संस्कृत सूची|संस्कृत साहित्य|गीता| सरस्वतीगीता गीता अष्टावक्र गीता अवधूत गीता दत्तगीता श्री गणेश गीता श्रीरमणगीता ऋभु गीता शिवगीता सूर्य गीता सूत गीता उत्तर गीता भाष्य श्री विष्णोर्नाम गीता बकगीता गर्भगीता काश्यपगीता मङ्किगीता पृथिवीगीता पितृगीता सरस्वतीगीता तुलसीगीता उतथ्यगीता उत्तरगीता वैष्णवगीता वसिष्ठ गीता धर्मव्याधगीता यमगीता युधिष्ठिरगीता श्रीगुरुचरित्रातील श्रीगुरुगीता गीता प्रस्तावना गुरुगीता रामगीता अनुगीता जीवनमुक्ति गीता बोध्यगीता ब्रह्मगीता ब्राह्मणगीता हंसगीता हारीतगीता मङ्किगीता पांडव गीता पाराशरगीता पिंगलागीता ऋषभगीता षड्जगीता शंपाकगीता श्रुतिगीता वामदेवगीता विचखुगीता वृत्रगीता उतथ्यगीता सरस्वतीगीता गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत सरस्वतीगीता Translation - भाषांतर ॥अथ सरस्वतीगीता ॥ मार्कण्डेय उवाच - अत्रैव च सरस्वत्या गीतं परपुरञ्जय । पृष्टा या मुनिना वीर शृणु तार्क्ष्येण धीमता ॥१॥ तार्क्ष्य उवाच - किनु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात् । आचक्ष्व मे चारुसर्वांगि कुर्यात्वयाशिष्टो न च्यवेयं स्वधर्मात् ॥२॥ कथं वाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत् । एतत्सर्व सुभगे प्रब्रवीहि यथा लोकान् विरजाः संचरेयम् ॥३॥ मार्कण्डेय उवाच - एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूमीक्ष्योत्तमबुद्धियुक्तम् । तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे ॥४॥ सरस्वत्युवाच - यो ब्रह्म जानाति यथाप्रदेशं स्वाध्यायनित्यः सुचिरप्रमत्तः । स वै पारं देवलोकस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम् ॥५॥ तत्र स्म रम्याविपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः । अकर्दमामीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः ॥६॥ तासां तीरेष्वासते पुण्यभाजो महीयमानाः पृथगप्सरोभिः । सुपुण्यगन्धाभिरलंकृताभिर्हिरण्यवर्णाभिरतीव दृष्टाः ॥७॥ परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्वानडुहं सूर्यलोकं व्रजन्ति । वासो दत्वा चान्द्रमसं तु लोकं दत्वा हिरण्यममरत्वमेति ॥८॥ धेनुं दत्वा सुप्रभां सुप्रदोहां कल्याणवत्सामपलायिनीं च । यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यासते देवलोके ॥९॥ अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् । धुरन्धरं बलवन्तं युद्मनं प्राप्नोति लोकान्दशधेनुदस्य ॥१०॥ ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयै । तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदातारमुपैति सा गौः ॥११॥ यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं भवति गोप्रदाने । पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥१२॥ सदक्षिणां कांचनचारुशृङ्गीं कांस्योपदोहां द्रविणैरुत्तरीयैः । धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥१३॥ स्वकर्मभिर्दानवसंनिरुद्धे तीव्रान्धकारे नरके पतन्तम् । महार्णवे नौरिव वातयुक्ता दानं गवां तारयते परत्र ॥१४॥ यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे । ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरन्दरस्य ॥१५॥ यः सप्तवर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशील । सप्तावरान्सप्तपूर्वान्पुनाति पितामहानात्मना कर्मभिः स्वैः ॥१६॥ तार्क्ष्य उवाच - किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चानुरूपे । त्वयानुशिष्टोहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम् ॥१७॥ सरस्वती उवाच - न वाशुचिर्नाप्यनिर्णिक्य पाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित् । बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धिहविर्जुहन्ति ॥१८॥ नाश्रोत्रियं देवहव्ये नियुंज्यान्मोघं पुरा सिंचति तादृशो हि । अपूर्वमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम् ॥१९॥ कृशाश्च ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च । गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम् ॥२०॥ तार्क्ष्य उवाच - क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमति प्रविष्टाम् । प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां काह्यसि चारुरूपे ॥२१॥ सरस्वत्युवाच - अग्निहोत्रादहमभ्यागतास्मि विसर्पमाणा संशयच्छेदनाय । त्वत्सन्नियोगादहमेतदब्रुबं भावे स्थिता तथ्यमर्थं यथावत् ॥२२॥ तार्क्ष्य उवाच - न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः । रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि ॥२३॥ सरस्वत्युवाच - श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति । तैरेव चाहं संप्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र ॥२४॥ यच्चापि द्रव्यमुपयुज्यतेह वानस्पत्यमायसम्पार्थिवं वा । दिव्येन रूपेण च प्रज्ञया च तवैव सिद्धिरिति विद्धि विद्वन् ॥२५॥ तार्क्ष्य उवाच - इदं श्रेयः परमं मन्यमाना व्यापृच्छन्ते मुनयः संप्रतीताः । आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः । सांख्यं योगाः परमं यं विदन्ति परं पुराणं तमहं न वेद्मि ॥२६॥ सरस्वत्युवाच - तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम् । स्वाध्यायवन्तो व्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः ॥२७॥ तस्याथ मध्ये चेतसः पुण्यगन्धाः सहस्र शाखा विपुला विभान्ति । तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणाः सुपुण्याः ॥२८॥ शाखां शाखां महानद्यः संयान्ति सिकताशयाः । धानाः पूपा मांसशाका सदा पायसकर्दमाः ॥२९॥ यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मम ॥३०॥ इति सरस्वतीगीता समाप्ता ॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP