मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे| नारायणस्तोत्रम् विष्णु स्तोत्रे नारायणीय गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् श्रीविष्णुमहिम्नस्तोत्रम् प्रातः स्मरामि फणिराजतनौ ... नारायणस्तोत्रम् विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम् अच्युताष्ट्कम् विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम् मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम् परमेश्वरस्तुतिसारस्तोत्रम् भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम् नारायणस्तोत्रम् नारद उवाचकिं तञ्ज्ञानं परं देव कश्च योगः परस्तथा ।एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥५९॥ब्रह्मोवाचयः परः प्रक्ऱृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।स एव सर्वभूतानां नर इत्यभिधीयते ॥६०॥नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।तान्येव चायनं तस्य तेन नारायणः स्म्ऱृतः ॥६१॥नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥६२॥नारायणः परं ब्रह्म तत्त्वं नारायणः परम् ।नारायणः परं ज्योतिरात्मा नारायणः परः ॥६३॥परादपि परश्चासौ तस्मान्नातिपरं मुने ।यच्च किञ्चिज्जगत्यस्मिन् द्ऱृश्यते श्रूयतेऽपि वा ॥६४॥अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ॥६५॥नमो नारायणायेति ध्यात्वा चानन्यमानसाः ।किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥६६॥यो नित्यं ध्यायते देवं नारायणमनन्यधीः ।एतञ्ज्ञानं वरं नातो योगश्चैव परस्तथा ॥६७॥परस्परविरुद्धार्थैः किमन्यैः शास्त्रविस्तरैः ।बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ॥६८॥तथा ज्ञानानि सर्वाणि प्रविशन्ति तमीश्वरम् ।स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥६९॥जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः ।विष्णुर्विभुरचित्न्यात्मा नित्यः सदसदात्मकः ॥७०॥वासुदेवो जगद्वासः पुराणः कविरव्ययः ।यस्मात्प्राप्तं स्थितिं क्ऱृत्स्नं त्रैलोक्यं सचराचरम् ॥७१॥तस्मात् स भगवान्देवो विष्णुरित्यभिधीयते ।यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥७२॥तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः ।तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ॥७३॥विज्ञानमात्रं केचिच्च केचिद्ब्रह्म परं तथा ।केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ॥७४॥केचिच्च परमात्मानं केचिच्चैवमनामयम् ।केचित्क्षेत्रज्ञमित्याहुः केचित्षड्विंशकं तथा ॥७५॥अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम् ।एते चान्ये च मुनिभिः संज्ञाभेदाः प्ऱृथग्विधाः ॥७६॥शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः ।एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ॥७७॥बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् ।आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥७८॥इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।त्यक्त्वा व्यामोहकान् सर्वान् तस्माच्छास्त्रार्थविस्तरान् ॥७९॥अनन्यचेता ध्यायस्व नारायणमतन्द्रितः ।एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ॥८०॥क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः ।श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥८१॥ततोऽहमासं विप्रेन्द्र नारायणपरायणः ।नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ॥८२॥अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम् ।तस्मान्नारायणस्तात परमात्मा सनातनः ॥८३॥अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः ।नारायणो जगद्व्यापी परमात्मा सनातनः ॥८४॥जगतां स्ऱृष्टिसंहारपरिपालनतत्परः ।श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ॥८५॥आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा ।निः स्प्ऱृहा नित्यसंतुष्टा ज्ञानिनः संयतेन्द्रियाः ॥८६॥निर्ममा निरहंकारा रागद्वेषविवर्जिताः ।अपक्षपतिताः शान्ताः सर्वसंकल्पवर्जिताः ॥८७॥ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम् ।त्यक्तत्रया महात्मानो वासुदेवं हरिं गुरुम् ॥८८॥कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम् ।तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ॥८९॥तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ।हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥९०॥अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च ।तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥९१॥किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः ।नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥९२॥चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा ।भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥९३॥ये न्ऱृशंसा दुरात्मानः पापाचाररताः सदा ।तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥९४॥जन्मान्तरसहस्रेषु यस्य स्यद्बुद्धिरीद्ऱृशी ।दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिनः ॥९५॥प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः ।किं पुनस्तद्गतपुराणः पुरुषः संयतेन्द्रियः ॥९६॥इति ।नरसिंहपुराणे अध्याय ६४ श्लोक ५९९६, अध्याय श्लोक संख्या १२४ Tags : stotravishnuविष्णुसंस्कृतस्तोत्र नारायणस्तोत्रम् Translation - भाषांतर श्री गणेशाय नमः ।नारायण नारायण जय गोविन्द हरे ॥नारायण नारायण जय गोपाल हरे ॥ध्रु ॥करुणापारावार वरुणालयगम्भीर ॥नारायण ॥१॥घननीरदसङ्काश कृतकलिकल्मषनाश ॥नारायण ॥२॥यमुनातीरविहार धृतकौस्तुभमणिहार ॥नारायण ॥३॥पीताम्बरपरिधान सुरकल्याणनिधान ॥नारायण ॥४॥मञ्जुलगुञ्जाभूष मायामानुषवेष ॥नारायण ॥५॥राधाधरमधुरसिक रजनीकरकुलतिलक ॥नारायण ॥६॥मुरलीगानविनोद वेदस्तुतभूपाद ॥नारायण ॥७॥बर्हिनिबर्हापीड नटनाटकफणिक्रीड ॥नारायण ॥८॥वारिजभूषाभरण राजिवरुक्मिणीरमण ॥नारायण ॥९॥जलरुहदलनिभनेत्र जगदारम्भकसूत्र ॥नारायण ॥१०॥पातकरजनीसंहर करुणालय मामुद्धर ॥नारायण ॥११॥अघबकक्षयकंसारे केशव कृष्ण मुरारे ॥नारायण ॥१२॥हाटकनिभपीताम्बर अभयं कुरु मे मावर ॥नारायण ॥१३॥दशरथराजकुमार दानवमदसंहार ॥नारायण ॥१४॥गोवर्धनगिरिरमण गोपीमानसहरण ॥नारायण ॥१५॥शरयूतीरविहार सज्जनऋषिमन्दार ॥नारायण ॥१६॥विश्वामित्रमखत्र विविधपरासुचरित्र ॥नारायण ॥१७॥ध्वजवज्राङ्कुशपाद धरणीसुतसहमोद ॥नारायण ॥१८॥जनकसुताप्रतिपाल जय जय संसृतिलील ॥नारायण ॥१९॥दशरथवाग्धृतिभार दण्डकवनसञ्चार ॥नारायण ॥२०॥मुष्टिकचाणूरसंहार मुनिमानसविहार ॥नारायण ॥२१॥वालिविनिग्रहशौर्य वरसुग्रीवहितार्य ॥नारायण ॥२२॥मां मुरलीकर धीवर पालय पालय श्रीधर ॥नारायण ॥२३॥जलनिधिबन्धनधीर रावणकण्ठविदार ॥नारायण ॥२४॥ताटीमददलनाढ्य नटगुणविविधधनाढ्य ॥नारायण ॥२५॥गौतमपत्नीपूजन करुणाघनावलोकन ॥नारायण ॥२६॥सम्भ्रमसीताहार साकेतपुरविहार ॥नारायण ॥२७॥अचलोद्धृतिचञ्चत्कर भक्तानुग्रहतत्पर ॥नारायण ॥२८॥नैगमगानविनोद रक्षःसुतप्रह्लाद ॥नारायण ॥२९॥भारतीयतिवरशङ्कर नामामृतमखिलान्तर ॥नारायण ॥३०॥। इति श्रीमच्छङ्कराचार्यविरचितं नारायणस्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP