षष्ठी कण्डिका

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


दारवी गात्रवीणा च द्वे वीणे गानजातिषु
सामिकी गात्रवीणा तु तस्याः शृणुत लक्षणम्
गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामगाः
स्वरव्यञ्जनसंयुक्ता अङ्गुल्यङ्गुष्ठरञ्जिता
हस्तौ सुसंयुतैधायौ जानुभ्यामुपरिस्थितौ
गुरोरनुकृतिं कुर्याद्यथाज्ञानमतिर्भवेत्
प्रणवं प्राक् प्रयुञ्जीतव्याहृत्तीस्तदनन्तरम्
सावित्रीं चानुवचनं ततो वृत्तान्तमारभेत्
प्रसार्यं चाङ्गुलीः सर्वां रोपयेत्स्वरमण्डलम्
न चाङ्गुलिभिरङ्गुष्ठमङ्गुष्ठेनाङ्गुलीः स्पृशेत्
विरला नाङ्गुलीः कुर्यान्मूले चैनां न संस्पृशेत्
अङ्गुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत्
मात्रद्विमात्रवृद्धानां विभागार्थं विभागवित्
अङ्गुलीभिर्द्विमात्रं तु पाणैः सव्यस्य दर्शयेत्
त्रिरेखा यत्र दृश्येत सन्धिं तत्र विनिर्दिशेत्
स पर्व इति विज्ञेयः शेषमन्तरमन्तरम्
यवान्तरं तु सामस्त्वृक्षु कुर्यात्तिलान्तरम्
स्वरान्मध्यमपर्वसु सुनिविष्टान्निवेशयेत्
न चात्र कम्पयेत्किञ्चिदङ्गस्यावयवं बुधः
अधस्तनं मृदुन्यस्य हस्तमास्ते यथाक्रमम्
अभ्रमध्ये यथा विद्युद्दृश्यते मणिसूत्रवत्
एषच्छेदो विवृत्तीनां यथा बालेषु कर्तरि
कूर्मोङ्गानीव संहृत्य चेष्टां दृष्टिं दिशन् मनः
स्वस्थः प्रशान्तो निर्भितो वर्णानुच्चारयेद्बुधः
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत्
निवेश्यदृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत्
सममुच्चारयेद्वाक्यं हस्तेन च मुखेन च
यथैवोच्चारयेद्वर्णांस्तथैवैनान् समापयेत्
नाभ्याइत्यात्र निर्हन्यात्र प्रयोगन्न कम्पयेत्
समं सामानि गायेत व्योम्नि श्येनगतिर्यथा
यथाप्सु चरतां मार्गो मीनानां नोपलभ्यते
आकाशे वा विहङ्गानां तद्वत्स्वरगता श्रुतिः
यथादधनि सर्पिः स्यात्काष्ठस्थोवा यथानलः
प्रयत्नेनोपलम्येत तद्वत्स्वरगता श्रुतिः
स्वरात्स्वरं सङ्क्रमस्तु स्वरसन्धिमनुल्बणम्
अविच्छिन्नं समंकुर्यात्सूक्ष्मं छायातपोपमम्
अनागतमतिक्रान्तं विच्छिन्नं विषमाहतम्
तन्वन्तमस्थितान्तं च वर्ज्जयेत्कर्षणं बुधः
स्वरस्थानाच्च्युतोयस्तुस्वं स्थानमतिवर्त्तते
विस्वरं सामगाः कुर्युविरक्तमतिवीणिनः
आभ्यासार्थे द्रुतां बृत्तिं प्रयोगार्थे तु मध्यमाम्
शिष्याणामुपदेशार्थे कुर्याद्वृत्तिं विलम्बिताम्
गृहीतग्रन्थ एवं तु ग्रन्थोच्चारणशिक्षकान्
हस्तेनाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः
इति षष्ठी कण्डिका

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP