संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|नारदीया शिक्षा|प्रथमः प्रपाठकः| पञ्चमी कण्डिका प्रथमः प्रपाठकः प्रथमा कण्डिका द्वितीयाकण्डिका तृतीया कण्डिका चतुर्थी कण्डिका पञ्चमी कण्डिका षष्ठी कण्डिका सप्तमी कण्डिका अष्टमी कण्डिका पञ्चमी कण्डिका शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : naradsanskritshikshaनारदशिक्षासंस्कृत पञ्चमी कण्डिका Translation - भाषांतर यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरःयो द्वितीयः स गान्धारस्तृतीयस्त्वृषभः स्मृतः चतुर्थः षड्ज इत्याहु पञ्चमो धैवतो भवेत्षष्ठो निषादो विज्ञेयः सप्तमः पञ्चमः स्मृतः षड्जं वदति मयूरो गावो रम्भन्ति चर्षभम्अजाविके तु गान्धरं क्रौञ्चो वदति मध्यमम् पूष्पसाधारणे माले कोकिलो वक्ति पञ्चमम्अश्वस्तु धैवतं वक्ति निषादं वक्ति कुञ्जरः कण्ठादुत्तिष्ठते षड्जः शिरसस्त्वृषभः स्मृतःगान्धारस्त्वानुनासिक्य उरसो मध्यमः स्वरः उरसः शिरसः कण्ठादुच्छ्रितः पञ्चमः स्वरःललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् नासां कण्ठमुरस्तालुजिह्वादन्तांश्च संश्रितःषड्भिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतःनर्दत्यृषभवद्यस्मात्तस्मादृषभ उच्यते वायुः समुत्थितो नाभेः कण्ठशीर्ष समाहतःनासागन्धावहः पुण्यो गान्धारस्तेनहेतुना वायुः समुच्छ्रितो नाभेरुरोहृदि समाहतःनाभिं प्राप्तो महानादो मध्यमत्वं समश्नुते वायुः समुत्थितोनाभेरूरोहृत्कण्ठशिरोहतःपञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते धैवतं च निषादं च वर्ज्जयित्वा स्वरद्वयम्शेषान्पञ्चस्वरांस्त्वन्यान्पञ्चस्थानोच्छ्रितान्विदुः अग्निगीतः स्वरः षड्ज ऋषभो ब्रह्मणोच्यतेसोमेन गीती गान्धारो विष्णुना मध्यमः स्वरः पञ्चमस्तु स्वरो गीतो नारदेन महात्मनाधैवतश्च निषादश्च गीतौ तुम्बुरुणा स्वरौ आद्यस्य दैवतं ब्रह्मा षड्जस्याप्युच्यते बुधैःतीक्ष्णदीप्तिप्रकाशत्वाद् ऋषभस्य हुताशनः गावः प्रगीते तुष्यन्ति गान्धारस्तेन हेतुनाश्रुत्वा चैवोपतिष्ठन्ति सौरभेया न संशयः सोमस्तुपञ्चमस्यापि दैवतं ब्रह्मराट्स्मृतम्निर्ह्रासो यस्य वृद्धिश्च ग्राममासाद्य सोमवत् अति सन्धीयते यस्मादेतान् पूर्वोत्थितान् स्वरान्तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुनासर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतमिति इति पञ्चमी कण्डिका N/A References : N/A Last Updated : September 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP