संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|नारदीया शिक्षा|प्रथमः प्रपाठकः| प्रथमा कण्डिका प्रथमः प्रपाठकः प्रथमा कण्डिका द्वितीयाकण्डिका तृतीया कण्डिका चतुर्थी कण्डिका पञ्चमी कण्डिका षष्ठी कण्डिका सप्तमी कण्डिका अष्टमी कण्डिका प्रथमा कण्डिका शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : naradsanskritshikshaनारदशिक्षासंस्कृत प्रथमा कण्डिका Translation - भाषांतर अथातः स्वरशास्त्राणां सर्वेषां वेदनिश्चयम्उच्चनीचविशेषाद्धि स्वरान्यत्वं प्रवर्त्तते आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम्कृतान्ते स्वरशास्त्राणां प्रयोक्तव्यं विशेषतः एकान्तरस्वरो ह्यृक्षु गाथासु द्व्यन्तरःस्वरःसामसु त्र्यन्तरं विद्यादेतावत्स्वरतोऽन्तरम् ऋक्सामयजुरङ्गानि ये यज्ञेषु प्रयुञ्जतेअविज्ञानाद्धि शास्त्राणां तेषां भवति विस्वरः मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाहस वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् प्रहीणः स्वरवर्णाभ्यां यो वै मन्त्रः प्रयुज्यतेयज्ञेषु यजमानस्य रुषत्यायुः प्रजां पशून् उरः कण्ठः शिरश्चैव स्थानानि त्रीणि वाङ्मयेसवनान्याहुरेतानि साम वाप्यर्थतोन्तरम् उरः सप्तविचारं स्यात्तथा कण्ठस्तथा शिरःन च सप्तोरसि व्यक्तास्तथा प्रावचनो विधिः कठकालापप्रवृत्तेषु तैत्तिरीयाह्वरकेषु चऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्ततेउच्चमध्यमसंघातः स्वरो भवति पार्थिवः तृतीयप्रथमक्रुष्टान् कुर्वन्त्याह्वरकाः स्वरान्द्वितीयाद्यांस्तु मन्द्रान्तांस्तैत्तिरीयाश्चतुरः स्वरान् प्रथमश्च द्वितीयश्च तृतीयश्च चतुर्थकःमन्द्रः क्रुष्टो ह्यतिस्वार एतान्कुर्वन्ति सामगाः द्वितीयप्रथमावेतौ तांडिभाल्लविनां स्वरौतथाशातपथावेतौ स्वरौ वाजसनेयिनाम् एतेविशेषतः प्रोक्ताः स्वरावै सार्ववैदिकाःइत्येतच्चारितं सर्वं स्वराणां सार्ववैदिकम् इति प्रथमा कण्डिका N/A References : N/A Last Updated : September 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP