मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
विष्णोरष्टाविंशतिनाम स्तोत्रम्‌

विष्णोरष्टाविंशतिनाम स्तोत्रम्‌

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशाय नम: । अर्जुन उवाच ।

किं नु नामसहस्त्राणि जपन्ते च पुन: पुन: । यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥ १ ॥

श्रीभगवानुवाच ॥

मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् । गोविन्दं पुंडरीकाक्षं माधवं मधुसूदनम् ॥ २ ॥

पद्मनाभं सहस्त्राक्षं वनमालिं हलायुधम् । गोवर्धनं ह्रषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥ ३ ॥

विश्वरूपं वासुदेवं रामं नारायणं हरिम् । दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् ॥ ४ ॥

अनंतंकॄष्णगोपालं जपतो नास्ति पातकम् । गवां कोटि प्रदानस्य अश्वमेधशतस्य च ॥ ५ ॥

कन्यादानसहस्त्राणां फलं प्राप्नोति मानव: । अमावस्यां वा पौर्णमास्यामेकादश्यां तथैव च ॥ ६ ॥

सन्ध्याकाले स्मरेन्नित्यं प्रात:काले तथैव च । मध्याह्ने च जपेन्नित्यं सर्वपापै: प्रमुच्यते ॥ ७ ॥

इति श्रीकृष्णार्जुनसंवादे विष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम ।

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP