संस्कृत सूची|संस्कृत साहित्य|गीता|
पांडव गीता

पांडव गीता


गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


॥ पांडव गीता ॥
पांडव-
प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीशशुकशौनकभीष्मदाल्भ्यान् ।
रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन् पुण्यानिमान्परमभागवतान्स्मरामि ॥१॥
लोमहर्षण धर्मो विविर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति धनञ्जयकीर्तनेन  माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥२॥
ब्रह्मा -
ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।
ध्यानेन तेन हतकिल्बिष चेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥३॥
युधिष्ठिर -
मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥४॥
कुन्ती -
स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् ।
तस्यां तस्यां हृषीकेश त्वयि भक्तिदृर्ढाऽस्तु मे ॥५॥
द्रुपद -
कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र यत्र ।
जातस्य मे भवतु केशव त्वत्प्रसादात् त्वय्येव भक्तिरचलाऽव्यभिचारिणी मे ॥६॥

अभिमन्यु -
गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द रथाङ्गपाणे ।
गोविन्द गोविन्द मुकुन्द कृष्ण  गोविन्द गोविन्द नमो नमस्ते ॥७॥
उद्धव -
वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।
तृषितो जाह्नवीतीरे कूपं वाञ्छति दुर्भगः ॥८॥

विदुर -
वासुदेवस्य ये भक्ताः शान्तास्तद्गतमानसाः ।
तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि ॥९॥

भीष्म -
विपरीतेषु कालेषु परिक्षीणेषु बन्धुषु ।
त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥१०॥
द्रोण -
ये ये हताश्चक्रधरेण राजंस्त्रैलोक्यनाथन जनार्दनेन ।
ते ते गता विष्णुपुरिं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः ॥११॥
गान्धारी -
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥१२॥
प्रह्लाद -
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वचला भक्तिरच्युतऽसु सदा त्वयि ॥१३॥
या प्रीतिरविवेकनां विषयेष्वनपायिनि ।
त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥१४॥
भरद्वाज -
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीश्वरश्यामो हृदयस्थो जनार्दनः ॥१५॥
अत्रि -
गोविन्देति सदा स्नानं गोविन्देति सदा जपः ।
गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम् ॥१६॥
आविर्होत्र -
कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपिताइः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥१७॥
विदुर -
हरर्नामैव नामैव नामामैव मम जीवनम् ।
कलौ नास्येव नास्तेव नास्त्येव गतिरन्यथा ॥१८॥
वशिष्ठ -
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्तु तस्याशु महापातककोटयः ॥१९॥
दुर्योधन -
जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ।
केनापि देवेन हृदिस्थितेन  यथा नियुक्तोऽस्मि तथा करोमि ॥२०॥
सुभद्र -
एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥२१॥
गर्ग -
नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनि ।
तथापि नरके घोरे पतन्तीत्येतदद्भुतम् ॥२२॥
पराशर -
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥२३॥
व्यास -
सत्यं सत्यं पुनः सत्यं भुजमुत्थाप्य चोच्यते ।
न वेदाच्च परं शास्त्रं न देवः केशवात्परः ॥२४॥
धन्वन्तरि -
अच्युतानन्त गोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥२५॥
मार्कण्डेय -
सा हानिस्तन्महच्छिद्रं सा चान्धजडमूढता ।
यन्मुहूर्तं क्षणं वापि वासुदेवं न चिन्तयेत् ॥२६॥
श्रीशुक -
आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥२७॥
श्रीमहादेव -
शरीर च नवच्छिद्रं व्याधिग्रस्तं कलेवरम्
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥२८॥
शौनक -
भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः ।
योऽसौ विश्वम्भरो देवः स भक्तान्किमुपेक्षते ॥२९॥
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥३०॥
सनत्कुमार -
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम्।
शङ्खचक्रगदापद्मी स मे विष्णुः प्रसीदतु ॥३१॥
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः।
कीर्तयन्ति सुरश्रेष्ठमेवं नारायणं विभुम् ॥३२॥
इदं पवित्रमायुष्यं पुण्यं पापप्रणाशनम्।
दुःस्वप्ननाशनं स्तोत्रं पाण्डवैः परिकीर्तितम् ॥३३॥
यः पठेत्प्रातरुत्थाय शुचिस्तद्गतमानसः।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥३४॥
तत्फलं समवाप्नोति यः पठेदिति संस्तवम्।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥३५॥
गङ्गा गीता च गायत्री गोविन्दो गरुडध्वजः।
गकारैः पञ्चभिर्युक्तः पुनर्जन्म न विद्यते ॥३६॥
गीतां यः पठते नित्यं श्लोकार्धं श्लोकमेव वा।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥३७॥

N/A

N/A
Last Updated : August 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP