः ॥ देवाः सर्वेप्यंशकैस्त त्रतिष्ठंश्चांतर्धानंप्रापुरिंद्रादयस्ते ॥२९॥ इमांकथांयः श्रृणुयान्नरोत्तमोयः श्रावयेद्वापिविशुद्धचेतसा ॥ सतीर्थराजंबदरीवनंयद्गत्वफलंतत्समवाप्नुयाच्च ॥३०॥ ॥ इतिश्रीपद्मपुराणेकार्त्तिकमाहात्म्येश्रीकृष्णसत्यासंवादेप्रयागवर्णनंनामचतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : June 19, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP