संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|नीतिप्रकाशिका| अष्टमोऽध्यायः नीतिप्रकाशिका परिचय प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नीतिप्रकाशिका - अष्टमोऽध्यायः महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे Tags : nitiprakashikavaishanpayanनीतिप्रकाशिकावैशंपायन अष्टमोऽध्यायः Translation - भाषांतर राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपःलोकरंजनमेवात्र राज्ञो धर्मस्सनातनः ॥१॥यदा हि गर्भिणी हित्वा स्वं प्रियं मनसेऽनुगंगर्भस्य हितमाधत्ते तथा कुर्यात्प्रजाहितं ॥२॥अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो यतःतस्मादभिभवेद्राजा सर्वभूतानि तेजसा ॥३॥सोऽग्निर्भवति वायुश्च सोऽर्कस्सोमस्स धर्मपःस कुबेरस्स वरुणस्स महेन्द्रः प्रभावतः ॥४॥बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपःमहती देवता ह्येषा नररूपेण तिष्ठति ॥५॥एकमेव दहत्यग्निर्नरं दुरुपसर्पिणंकुलं दहति राजाग्निस्सपशुद्रव्यसंचयं ॥६॥तस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमेमृत्युश्च वसति क्रोधे तस्मात् सर्वाश्रयस्तु सः ॥७॥अगूढविभवा यस्य पुरराष्ट्रनिवासिनःनयापनयवेत्ता यस्स राजा त्विदमाचरेत् ॥८॥उत्थौयापररात्रेषु चिन्तयेदर्थनिर्णयंगुणदोषान् स्वयं बुध्वा कर्तव्यार्थे प्रसन्नधीः ॥९॥दैवं हृदा दृढं ध्यात्वा कृत्वा मङ्गलपाठकंशुचिर्भूत्वा तु विधिवन्मङ्गलालम्बनं चरेत् ॥१०॥नित्यकर्म समाप्याथ नित्यदानं विधाय चत्रैविद्यवृद्धान् नत्वा तु तिष्ठेदेषां च शासने ॥११॥तेभ्योऽधिगच्छेद्विनयं विनीतात्मा हि नित्यशःवनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥१२॥इंद्रियाणां जये योगमधितिष्ठेद्दिवानिशंजगज्जितेंद्रियस्येदं वशे भवति नित्यदा ॥१३॥अरिषड्वर्गरहितो वेदशास्त्रपरश्शुचिःप्रातःकाले व्यतीते तु भूषितस्तु सभां व्रजेत् ॥१४॥उच्चासनस्थो नृपती राज्यतंत्रं विचारयेत्धर्मासने समारोप्य विप्रं सुज्ञं पुरोहितं ॥१५॥जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवःधर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन ॥१६॥यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनंतस्य सीदति तद्राष्टं पंके गौरिव पश्यतः ॥१७॥मौलांञ्छास्त्रविदश्शूराल्लँब्धलक्षान् कुलोद्भवान्सचिवान् सप्त चाष्टो वा कुर्वीत सुपरीक्षकान् ॥१८॥सुमंत्रिणः प्रकुर्वीत द्वौ वा त्रीन् न्यायवादिनःतैस्सार्धं चिन्तयेदर्थान् पट्टनेऽर्थपरो नृपः ॥१९॥द्वारपालान् पृष्ठगोपान् सभानेतॄनथाश्रवान्समाज्ञाप्य विधानेन सावधानमना भवेत् ॥२०॥दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदंइङ्गिताकारचेष्टाज्ञं शुचिं लालाटिकं हितं ॥२१॥धर्मशास्त्रानुसारेण सामात्यस्सपुरोहितःव्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैस्सह ॥२२॥सेनाकर्म समालोक्य भृतिं तेभ्यो विधाय चदीनान्धकृपणानां च वृत्तिं सम्यग्विचार्य च ॥२३॥आयव्ययं च विज्ञाय आयत्यभ्युदयं तदाकृषीवलानां कृत्वा तु योगक्षेमौ च जीवनं ॥२४॥दुर्भिक्षव्यसनोपेतान् विदित्वा तु परोक्षतःतेभ्यः प्रदाय स्वद्रव्यं यथायोग्यं विवर्ध्य तान् ॥२५॥स्वद्रव्यमाहरेत् तेभ्यस्सुपुष्टेभ्यस्समाहितःअवधेः पत्रिकां तेभ्यो लेखयित्वा स्वहस्ततः ॥२६॥उन्मोच्य चाधिकारिभ्यो भयात् क्षुद्रान् स्वयं नृपःपारितोषिकवस्त्राणि तेषां दत्वा यथाविधि ॥२७॥वाचा तान् भीषयित्वा तु हृदयार्द्रो महीपतिःव्यवस्थां विदधन्नेभ्यस्सामदानविचक्षणः ॥२८॥चारेभ्यश्चाधिकारिणां चरितानि विचार्य चदुष्टानां शिक्षणं कुर्याद्दंडनीतिप्रवर्तकः ॥२९॥यत्र श्यामो लोहिताक्षो दंडश्चरति पापहाप्रजास्तत्र न मुह्यंति नेता चेत्साधु पश्यति ॥३०॥अकालक्रयविक्रेयकर्तॄणां स्वार्थकामिनांप्रजाभ्यो दायकर्तॄणां स्वामिकार्यविघातिनां ॥३१॥प्रजोद्वेजनकर्तॄणामुग्रदंडेन दुःखतःगोदेवब्राह्मणस्वानां हर्तॄणां लोभदोषतः ॥३२॥राजाज्ञाप्रतिबन्दीनां राजद्रोहपरात्मनांस्वराजचरिताख्यानकर्तॄणां शत्रुराजके ॥३३सेतुभेदकराणां च चोरमोचनकारिणांराजस्वे च प्रमत्तानां राजकोशापहारिणां ॥३४॥स्वाधीनाधिकृतानां तु वेतनार्धं प्रगृह्णतांस्वयूधभेदकर्तॄणामभिचाररतात्मनां ॥३५॥अपलापप्रसक्तानां स्ववाक्ये राजसन्निधौराजस्वेऽन्यत्वकर्तॄणां तटाकारामघातिनां ॥३६॥शिक्षणार्थं चरा योज्यास्तेभ्यो विज्ञाय तत्त्वतःतेषां व्यतिक्रमं पश्चाच्छिक्षयेन्नीतिमार्गतः ॥३७॥अधिकारप्रच्यवैश्च कारागाराधिवासनैःनिगलालंबनैश्चैव राष्ट्रनिष्कासनैस्तथा ॥३८॥सर्वस्वहरणैश्चैव नीचकृत्यप्रचोदनैःप्रावारेणैकवस्त्रेण चतुष्पथनिवेशनैः ॥३९॥परिवर्तनाधिकारैश्च कायक्लेशोपपादनैःमृद्बाहैश्च कशाघातैर्विरूपकरणैस्तथा ॥४०॥एतैरन्यैर्यथाशास्त्रं शिक्षयेदधिकारिणःराज्ञा तु शिक्षितान् दृष्ट्वा ये हसेयुश्च तानपि ॥४१॥राज्ञोपहासनिंदे च राजदारान् हसंति येनीवृज्जनानमार्गस्थाञ्ज्ञात्वा संशिक्षयेन्नृपः ॥४२॥मृदुर्हि राजा सततं लघुर्भवति सर्वशःतीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत् ॥४३॥राजानं प्रथमं विन्देत्ततो भार्यां ततो धनंराजन्यसति लोकेऽस्मिन् कुतो भार्या घनं कुतः ॥४४॥आयानुकूलं कुर्वीरन् भृत्या राजहितैषिणःपश्चान्निवेदयेयुस्तदन्यथा दंडभागिनः ॥४५॥ग्रामस्वाधिपतिः कार्यो दशग्रामाधिपस्तथाविंशतीशश्शतेशश्च सहस्रेशो नृपेण तु ॥४६॥ग्रामीयान् ग्रामदोषांश्च ग्रामिकः परिपालयेत्तानाचक्षेत दशिने दशको विंशतीश्वरे ॥४७॥विंशतीशश्च तत्सर्वं वृत्तं जानपदे जनेग्रामाणां शतपालाय सर्वं वै विनिवेदयेत् ॥४८॥यानि ग्रामिकभोज्यानि ग्रामिकस्तान्युपाश्नुतेहिरण्यधान्यभागेन यतो राष्ट्रीयकस्स्मृतः ॥४९॥दशी तेन विभक्तव्यो विंशतीशस्तथा स्मृतःग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः ॥५०॥शाखानगरमर्हस्तु सहस्रपतिरुत्तमंदिक्पालासनयोग्योऽसौ शतादिग्रामनायकः ॥५१॥तेषां यद्ग्रामकृत्यं स्याद्राष्ट्रकृत्यं च यद्भवेत्धर्मज्ञस्सचिवः कश्चित्तदपेक्षेदतंद्रितः ॥५२॥नगरे नगरे च स्यादेकस्सर्वार्थचिंतकःउच्चस्थानो घोररूपो नक्षत्राणामिव ग्रहः ॥५३॥स च तान् संपरिक्रामेत् सर्वानेव सदा कृतीतेषां वृत्तिं हि गणयेत् सम्यग्राष्ट्रैस्स्वचारकैः ॥५४॥जिघांसवः पापकामाः परस्वादायिनश्शठाःतत्तद्रक्षास्वधिकृतास्तेभ्यो रक्षेदिमाः प्रजाः ॥५५॥उच्चावचाः करा न्यायाः पूर्वराज्ञां युधिष्ठिरयथा यथा न हीयेयुस्तथा कुर्यान्महीपतिः ॥५६॥ब्राह्मणेभ्यो नाददीत शुल्कं राजा तथा करंन ब्राह्मणधनस्वामी कदाचित् स्यान्नराधिपः ॥५७॥आयं तु विपुलं कुर्याद्व्ययं कुर्यात् सुसूक्ष्मकंनीवृद्यात्रां तथा भूपो लोकानुग्रहकृत् स्वयं ॥५८॥बंधयेच्च तटाकानि सरांसि स्वगृहाणि चश्रेणीवृक्षांस्तथारामान् गोपयेच्च सुमार्गकृत् ॥५९॥सन्मानं चैव कुर्वीत विद्यावृद्धद्विजातिषुअवमत्यादिभिर्दण्डैर्विप्रान् विद्यासु योजयेत् ॥६०॥अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत्पालितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥६१॥भोगं च दद्याद्विप्रेभ्यो वसूनि विविधानि चअक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादनं ॥६२॥दत्वा भूमिनिबंधं वा कृत्वा लेख्यं तु कारयेत्आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥६३॥दत्वा भूम्यादिकं राजा ताम्रपट्टेऽथवा पटेशासनं कारयेद्धर्म्यं स्थानवंशादिसंयुतं ॥६४॥स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनंपरदत्तापहारेण स्वदत्तं निष्फलं भवेत् ॥६५॥पूर्वराजकृता या तु मर्यादा जनजीविकातां न च व्यंसयेद्राजा नाशयन् निंदितो भवेत् ॥६६॥मंत्रो विजयमूलं हि राज्ञां भवति नित्यदाअतस्तु मन्त्रिभिर्मत्रं सह राजा विचिंतयेत् ॥६७॥गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतःअरण्ये निश्शलाके वा मन्त्रयेत् पृथिवीपतिः ॥६८॥निस्तंभे निर्गवाक्षे च निर्भित्त्यंतरसंश्रयेप्रासादाग्रेऽप्यरण्ये ह मन्त्रयेत्सावधानतः ॥६९॥यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाःस चिरं पृथिवीं भुंक्ते कोशहीनोऽपि पार्थिवः ॥७०॥जडान्धमूकबधिरान् काणाशौण्डाधमानपिस्त्रीम्लेछव्याधितव्यङ्गान् मन्त्रकाले विवर्जयेत् ॥७१॥उपायांश्चतुरो युंज्यात् षड्गुणानुदयांश्च त्रीन्तिस्रश्शक्तींश्च सिद्धींश्च मन्त्रयेन्मंत्रिभिस्सह ॥७२॥साम दानं च भेदश्च दण्डश्चेति चतुर्विधःउपायस्सर्वकृत्येषु प्रयोज्यो बुद्धिजीविभिः ॥७३॥साम पञ्चविधं ज्ञेयं परानुसरणं तथापरस्परोपकारश्च तदीयगुणकीर्तनं ॥७४॥बंधुत्वज्ञापनं स्वात्मसमर्पणमितीव चएवं पंचविधं ज्ञात्वा समासव्यासतस्सुखी ॥७५॥दानं पञ्चविधं प्राहुस्स्वधनस्य समर्पणंअन्यद्रव्यग्रहामोदोऽपूर्ववस्तुप्रदानकं ॥७६॥परद्रव्ये प्रेरणं च ऋणमोचनमेव चस्वदौर्बल्ये प्रयोगोऽस्य शत्रुपक्षे स्वयं विधिः ॥७७॥भेदस्त्रिधा अन्यतरस्नेहसंपादनं पुरापरस्परं मित्रभेदस्तथा संतर्जनं परं ॥७८॥दण्डस्त्रिधार्थहरणं परिक्लेशस्तथैव चदेहसंशिक्षणं चेति दण्डभेदाः प्रकीर्तिताः ॥७९॥तदात्वायतिसंयुक्तस्संधिर्ज्ञेयो द्विलक्षणःराज्ञा कृतश्च कार्यार्थमकाले काल एव वा ॥८०मित्रेण चैव विकृते द्विविधो विग्रहस्स्मृतः ॥८१॥एकाकी वाच्यैककारिकार्ये प्राप्ते यदृच्छयासंभूय चैव मित्रेण द्विविधं यानमुच्यते ॥८२॥क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वामित्रस्य चानुरोधेन द्विविधं कृतमानसं ॥८३॥बलस्य स्वामिनश्चैव स्थितिकार्यस्य सिद्धयेद्विविधं कीर्त्यते द्वैधं तद्गुणागुणवेदिभिःयदावगतं न्यूनत्वमाधिक्यं ध्रुवमात्मनः ॥८४॥अर्थसंपीडनार्थं च पीड्यमानस्य शत्रुभिःसाधुभिर्व्यपदेशार्थो द्विविधस्तु समाश्रयः ॥८५॥क्षयस्स्थानं च वृद्धिश्चेत्युदयस्त्रिविधस्स्मृतःप्रभुमंत्रोत्साहभेदाच्छक्तिस्तु त्रिविधा मता ॥८६॥तत्साध्यसिद्धयस्तिस्रस्तेषु भेदा बहु स्मृताःएतद्धि नीतिसर्वस्वं भूप किं विस्तरेण ते ॥८७॥एवं सर्वमिदं राजा सह संमंत्र्य मंत्रिभिःमध्याह्नेऽर्थागमं कृत्वा भोक्तुमन्तःपुरं व्रजेत् ॥८८॥सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैःभुक्त्वा संविहरेच्चैव स्त्रीभिरन्तःपुरे सह ॥८९॥धर्मशास्त्रपुराणानि ह्यपराह्णे समभ्यसेत्संध्यां चोपास्य विधिवदग्निं हुत्वा समाहितः ॥९०॥भुक्त्वा भागवतं शास्त्रं पठित्वा ध्यानसंयुतःसंविशेच्च यथाकालमुत्तिष्ठेद्विगतक्लमः ॥९१॥एवंवृत्तस्य नृपतेर्नीतिमार्गानुसारिणःधर्मार्थकाममोक्षाश्च सिध्येयुर्नात्र संशयः ॥९२॥पृथुमेवं प्रशास्यैव ब्रह्मा लोकगुरुस्त्वयंतत्रैवान्तर्दधे देवो दैवतैस्सहितस्तथा ॥९३॥वैन्योऽपि तत् तथा चक्रे ब्रह्मप्रोक्तं पुरातनंभुक्त्वा ससागरामुर्वीमन्ते ब्रह्म जगाम हा ॥९४॥पारीक्षित त्वमप्येवं कृत्वा सौख्यं भविष्यसिख्यातिं च लोके संस्थाप्य परां गतिमवाप्स्यसि ॥९५॥यावत्कीर्तिर्मनुष्यस्य लोकेषु विचरिष्यतितावद्वर्षसहस्राणि ब्रह्मलोके महीयते ॥९६॥पठेच्च य इदं काव्यं शृणुयाद्वा समाहितःब्राह्मणः क्षत्रियो राजा विशेषेण नराधिपः ॥९७॥वैश्यो वा शूद्रजातीयस्स्त्रियो राजपरिग्रहाःते कीर्तिमन्तो भूत्वेह परत्र गतिमाप्नुयुः ॥९८॥नीतिशास्त्रमिदं प्रोक्तं मया ते जनमेजयसंक्षेपेण गमिष्यामि यत्र व्यासो गुरुर्मम ॥९९॥वैशंपायन इत्युक्त्वा तत्रैव स जगाम हपारीक्षितोऽपि मुमुदे सुनीत्या पालयन् प्रजाः ॥१००॥इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां राजव्यापारकथनं नामाष्टमोऽध्यायःनीतिप्रकाशिका समाप्ता N/A References : N/A Last Updated : February 13, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP