संस्कृत सूची|संस्कृत साहित्य|पुराण|कार्तिक माहात्म्य| प्रथमोऽध्यायः कार्तिक माहात्म्य प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः कार्तिक माहात्म्य - प्रथमोऽध्यायः कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात. Tags : kartikpothiकार्तिकपोथी प्रथमोऽध्यायः Translation - भाषांतर श्रीगणेशाय नमः एकदास्वर्गलोकाद्वैनारदोद्वारिकांगतः ॥ दिदृक्षयाभगवतोदेवदेवस्यवेध सः ॥१॥ दृष्ट्वाकृष्णंततः पूजांकृत्वाभक्तिसमन्वितः ॥ पारिजातस्यपुष्पैकंददौभगवतेतदा ॥२॥ कृष्णोपितद्रृहीत्वातुरुक्मिण्यैदत्तवांस्तदा ॥ एतस्मिन्नंतरेचैवनारदोमुनिसत्तमः ॥ ॥३॥ सत्यभामामगात्तूर्णकथयामाससर्वशः ॥ ततोजगामभगवान्देवदेवोजनार्दनः ॥४॥ श्रीवत्सलांछनधरःसत्यभामागृहंप्रति ॥ दृष्ट्वाप्रियांचविमनामेकांतेसमुपस्थिताम् ॥५॥ प्रह स्यचजगन्नाथोवासुदेवोब्रवीदिदं ॥ प्रियेकुतोसिविमनास्तद्वदस्वममाग्रतः ॥६॥ ततोब्रवीत्स त्यभाभाक्रोधप्रस्फुरिताधरा ॥ मंदारपुष्पंकस्मात्त्वंरुक्मिण्यैदत्तवानसि ॥७॥ ततोब्रवीद्वासुदेवस्त्वंहिसत्येममांतिका ॥ ततोगरुडमानीयसमारुह्यसभार्यया ॥८॥ स्वर्ग लोकमगात्तूर्णकल्पवृक्षजिघृक्षया ॥ उत्पाट्यमंदारतरुंजित्वाह्यदितिनंदनम् ॥९॥ द्वारिकाम गमत्कृष्णस्तुतः प्राह प्रियांसती ॥ गृहाणमंदारतरुंत्वंमेपरमवल्लभा ॥१०॥ ततोब्रवीत्सत्य भामानारदंमुनिपुंगवम् ॥ कथस्वमहायोगिनममाग्रेमुनिसत्तम् ॥११॥ येनमेकृष्णविश्ले षोनभवेच्चकथंचन ॥ ततःप्राहमुनिर्वाक्यंसत्यभामांयशस्विनीम् ॥१२॥ श्रृणुसत्येप्रवक्ष्या मियद्ददातिभुनक्तितत् ॥ तस्माद्दानंददस्वैनंनवियोगोभविष्यति ॥१३॥ तथेत्युक्त्वाददौदानं नारदाययशस्विनी ॥ ततस्तुनारदःकृष्णंसंगृह्यह्यगमनमुनिः ॥१४॥ततोऽब्रवीत्सत्यभामानारदंमुनिपुंगवम् ॥ अस्मिंल्लोकेवियोगस्यत्वयाऽकारिमयासह ॥१५॥ परलोकेकथंत्वस्य वियोनोनभविष्यति ॥ ततोऽब्रवीन्मुनिवरः प्रहस्यवाक्यमेवच ॥१६॥ तु लायांतोलयस्वैनंयेनतुल्योभविष्यति ॥ तत्प्रदेहिचमेमूल्यंतर्ह्येनंतुत्यजाम्यहम् ॥१७॥ ततो गृहोपस्करणंसर्वमानीयतेनसा ॥ तोलयामासवैवसत्यानचतुल्योबभूवसः ॥१८॥ ततोहरि निदेशेनसत्यभामादृढव्रता ॥ तुलसीदलमानीयतोलयामासतेनतम् ॥१९॥ तेनतुल्योबभूवा थभगवान्भक्तवत्सलः ॥ ततोगृहीत्वातुदलंनारदोमुनिपुंगवः ॥२०॥ स्तुत्वाजनार्दनंदेवंस्वर्ग लोकंजगामसः ॥२१॥ श्रियः पतिमथामंत्र्यगतेदेवर्षिसत्तमे ॥ हर्षोत्फुल्लाननासत्यावासुदेवमथाब्रवीत् ॥२२॥ सत्योवाच ॥ धन्यास्मिकृतकृत्यास्मिसफलंजीवितं मम ॥ मज्जन्मनिनिदानेचधन्यौतौपितरौ मम ॥२३॥ यौमांत्रैलौक्यसुभगांजनयामासतुर्ध्रुवम् ॥ षोडशस्त्रीसहस्त्राणांवल्लभाऽहंयतस्तव ॥२४॥ यस्मान्मयाऽदिपुरुषः कल्पवृक्षसमन्वितः ॥ यथोक्तविधिनासम्यङ्नारदायसमर्पितः ॥२५॥ यद्वार्त्तामपिजानंतिभूमिसंस्थानजंतवः ॥ सोऽयंकल्पद्रुमोगेहेसदातिष्ठतिचांगणे ॥२६॥ त्रैलोक्याधिपतेश्चाहंश्रीपतेरतिवल्लभा ॥ अतोहंप्रष्टुमिच्छामिकिंचित्त्वांमधुसूदन ॥२७॥ यदित्वंमत्प्रियकरः कथयस्वात्रविस्तरम् ॥ श्रुत्वातच्चपुनश्चाहंकरोमिहितमात्मनः ॥२८॥ यथाकल्पंत्वयादेववियुक्तास्यान्नकर्हिचित् ॥ ॥ सूतउवाच ॥ ॥ इतिप्रियावचः श्रुत्वास्मेरास्यः सगदाधरः ॥२९॥ सत्याकरंकरेधृत्वागमत्कल्पतरोः स्थलम् ॥ निषिध्यानुचरंलोकंसविलासः प्रियान्वितः ॥३०॥ प्रहस्यसत्यामामंत्र्यप्रोवाचजगतांपतिः तत्प्रीतिपरितोषोत्थलसत्पुल कितांगकः ॥३१॥ श्रीकृष्णउवाच ॥ ॥ नमेत्वत्तः प्रियतमाकाचिदन्यानितंबिनी ॥ षोडशस्त्रीसहस्त्राणांप्रियाप्राणसमाह्यसि ॥३२॥ त्वदर्थंदेवराजेनविरोधोदैवतैः सह ॥ त्वयायत्प्रार्थितंकांतेश्रृणुतच्चमहाद्भुतम् ॥३३॥ सूतउवाच ॥ ॥ एकदाभगवान्कृष्णस्सत्यायाः प्रियकाम्यया ॥ वैनतेयंसमारुढइन्द्रलोकंतदागमत् ॥३४॥ कल्पवृक्षंयाचितवानसोवदन्नददाम्यहं ॥ वैनतेयस्तदाक्रुद्धस्तदर्थंयुयुधेतदा ॥३५॥ गोलोकेगरुडोगोभिर्युद्धंचैवचकारसः ॥ गरुडस्यचतुंडेनपुच्छकर्णास्तदाऽपतन् ॥३६॥ रुधिरो पिपतोर्व्यात्रीणिवस्तूनिचाभवन् ॥ कर्णेभ्यश्चतमालंचपुच्छाद्गोमीबभूवह ॥३७॥ रुधिरान्मे हदीजातामोक्षार्थीदूरतस्त्यजेत् ॥ तस्मादेतत्रयंचैवनहिसेव्यंनरैः प्रिये ॥३८॥ गावस्तागरु डंश्रृङ्गैः प्रजहुः कुपितास्तदा ॥ गरुत्मतस्त्रयः पक्षाः पृथिव्यामपतनप्रिये ॥३९॥ पक्षात्प्राथ मिकाज्जातोनीलकंठः शुभात्मकः ॥ द्वितीयाच्चमयूरोवैचक्रवाकस्तृतीयतः ॥४०॥ दर्शनाद्वै त्रयाणांतुशुभंफलमवाप्नुयात् ॥ तस्मादिदमुपाख्यानंवर्णितंचमयाप्रिये ॥४१॥ सुपर्ण दर्शनाच्चैवयतॊफलंलभतेनरः ॥ तत्फलंप्राप्नुयात्तेषांदर्शनाद्वैममालयम् ॥४२॥ अदेयमपिवाकार्यमकथ्यमपियत्पुनः ॥ तत्करोमिकथंप्रश्नंकथयामिनमत्प्रिये ॥४३॥ पृच्छ स्वसर्वंकथयेयत्तेमनसिवर्तते ॥ ॥ सत्योवाच ॥ ॥ दानंव्रतंतपोवापिकिंतुपूर्वंकृतंमया ॥४४॥ येनाहंमर्त्यजामर्त्यभावातीताभवंकिल ॥ तवांगार्धहरानित्यंगरुडासनगामिनी ॥४५॥ इन्द्रादिदेवतावासमगमंयात्वयासह ॥ अतस्त्वांप्रष्टुमिच्छामिकिंकृतंतुमयाशुभम् ॥४६॥ भवांतरे चकिंशीलाकाचाहंकस्यकन्यका ॥ ॥ श्रीकृष्णउवाच ॥ ॥ श्रृणुष्वैकमनाः कांतेयथात्वंपूर्व जन्मनि ॥४७॥ पुण्यव्रतंकृतवतीतत्सर्वंकथयामिते ॥ आसीत्कृतयुगस्यांतेमायापुर्यांद्विजोत्तमः ॥४८॥ आत्रेयोदेवशर्मेतिवेदवेदांगपारगः ॥ अतिथेयोग्निशुश्रूषीसौरव्रतपरायणः ॥४९॥ सूर्यमाराधयन्नित्यंसाक्षात्सूर्यइवापरः ॥ तस्यातिवयसश्चासीन्नाम्नागुणवतीसुता ॥५०॥ अपुत्रः सस्वशिष्यायचंद्रनाम्नेददौसुताम् ॥ तमेवपुत्रवन्मेनेसचतंपितृवद्वशी ॥५१॥ तौकदाचिद्वनंयातौकुशेध्महरणार्थिनौ ॥ हिमाद्रिपादोपवनेचेरतुस्तावितस्ततः ॥५२॥ तावुभौराक्षसंघो रमायांतंतमपश्यताम् ॥ भयविह्वलसर्वांगावसमर्थैपलायितुम् ॥५३॥ निहतौरक्षसातेनकृतांतसमरुपिणा ॥ तौतत्क्षेत्रप्रभावेणधर्मशीलतयापुनः ॥५४॥ वैकुंठभवनंनीतौमद्गणैर्मत्समीपगैः ॥ यावज्जीवंतुयत्ताभ्यांसूर्यपूजादिकंकृतम् ॥५५॥ तेनाहंकर्मणाताभ्यांसुप्रीतोह्यभवंकिल ॥ शैवाः सौराश्चगाणेशावैष्णवाः शक्तिपूजकाः ॥५६॥ मामेवंप्राप्नुवंतीहवर्षांभः सागरंयथा ॥ एकोऽहंपंचधजातः क्रिययानामभिः किल ॥५७॥ देवदत्तो यथाकश्चित्पुत्राद्याह्वाननामभिः ॥५८॥ ततश्चतौमद्भवनाधिवासिनौविमानयानौरविवर्चसावुभौ ॥ मत्तुल्यरुपौममसन्निधानगौदिव्यांगनाचंदन भोग भोगिनौ ॥५९॥ इतिश्रीपद्मपुराणे उत्तरखण्डेकार्तिकमाहात्म्येकृष्णसत्यासंवादेप्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : June 19, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP