अष्टमी कण्डिका

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अत ऊर्द्ध्वं प्रवक्ष्याम्यार्च्चिकस्य स्वरत्रयम्
उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः
य एवोदात्त इत्युक्तः स एव स्वरितात्परः
प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरान्तरम्
वर्णस्वारोऽतीतः स्वारः स्वरितो द्विविधः स्मृतः
मात्रिकोवर्ण एवं नु दीर्घस्तूच्चरितादनु
स तु सप्तविधो ज्ञेयःस्वरः प्रत्ययदर्शनात्
पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः
सप्तस्वरान्प्रयुञ्जीत दक्षिणं श्रवणं प्रति
आचार्यैर्विहितं शास्त्रं पुत्रशिष्यहितैषिभिः
उच्चादुच्चतरं नास्ति नीचान्नीचतरं तथा
वैस्वर्ये स्वारसंज्ञायां किं स्थानं स्वारौच्यते
उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः
तं स्वारं स्वारसञ्ज्ञायां प्रतिजानन्ति शैक्षिकाः
उदात्ते निषादगान्धारावनुदात्तः ऋषभधैवतौ
स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः
यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः
तामथाज्ञापयेन्मात्रां प्रकृत्यैव तु सा कला
जात्यः क्षैप्रोऽभिनिहितस्तैरव्यञ्जन एव च
तिरोविरामः प्रश्लिष्टः पादवृत्तश्च सप्तमः
स्वाराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम्
उद्दिष्टानां यथान्यायमुदाहरणमेव च
इति प्रथमस्याष्टमी कण्डिका
प्रथमः प्रपाठकः समाप्तः

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP