संस्कृत सूची|संस्कृत साहित्य|गीता| बकगीता गीता अष्टावक्र गीता अवधूत गीता दत्तगीता श्री गणेश गीता श्रीरमणगीता ऋभु गीता शिवगीता सूर्य गीता सूत गीता उत्तर गीता भाष्य श्री विष्णोर्नाम गीता बकगीता गर्भगीता काश्यपगीता मङ्किगीता पृथिवीगीता पितृगीता सरस्वतीगीता तुलसीगीता उतथ्यगीता उत्तरगीता वैष्णवगीता वसिष्ठ गीता धर्मव्याधगीता यमगीता युधिष्ठिरगीता श्रीगुरुचरित्रातील श्रीगुरुगीता गीता प्रस्तावना गुरुगीता रामगीता अनुगीता जीवनमुक्ति गीता बोध्यगीता ब्रह्मगीता ब्राह्मणगीता हंसगीता हारीतगीता मङ्किगीता पांडव गीता पाराशरगीता पिंगलागीता ऋषभगीता षड्जगीता शंपाकगीता श्रुतिगीता वामदेवगीता विचखुगीता वृत्रगीता उतथ्यगीता बकगीता गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत बकगीता Translation - भाषांतर ॥ अथ बकगीता ॥ वैशम्पायन उवाच - मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च पर्यपृच्छन्नृषिः । केन दीर्घायुरासीद्बको मार्कण्डेयस्तु तान्सर्वानुवाच ॥१॥ महातपा दीर्घायुश्च बको राजर्षिर्नात्रकार्या विचारणा ॥२॥ एतच्छृत्वा तु कौन्तेयो भ्रातृभिः सह भारत । मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥३॥ बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ । सखायौ देवराजस्य तावृषी लोकसंमितौ ॥४॥ एतदिच्छामि भगवन् बकशक्रसमागमम् । सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे ॥५॥ मार्कण्डेय उवाच - वृत्ते देवासुरे राजन्संग्रामे लोमहर्षणे । त्रयाणामपि लोकानामिन्द्रो लोकाधिपो भवत् ॥६॥ सम्यग्वर्षति पर्जन्ये सुखसम्पद उत्तमाः । निरामयास्तु धर्मिष्ठाः प्रजा धर्मपरायणाः ॥७॥ मुदितश्च जनः सर्वः स्वधर्मे सुव्यवस्थितः । ताः प्रजा मुदिताः सर्वा दृष्टाबलनिषूदनः ॥८॥ ततस्तु मुदितो राजन् देवराजः शतक्रतुः । ऐरावतं समास्थाय ताः पश्यन्मुदिताः प्रजाः ॥९॥ आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः । नगराणि समृद्धानि खेटाञ्जनपदांस्तथा ॥१०॥ प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः । उदपानप्रपावापीतडागानिसरांसिच ॥११॥ नानाब्रह्मसमाचारैः सेवितानि द्विजोत्तमैः । ततोवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः ॥१२॥ तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले । पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप ॥१३॥ तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् । तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥१४॥ बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाभवत् । पाद्यासनार्घदानेन फलमूलैरथार्चयत् ॥१५॥ सुखोपविष्टो वरदस्ततस्तु बलसूदनः । ततः प्रश्नं बकं देव उवाच-त्रिदशेश्वरः॥१६॥ शतं वर्षसहस्राणि मुने जातस्य तेनघ । समाख्याहि मम ब्रह्मन् किं दुःखं चिरजीविनाम् ॥१७॥ बक उवाच - अप्रियैः सह संवासः प्रियैश्चापि विनाभवः । असद्भिः संप्रयोगश्च तद्दुःखं चिर्जीविनाम् ॥१८॥ पुत्रदारविनाशोत्र ज्ञातीनां सुहृदामपि । परेष्वापतते कृछ्रं किंनु दुःखतरं ततः ॥१९॥ नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे । अर्थैर्विहीनः पुरुषः परैः संपरिभूयते ॥२०॥ अकुलानां कुले भावं कुलीनानां कुलक्षयम् । संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥२१॥ अपि प्रत्यक्षमेवैतद्देवदेव शतक्रतो । अकुलानां समृद्धानां कथं कुलविपर्ययः ॥२२॥ देवदानवगन्धर्वमनुष्योरगराक्षसाः । प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः ॥२३॥ कुले जाताश्च क्लिश्यन्ते दौष्कुले यवशानुगाः । आढ्यैर्दरिद्रावमताः किंनु दुःखतरं ततः ॥२४॥ लोके वैधर्म्यमेतत्तु दृश्यते बहुविस्तरम् । हीनज्ञानाश्च दृश्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः ॥२५॥ बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते । इन्द्र उवाच - पुनरेव महाभाग देवर्षिगणसेवित ॥२६॥ समाख्याहि मम ब्रह्मन् किं सुखं चिरजीविनाम् । बक उवाच - अष्टमे द्वादशे वापि शाकं यः पचते गृहे ॥२७॥ कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः । यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् ॥२८॥ अपि शाकंपचानस्य सुखं वै मघवन् गृहे । अर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन ॥२९॥ फलशाकमपि श्रेयो भोक्तुं ह्यकृपणे गृहे । परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः ॥३०॥ सुमृष्टमपि ने श्रेयो विकल्पोयमतः सताम् । श्ववत्कीलालपो यस्तु परान्नं भोक्तुमिच्छति ॥३१॥ धिगस्तु तस्यतद्भुक्तं कृपणस्य दुरात्मनः । यो दत्त्वातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ॥३२॥ शिष्टान्यनानि यो भुङ्क्ते किंवै सुखतरं ततः । अतो मृष्टतरं नान्यत्पूतं किन्चिच्छ्तक्रतो ॥३३॥ दत्वा यस्त्वतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः । यावतोह्यंधसः पिण्डानश्नाति सततं द्विजः ॥३४॥ तावतां गोसहस्राणां फलं प्राप्नोति दायकः । यदेनो यौवनकृतं तत्सर्व नश्यते ध्रुवम् ॥३५॥ सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् । यद्वारि वारिणा सिंचेत्तद्ध्येनस्तरते क्षणात् ॥३६॥ एतश्चान्याश्चवै बह्वीः कथयित्वा कथाः शुभाः । बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥३७॥ ॥ इति बक शक्र संवाद एवं बकगीता समाप्ता ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP