शिवगीता - नवमोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीभगवानुवाच ।

देहस्वरूपं वक्ष्यामि श्रृणुश्वावहितो नृप ॥

मत्तो हि जायते विश्वं मयैवैतत्प्रधार्यते ॥१॥

मय्येवेदमधिष्ठान लीयते शुक्तिरौप्यवत् ॥

अहं तु निर्मलः पूर्णः सच्चिदानन्दविग्रहः ॥२॥

असंगो निरहंकारः शुद्धं ब्रह्म सनातनः ॥

अनाद्यविद्यायुक्तः सञ्जगत्कारणतां व्रजेत् ॥३॥

अनिर्वाच्या महाविद्या त्रिगुणा परिणामिनी ॥

रजः सत्त्वं तमश्चेति त्रिगुणाः परिकीर्तिताः ॥४॥

सत्त्वं शुक्लं समादिष्टं सुखज्ञानास्पदं नृणाम् ॥

दुःखास्पदं रक्तवर्णं चञ्चलं च रजो मतम् ॥५॥

तमः कृष्णं जडं प्रोक्तमुदासीनं सुखादिषु ॥

अतो मम समायोगाच्छक्तिः स्यास्तित्रगुणात्मिका ॥६॥

अधिष्ठाने तु मय्येव भजते विश्वरूपताम् ॥

शुक्तौ रजतवद्रज्जौ भुजङ्गोयद्वदेव तु ॥७॥

आकाशादीनि जायन्ते मत्तो भूतानि मायया ॥

तैरारब्धमिदं विश्वं देहोऽयं पाञ्चभौतिकः ॥८॥

पितृभ्यामशितादन्नात्षट्‌कोशं जायते वपुः ॥

स्नायवोऽस्थीनि मज्जा च जायन्ते पितृस्तथा ॥९॥

त्वङ्‌मांसं शोणितमिति मातृतश्च भवन्ति हि ॥

भावाः स्युः षड्‌विधास्तस्य मातृजाः पितृजास्तथा ॥

रजसा आत्मजाः सत्यसंभूताः स्वात्मजास्तथा ॥१०॥

मृदवः शोणित मेदो मज्जा प्लीहा यकृद्‌गुदम् ॥

ह्रन्नाभीत्येवमाद्यास्तु भावा मातृभवा मताः ॥११॥

श्मश्रुलोमकचस्त्रायुशिरोधमनयो नखाः ॥

दशनाः शुक्रमित्यादि स्थिराः पितृसमुद्भवाः ॥१२॥

शरीरोपचितिर्वर्णो वृद्धिस्तृप्तिर्बलं स्थितिः ॥

अलोलुपत्वमुत्साह इत्यादि राजसं विदुः ॥१३॥

इच्छा द्वेषः सुखं दुःखं धर्माधर्मो च भावना ॥

प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्वेवमात्मजाः ॥१४॥

ज्ञानेन्द्रियाणी श्रवण स्पर्शन दर्शनं तथा ॥

रसनं घ्राणमित्याहुः पञ्च तेषां तु गोचराः ॥१५॥

शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् ॥

वाक्करांघ्रिगुरोपस्थान्याहुःकर्मेन्द्रियाणि हि ॥१६॥

वचनादानगमनविसर्गरतयःक्रमात् ॥

क्रियास्तेषां मनोबुद्धिरहंकारस्ततः परम् ॥१७॥

अन्तःकरणमित्याहुश्चित्तं चेति चतुष्ट्यम् ॥१८॥

सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रियाः ॥

स्मृति भीतिविकल्पाद्या बुद्धिःस्यान्निश्चयात्मिका ॥१९॥

अहंममेत्यहंकारश्चितं चेतयते यतः ॥

सत्त्वाख्यमन्तःकरणं गुणभेदात्त्रिधा मतम् ॥

सत्त्वं रजस्तम इति गुणाः सत्त्वात्तु सात्त्विकाः ॥२०॥

आस्तिक्यशुक्लधर्मैकमतिप्रकृतयो मताः ॥

रजसो राजसा भावाः कामक्रोधमदादयः ॥२१॥

निद्रालस्यप्रमादादिवञ्चनाद्यास्तु तामसाः ॥

प्रसन्नेन्दिर्यतारोग्यानालस्याद्यास्तुसत्त्वजाः ॥२२॥

देहो मात्रात्मकस्तस्मादादत्ते तद्‌गुणानिमान् ॥

शब्दश्रोत्रमुखरता वैचित्र्यं सूक्ष्मवाग्धृतिः ॥२३॥

बलं च गगनाद्वायोः स्पर्शं च स्पर्शनेन्द्रियम् ॥

उत्क्षेपणमवक्षेपाकुञ्चने गमनं तथा ॥२४॥

प्रसारणमितिमानिपञ्च कर्माणि वायुतः ॥

प्राणापानौ तथा व्यानसमानोदानसंज्ञकाः ॥२५॥

नागःकूर्मश्च कृकलो देवदत्तो धनंजयः ॥

दशेति वायुविकृतीस्तथा गृहणाति लाघवम् ॥२६॥

तेषां मुख्यतरः प्राणो नाभेः कण्ठादधः स्थितः ॥

चरत्यसौ नासिकयोर्नाभौ ह्रदयपङ्कजे ॥२७॥

शब्दोच्चारणनिश्वासोच्छ्‌वासोदेरपि कारणम् ॥२८॥

अपानस्तु गुदे मेढ़्र कटिजंघोदरेष्वपि ॥

नाभिकण्ठे वृषणयोरूरुजानुषु तिष्ठति ॥

तस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितम् ॥२९॥

व्यानोऽक्षिश्रोत्रगुल्फेषु जिह्वा घ्राणेषु तिष्ठति ॥

प्राणायामधृतित्यागग्रहणाद्यस्य कर्म च ॥३०॥

समानो व्याप्य निखिलं शरीर्म वह्निना सह ॥

द्विसप्ततिसहस्त्रेषु नाडीरन्ध्रेषु संचरन् ॥३१॥

भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत ॥

उदानः पादयोरास्ते हस्तयोरङ्गसंधिषु ॥३२॥

कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् ॥

त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ॥३३॥

उद्‌गारादि निमेषादि क्षुत्पिपासादिकं क्रमात् ॥

तन्द्रीप्रभृति शोकादि तेषां कर्म प्रकीर्तितम् ॥३४॥

अग्नेस्तु रोचकं रूपं दीप्ति पाकं प्रकाशताम् ॥

अमर्षतीक्ष्णसूक्ष्माणामोजस्तेजश्च शूरताम् ॥३५॥

मेधावितां तथा दत्ते जलात्तु रसनं रसम् ॥

शैत्यं स्नेहं द्रवं स्वेदं गात्राणि मृदुतामपि ॥३६॥

भूमेर्घ्राणेंद्रिय गन्धं स्थैर्यं धैर्यं च गौरवम् ॥

त्वगसृङ्‌मांसमेदौऽस्थिमज्जाशुक्राणि धातवः ॥३७॥

अन्नं पुंसाशितं त्रेधा जायते जठराग्निना ॥

मलः स्थविष्ठो भागः स्यान्मध्यमो मांसता व्रजेत् ॥

मनः कनिष्ठो भागः स्यात्तस्मादन्नमयं मनः ॥३८॥

अपां स्थविष्ठो मूत्रं स्यान्मध्यमो रुधिरं भवेत् ॥

प्राणः कनिष्ठो भागः स्यात्तस्मात्प्राणो जलात्मकः ॥३९॥

तेजसोऽस्थि स्थविष्ठः स्यान्मज्जा मध्यमसंभवः ॥

कनिष्ठा वाङ्‌मता तस्मात्तेजोऽबन्नात्मकं जगत् ॥४०॥

लोहिताज्जायते मांस मेदो मांससमुद्भवम् ॥

मेदसोऽस्थीनि जायन्ते मज्जा चास्थिसमुद्भवा ॥४१॥

नाड्योऽपि मांससंघाताच्छुकं मज्जासमुद्रवम् ॥४२॥

वातपित्तकफास्तत्र धातवः परिकीर्तिताः ॥

दशाञ्जलिजलं ज्ञेयं रसत्याञ्जलयो नव ॥४३॥

रक्तस्याष्टांपुरीषस्य सप्त स्युः श्र्लेष्मणश्च षट् ॥

पित्तस्य पञ्चचत्वारो मूत्रस्याञ्जलयस्त्रयः ॥४४॥

वसाया मेदसो द्वौ तु मज्जात्वञ्जलिसंमितः ॥

अर्धाञ्जलिस्तथ शुक्रं तदेवं बलमुच्यते ॥४५॥

अस्थ्नां शरीरसंख्या स्यात्षष्टियुक्तं शतत्रयम् ॥

जलजानि कपालानि रुचकास्तरणानि च ॥

नवकानीति तान्याहु पञ्चधास्थीनि सूरयः ॥४६॥

द्वे शते त्वस्थिसन्धीनां स्यातां तत्र देशोत्तरे ॥

रौरवाः प्रसराः स्कन्दसेचनाः स्युरुलूखलाः ॥४७॥

समुद्‌गा मण्डकाः शंखावर्ता वायसतुण्डकाः ॥

इत्यष्टधा समुद्दिष्टाः शरीरेष्वस्थिसंधयः ॥४८॥

सार्धकोटित्रयं रोम्णां श्मश्रुकेशास्त्रिलक्षकाः ॥

देहस्वरूपमेवं ते प्रोक्तं दशरथात्मज ॥

तस्मादसारो नास्त्येव पदार्थो भुवनत्रये ॥४९॥

देहेऽस्मिन्निभिमानेन न महोपायबुद्ध्यः ॥

अहंकारेण पापेन क्रियन्ते हंत सांप्रतम् ॥५०॥

तस्मादेतत्स्वरूपं तु बोद्धव्यं तु मुमुक्षुभिः ॥५१॥

इति श्री पद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे देहस्वरूपनिर्णयो नाम नवमोध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP