तृतीया कण्डिका

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


गानस्य तु दशविधा गुणवृत्तिस्तद्यथा
रक्तं पूर्णमलङ्कृतं प्रसन्नं व्यक्तंविक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणाः
तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावे रक्तमित्युच्यते
पूर्णं नाम स्वरश्रुतिपूरणाच्छन्दः पादाक्षर संयोगात्पूर्णमित्युच्यते
अलङ्कृतं नामोरसि शिरसि कण्ठयुक्तमित्यलङ्कृतम्
प्रसन्नं नामापगतगद्गदनिर्विशङ्कं प्रसन्नमित्युच्यते
व्यक्तं नाम पदपदार्थप्रकृतिविकारागमलोपकृत्तद्धितसमासधातुनिपातोपस-
र्गस्वरलिङ्गवृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादने व्यक्तमित्युच्यते
विक्रुष्टं नामोच्चैरुच्चारितं व्यक्तपदाक्षरमिति विक्रुष्टम्
श्लक्ष्णं नामाद्रुतमविलम्बितमुच्चनीचप्लुतसमाहार-
हेलतारवोपनयानादिभिरुपपादनादिभिः श्लक्ष्णमित्युच्यते
समं नामावापनिर्वापप्रदेशे प्रत्यन्तरस्थानानां समासः सममित्युच्यते
असुकुमारं नाम मृदुपदवर्णस्वरकुहरणयुक्तं सुकुमारमित्युच्यते
मधुरं नाम स्वभावोपनीतललितपदाक्षर गुणसमृद्धं मधुरमित्युच्यते
शङ्कितं भीतमुद्घृष्टमव्यक्तमनुनासिकम्
काकस्वरं शिरसिगतं तथास्थान विवर्जितम्
विस्वरं विरसं चैव विश्लिष्टं विषमाहतम्
व्याकुलं तालुहीनं च गीतिदोषाश्चतुर्दश
आचार्याः सममिच्छन्ति पदच्छेदन्तु पण्डिताः
स्त्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः
इति तृतीया कण्डिका

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP