नीतिप्रकाशिका - प्रथमोऽध्यायः
महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे
श्रीमद्गजाननं वाणीं नत्वा ब्रह्मादिसद्गुरून्
नीतिप्रकाशिका सेयं तन्यते ह्यादरान्मया ॥१॥
श्रीमत्तक्षशिलायां तु सूपविष्टं वरासने
जनमेजयभूपालं द्रष्टुकामो महातपाः ॥२॥
वैशंपायननामा तु महर्षिस्संशितव्रतः
अभ्यागात् सहितश्शिष्यैर्व्यासशिष्यो महामुनिः ॥३॥
तमायांतमृषिं श्रुत्वा जनमेजयभूपतिः
प्रत्युज्जगाम सहसा सह मंत्रिपुरोहितैः ॥४॥
पाद्यमर्घ्यं तथा गां च मधुपर्कं विधाय च
तस्मै प्रोवाच कुशलं प्रहृष्टेनान्तरात्मना ॥५॥
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे दर्शनमागतः
तारिताः पितरस्सर्वे पालितोऽहं त्वया मुने ॥६॥
इत्युक्तवन्तं राजानं प्रयुयोजाशिषश्शुभाः
धर्मे ते रमतां बुद्धिरित्युक्त्वागात्सभां ततः ॥७॥
उपविष्टे मुनौ तस्मिन् भद्रपीठे नृपोत्तमः
परिवृत्यासनाभ्याशे कृतांजलिरुपाविशत् ॥८॥
कथान्तरमथासाद्य जनमेजयभूपतिः
प्रणम्य तमृषिं भक्त्या कृतांजलिरभाषत ॥९॥
राजधर्माः कृतास्सर्वे भारतीयास्त्वयोदिताः
हृदि मे संशयः कश्चित् तं भवाञ्छेत्तुमर्हति ॥१०॥
इतश्चानुदिनं धर्मस्सत्यं शौचं क्षमा दया
कालेन कलिना ब्रह्मन् क्षरत्यायुर्बलं स्मृतिः ॥११॥
वित्तमेव कलौ नॄणां जन्माचारगुणोदयः
धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥१२॥
दांपत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके
स्त्रीपुंस्त्वे कौशलरतिर्विप्रत्वे सूत्रमेव च ॥१३॥
लिंगमेवाश्रमख्यातौ अन्योऽन्यापत्तिकारणं
अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥१४॥
असाध्यतैव साधुत्वे स्नानमेव प्रसाधनं
स्वीकार एव चोद्वाहे लावण्ये केशधारणं ॥१५॥
उदरंभरिता स्वार्थः यशोऽर्थे धर्मसेवनं
दाक्ष्यं कुटुंबभरणे सत्यत्वे धार्ष्ट्यमेव हि ॥१६॥
शूद्रप्रायेषु वर्णेषु छागप्रायासु धेनुषु
पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ॥१७॥
कथं तेषामियं नीतिर्विस्तृता वशमेष्यति
धनुर्वेदविवेकश्च शस्त्रास्त्रज्ञानमेव च ॥१८॥
इति तद्वचनं श्रुत्वा हृदयज्ञो महानृषिः
अर्थोपहितया वाचा राजानमिदमब्रवीत् ॥१९॥
इङ्गितं ते मया ज्ञातं सूक्ष्मनीतिप्रबोधने
लब्धानुयोगः प्रब्रूयाच्छास्त्रं नो चेदधी भवेत् ॥२०॥
ब्रह्मा महेश्वरस्स्कन्दश्चेन्द्रः प्राचेतसो मनुः
बृहस्पतिश्च शुक्रश्च भारद्वाजो महातपाः ॥२१॥
वेदव्यासश्च भगवान् तथा गौरशिरा मुनिः
एते हि राजशास्त्राणां प्रणेतारः परंतपाः ॥२२॥
लक्षाध्यायां जगौ ब्रह्मा राजशास्त्रे महामतिः
पञ्चाशच्च सहस्राणि रुद्रस्संक्षिप्य चाब्रवीत् ॥२३॥
पञ्चविंशत्सहस्राणि स्कन्दस्संक्षिप्य चावदत्
दशाध्यायसहस्राणि द्विसहस्रे च वासवः ॥२४॥
प्राचेतसमनुश्चापि षट्सहस्राण्यथाब्रवीत्
त्रीण्यध्यायसहस्राणि बृहस्पतिरुवाच ह ॥२५॥
काव्यस्तु तत् समालोड्य चक्रेऽध्यायसहस्रकं
सप्ताध्यायशतं शास्त्रं भारद्वाजस्तथाभणत् ॥२६॥
मुनिर्गौरशिराश्चापि पञ्चाध्यायशतं जगौ
वेदव्यासस्तु भगवांस्तत् संक्षिप्य महामतिः ॥२७॥
शतत्रयाध्यायवतीं नीतिं चक्रे महामते
संक्षिप्तमायुर्विज्ञाय मर्त्यानां बुद्धिदोषतः ॥२८॥
तल्लक्षणोद्देशमात्रं मया तव निवेद्यते
सावधानमना भूत्वा राजशास्त्रं निबोध मे ॥२९॥
पृथुर्वैन्यः प्रजा रक्षन्मृत्युं जित्वा पुरा किल
क्षतत्राणात् प्रजास्तं तु क्षत्रियं चाब्रुवंस्तथा ॥३०॥
नामापि तस्य राजेति प्रजारागादजायत
अकृष्टपच्या पृथिवी चासीद्वैन्यस्य कामधुक् ॥३१॥
आसन्हिरण्मया दर्भास्सुखस्पर्शा मनोहराः
तेषां वीरैस्सुसंवीताः प्रजास्तेष्वेव शेरते ॥३२॥
प्रविभागो न राष्ट्राणां पुराणां चाभवत् तदा
यत्र यत्र प्रजा आसंस्तत्र दोग्ध्री मही सुखं ॥३३॥
तेन संस्तंभिता ह्यापस्समुद्रमभियास्यता
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥३४॥
षष्टिं नागसहस्राणि षष्टिं नगशतानि च
सौवर्णान्यकरोद्राजा ब्राह्मणेभ्यश्च तान्यदात् ॥३५॥
इमां च पृथिवीं सर्वां मणिरत्नविभूषितां
सौवर्णामकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ ॥३६॥
एतानन्यान् गुणान् बुध्वा तस्य राज्ञश्चतुर्मुखः
आत्मानं दर्शयामास वरदोऽस्मीति चाब्रवीत् ॥३७॥
ब्रह्माणं च ततो दृष्ट्वा श्रुत्वा चैव स तद्वचः
पृथुः परमसंहृष्टो वव्रे तं वरमुत्तमं ॥३८॥
चतुष्पाच्च धनुर्वेदस्सांगोपाङ्गरहस्यकः
शस्त्रास्त्रभूषितो मह्यं प्रदेयस्तु त्वया भवेत् ॥३९॥
आत्मानं परमं मन्ये लोकेभ्यो लोकपूजित
यस्य मे दर्शनं प्राप्तो भवान् वेदमयो निधिः ॥४०॥
इत्युक्त्वानन्ददुग्धाब्धौ मज्जयानं पृथुं तदा
प्रोज्जहार जगत्स्रष्टा वाचाथ प्लवरूपया ॥४१॥
दिष्ट्या ते बद्धिरुत्पन्ना धनुर्वेदपरिग्रहे
अहमप्येतदेव त्वां वक्तुकाम इहागतः ॥४२॥
असिः पूर्वं मया सृष्टो दुष्टनिग्रहकारणात्
भवादृशसमीपस्थो लोकांछिक्षञ्चरत्यसौ ॥४३॥
धनुराद्यायुधव्यक्तौ त्वमेवादिस्स्मृतो मया
तस्माच्छस्त्राणि चास्त्राणि ददानि तव पुत्रक ॥४४॥
भृशाश्वो मानसः पुत्रो द्वे जाये तस्य संमते
जया च सुप्रभा चैव दक्षकन्ये महामती ॥४५॥
जया लब्धवरा मत्तो शस्त्राण्यस्त्राण्यसूत वै
पञ्चाशदपरा चापि तावत्पुत्रानजीजनत् ॥४६॥
संहारान् नाम दुर्द्धर्षान् दुराक्रामान् बलीयसः
मन्त्रदैवतसंयोगाच्छस्त्राण्यस्त्रत्वमाप्नुवन् ॥४७॥
मत्सकाशाद्धनुर्वेदं प्रगृह्य जयतां वर
सर्वाः पालय धर्मेण प्रजाः पुत्रानिवौरसान् ॥४८॥
सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित्
षाड्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः ॥४९॥
वृतो राजगुणैष्षड्भिस्सप्तोपायांस्तदाचर
बलाबलेन सम्यक् त्वं समीक्षस्व चतुर्दश ॥५०॥
अथ स्वात्मानमन्वीक्ष्य परांश्च रिपुसूदन
तथा सन्धाय कर्माणि सेवस्वाष्टौ सदा नृप ॥५१॥
भवानष्टादशान्येषु स्वपक्षे दश पंच च
त्रिभिस्त्रिभिरभिज्ञातैर्वेत्ति तीर्थानि चारकैः ॥५२॥
तथा व्यसनिनं शत्रुं निशम्य नृपसत्तम
अभियाहि जवेनैव समीक्ष्य त्रिविधं बलं ॥५३॥
धृत्वा यात्रामारभस्व प्राप्तकालमरिन्दम
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयं ॥५४॥
स्वमूलं तु दृढं कृत्वा परान् याहि विशां पते
विक्रमस्व विजेतुं तं जित्वा च परिपालय ॥५५॥
दृढमष्टांगसंयुक्ता चतुर्विधबला चमूः
बलमुख्यैस्सुनीता ते द्विषतां प्रतिवर्धनी ॥५६॥
इत्येवमनुशास्यैनं ब्रह्मा लोकगुरुः पुनः
धनुर्वेदं ग्राहयितुं वक्तुमेवोपचक्रमे ॥५७॥
इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां संगतिप्रदर्शनपूर्वकराजधर्मोपदेशो नाम प्रथमो ऽध्यायः
स्रोत
N/A
References : N/A
Last Updated : February 13, 2026

TOP