द्वितीयाकण्डिका

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा
अल्पग्रन्थं प्रभूतार्थं श्रव्यं वेदाङ्गमुत्तमम्
तानरागस्वरग्राममूर्छनानां तु लक्षणम्
पवित्रं पावनं पुण्यं नारदेन प्रकीर्तितम्
शिक्षामाहुर्द्विजातीनामृग्यजुःसामलक्षणम्
नारदीयमशेषेण निरुक्तमनुपूर्वशः
सप्तस्वरास्त्रयो ग्रामामूर्छनास्त्वेकविंशतिः
ताना एकोनपञ्चाशदित्येतत्स्वरमण्डलम्
षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा
पञ्चमो धैवतश्चैव निषादः सप्तमः स्वरः
षड्जमध्यमगान्धारास्त्रयो ग्रामाः प्रकीर्तिताः
भूर्लोकाज्जायते षड्जो भुवर्लोकाच्च मध्यमः
स्वर्गान्नान्यत्र गान्धारो नारदस्य मतं यथा
स्वररागविशेषेण ग्रामरागा इति स्मृताः
विंशतिर्मध्यमग्रामे षड्जग्रामे चतुर्दश
तानान् पञ्चदशेच्छन्ति गान्धारग्राममाश्रितान्
नन्दी विशाला सुमुखी चित्रा चित्रवती मुखा
बला या चाथ विज्ञेया देवानां सप्त मूर्छनाः
आप्यायनी विश्वभृता चन्द्रा हेमा कपर्दिनी
मैत्री वार्हती चैव पितॄणां सप्त मूर्छनाः
षड्जेतूत्तरमन्द्रा स्यादृषभे चाभिरुद्गता
अश्वक्रान्ता तु गान्धारे तृतीया मूर्छना स्मृता
मध्यमे खलु सौवीरा हृष्यका पञ्चमे स्वरे
धैवते चापिविज्ञेया मूर्छना तूत्तरायता
निषादाद्रजनी विद्यादृषीणां सप्तमूर्छनाः
उपजीवन्ति गन्धर्वादेवानां सप्तमूर्छनाः
पितॄणां मूर्छनाः सप्त तथा यक्षा न संशयः
ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः
षड्जः प्रीणाति वै देवानृषीन् प्रीणाति चर्षभः
पितॄन्प्रीणातिगान्धारो गन्धर्वान्मध्यमः स्वरः
देवान पितॄन्नृषींश्चैव स्वरः प्रीणाति पञ्चमः
यक्षान् निषादः प्रीणाति भूतग्रामं च धैवत इति
इति द्वितीयाकण्डिका

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP