संस्कृत सूची|संस्कृत साहित्य|गीता|
मङ्किगीता

मङ्किगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


युधिस्थिर ईहमानः समारम्भान्यदि नासादयेद्धनम् । धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥१॥
भीस्म सर्वसाम्यमनायासः सत्यवाक्यं च भारत । निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः ॥२॥
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये । एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥४॥
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः । केन चिद्धनशेषेण क्रीतवान्दम्य गोयुगम् ॥५॥
सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ । आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥६॥
तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः । उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः ॥७॥
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना । म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥८॥
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् । युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥९॥
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः । इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् ॥१०॥
उद्यम्योद्यम्य मे दम्यौ विषमेनेव गच्छति । उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥११॥
मनी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् ॥१२॥
यदि वाप्युपपद्येत पौरुषं नाम कर्हि चित् । अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥१३॥
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता । सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥१४॥
अहो सम्यक्षुकेनोक्तं सर्वतः परिमुच्यता । प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥१५॥
यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् । प्रापनात्सर्वकामानां परित्यागो विशिष्यते ॥१६॥
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश् चन । शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ॥१७॥
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक । असकृच्चासि निकृतो न च निर्विद्यसे तनो ॥१८॥
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया । मा मां योजय लोभेन वृथा त्वं वित्तकामुक ॥१९॥
सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः । कदा विमोक्ष्यसे मूढ धनेहां धनकामुक ॥२०॥
अहो नु मम बालिश्यं योऽहं क्रीदनकस्तव । किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् ॥२१॥
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् । त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥२२॥
नूनं ते हृदयं कामवज्र सारमयं दृधम् । यदनर्थशताविष्टं शतधा न विदीर्यते ॥२३॥
त्यजामि कामत्वां चैव यच्च किं चित्प्रियं तव । तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् ॥२४॥
कामजानामि ते मूलं सङ्कल्पात्किल जायसे । न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यति ॥२५॥
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी । लब्धानाशो यथा मृत्युर्लब्धं भवति वा न वा ॥२६॥
परेत्य यो न लभते ततो दुःखतरं नु किम् । न च तुष्यति लब्धेन भूय एव च मार्गति ॥२७॥
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् । मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज ॥२८॥
य इमं मामकं देहं भूतग्रामः समाश्रितः । स यात्वितो यथाकामं वसतां वा यथासुखम् ॥२९॥
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु । तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् ॥३०॥
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः । योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् ॥३१॥
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः । यथा मा त्वं पुनर्नैवं दुःखेषु प्रनिधास्यसि ॥३२॥
त्वया हि मे प्रनुन्नस्य गतिरन्या न विद्यते । तृष्णा शोकश्रमाणां हि त्वं कामप्रभवः सदा ॥३३॥
धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् । ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ॥३४॥
अवज्ञान सहस्रैस्तु दोषाः कस्ततराधने । धने सुखकला या च सापि दुःखैर्विधीयते ॥३५॥
धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः । क्लिश्यन्ति विविधैर्दन्दैर्नित्यमुद्वेजयन्ति च ॥३६॥
मन्दलोलुपता दुःखमिति बुद्धिं चिरान्मया । यद्यदालम्बसे कामतत्तदेवानुरुध्यसे ॥३७॥
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः । नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥३८॥
पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि । नाहमद्य समावेष्टुं शक्यः कामपुनस्त्वया ॥३९॥
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया । निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥४०॥
अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् । निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥४१॥
परित्यजामि कामत्वां हित्वा सर्वमनोगतीः । न त्वं मया पुनः कामनस्योतेनेव रंस्यसे ॥४२॥
क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः । द्वेष्य मुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥४३॥
तृप्तः स्वस्थेन्द्रियो नित्यं यथा लब्धेन वर्तयन् । न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥४४॥
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् । सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥४५॥
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च । त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् ॥४६॥
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च । नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥४७॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते । कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥४८॥
कामान्व्युदस्य धुनुते यत्किं चित्पुरुषो रजः । कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥४९॥
एष ब्रह्म प्रविष्टोऽहं ग्रीस्मे शीतमिव ह्रदम् । शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥५०॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् ॥५१॥
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् । प्राप्यावध्यं ब्रह्म पुरं राजेव स्यामहं सुखी ॥५२॥
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः । सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥५३॥
दम्य नाश कृते मङ्किरमरत्वं किलागमत् । अछिनत्काममूलं स तेन प्राप महत्सुखम् ॥५४॥ ॥
इति मङ्किगीता समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP