नीतिप्रकाशिका - तृतीयोऽध्यायः

महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे


लोकनाथ नमस्तेऽस्तु सर्वाश्चर्याश्रय प्रभो

उत्पादितो मया खड्गः पूर्वमित्युदितं त्वया ॥१॥

खड्गः कदा हि जनितस्त्वया केनेह हेतुना

कस्त्वत्सकाशात्प्रथममग्रहीदसिमुत्तमं ॥२॥

परंपरा तु का तस्य भूलोकप्रापणी विभो

पूर्वाचार्यं च खड्गस्य मम ब्रूहि पितामह ॥३॥

स तद्वचस्समाकर्ण्य प्रोवाचेदं पितामहः

यत्र येन निमित्तेन यथासौ जनितः पुरा ॥४॥

वेनपुत्र प्रवक्ष्यामि खड्गसंभवमुत्तमं

सावधानमनाश्श्रुत्वा सर्वत्र जयमाप्स्यसि ॥५॥

विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु

खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुं ॥६॥

शरासनधरांश्चैव गदाशक्तिधरांस्तथा

एकः खड्गधरो वीरस्समर्थः प्रतिबाधितुं ॥७॥

आयुधेभ्यो वरः खड्गस्तस्माल्लोकेषु विश्रुतः

मया सृष्टः पुरा राजन् कस्मिंश्चित् कारणांतरे ॥८॥

हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः

शंबरो विप्रचित्तिश्च प्रह्लादो नमुचिर्बलिः ॥९॥

एतेचान्ये च बहवस्सगणा दैत्यदानवाः

धर्मसेतुमतिक्रम्य देवैर्योद्धुमुपाक्रमन् ॥१०॥

तदा हिमवतश्शृंगे नानाधातुविराजिते

शतयोजनविस्तारे पुष्पितद्रुमकानने ॥११॥

यज्ञं ह्यकरवं तत्र सर्वलोकार्थसिद्धये

ततो वर्षसहस्रान्ते त्वद्भुतं समजायत ॥१२॥

नभोऽग्निज्वालयोद्भास्य द्योतयज्जगतीतलं

विकीर्याग्निं तथा भूतमुत्थितं चाग्निकुण्डतः ॥१३॥

नीलोत्पलसवर्णं तत् तीक्ष्णदंष्ट्रं कृशोदरं

सुप्रांशु दुर्धर्षतरं ज्वालमालासमाकुलं ॥१४॥

रक्ताक्षं क्रूरनिर्ह्रादं सर्वप्राणिभयंकरं

स्वतेजसातिरौद्रेण द्रष्टुर्दृष्टिविलोपकं ॥१५॥

तस्मिन्नुत्पतमाने च प्रचंचाल वसुंधरा

महोर्मिकलिलावर्तश्चुक्षुभे स महोदधिः ॥१६॥

पेतुरुल्का दिवो घोराश्शाखाश्च मुमुचुर्द्रुमाः

तद्दृष्ट्वा सर्वभूतानि प्राव्यधंत मुहुर्मुहुः ॥१७॥

महर्षिसुरगंधर्वानब्रुवं भयविह्वलान्

मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान् ॥१८॥

रक्षणार्थाय लोकस्य वधाय च सुरद्विषां

तनस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ॥१९॥

विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः

पञ्चाशदंगुल्युत्सेधश्चतुरंगुलिविस्तृतः ॥२०॥

ततस्त्वृषभकेतोस्स हस्ते दत्तो मया ह्यसिः

राक्षसान्तकरस्तीक्ष्णस्तदाधर्मनिवारकः ॥२१॥

तमुद्धृत्य महादेवस्सर्वशत्रुभयंकरं

त्रिकूटं चर्म चोद्यम्य सविद्युतमिवांबुदं ॥२२॥

चचार विविधान् मार्गान् महाबलपराक्रमः

छिन्दन् भिन्दन् रुजन् कृन्तन् दारयन् पोथयन्नरीन् ॥२३॥

द्वात्रिंशत् करणानि स्युर्यानि खड्गप्रयोधने

चित्रशीघ्रपदं तानि दैत्यसंघे ह्यदर्शयत् ॥२४॥

भ्रान्तमुद्भ्रान्तमाविद्धमाल्पुतं विल्पुतं सृतं

संयान्तं समुदीर्णं च निग्रहप्रग्रहौ तथा ॥२५॥

पादावकर्षसन्धाने शिरोभुजपरिभ्रमौ

पाशपादविबन्धाश्च भूम्युद्भ्रमणके तथा ॥२६॥

गतप्रत्यागताक्षेपाः पातनोत्थानके प्लुतं

लाघवं सौष्ठवं शोभा स्थिरत्वं दृढमुष्टिता ॥२७॥

तिर्यगूर्ध्वप्रचरणे द्वात्रिंशत् करणान्यहो

विजित्य दानवान् संख्ये हृष्टो रुद्रो बभूव ह ॥२८॥

ततस्तु भगवान् रुद्रो विष्णुं दृष्ट्वा समीपगं

सत्कृत्य धर्मगोप्तारमसिं तस्मै ददौ मुदा ॥२९॥

विष्णुर्मरीचये प्रादान्मरीचिर्भगवानपि

महर्षिभ्यो ददौ खड्गमृषभो वासवाय च ॥३०॥

महेन्द्रो लोकपालेभ्यो लोकपाला ददुश्च तं

मनवे सूर्यपुत्राय ततस्ते तमथाब्रुवन् ॥३१॥

धर्मसेतुमतिक्रान्तान् लोके धर्मार्थकारणात्

असिना धर्मगर्भेण शिक्षयस्व प्रजापते ॥३२॥

स तथेति प्रतिश्रुत्य गृहीत्वा खढ्गमुत्तमं

लोके प्रवर्तयामास राजधारामुखेन वै ॥३३॥

त्वमप्येतमसिं मत्तो गृहाण नृपसत्तम

पालयस्व च धर्मेण प्रजाः पुत्रानिवौरसान् ॥३४॥

कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च देवता

रोहिणी गोत्रमप्यस्य रुद्रस्तस्याधिदैवतं ॥३५॥

असेरष्टौ हि नामानि रहस्यानि निबोध मे

असिर्विशसनः खड्गस्तीक्ष्णधर्मा दुरासदः ॥३६॥

श्रीगर्भो विजयश्चैव धर्ममालस्तथैव च

अग्र्यः प्रहरणानां च रुद्रेणैवं समीरितः ॥३७॥

असेश्च पूजा कर्तव्या सदा युद्धविशारदैः

जयं कीर्तिं लभंते ते येऽसिं संपूजयन्ति वै ॥३८॥

कथेयं कथिता तुभ्यं खड्गमाहात्म्यसंयुता

न कस्यचिन्मया प्रोक्ता किं भूयश्श्रोतुमिच्छसि ॥३९॥

जिगीषवोऽरीन् राजानस्त्वभिषेणनकौतुकाः

ये पठेयुरिमं जय्यं जयं युद्धे लभंति ते ॥४०

इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां खड्गोत्पत्तिकथनं नाम तृतीयोऽध्यायः

N/A

References : N/A
Last Updated : February 13, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP