संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|नीतिप्रकाशिका| द्वितीयोऽध्यायः नीतिप्रकाशिका परिचय प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नीतिप्रकाशिका - द्वितीयोऽध्यायः महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे Tags : nitiprakashikavaishanpayanनीतिप्रकाशिकावैशंपायन द्वितीयोऽध्यायः Translation - भाषांतर चतुष्पाच्च धनुर्वेदो रक्तवर्णश्चतुर्मुखःअष्टबाहुस्त्रिणेत्रश्च सांख्यायनसगोत्रवान् ॥१॥वज्रं खड्गो धनुश्चक्रं दक्षबाहुचतुष्टयेशतघ्नी च गदाशूलपट्टिशा वामबाहुषु ॥२॥प्रयोगकोटीरयुतो नीत्यंगो मंत्रकंचुकःउपसंहारहृदयो शस्त्रास्त्रोभयकुण्डलः ॥३॥अनेकवल्गिताकारभूषणः पिंगलेक्षणःजयमालापरिवृतो वृषारूढस्स उच्यते ॥४॥एतन्मंत्रं प्रवक्ष्यामि वैरिजालनिकृन्तनंआत्मसैन्यस्वपक्षाणामात्मनश्चाभिरक्षकं ॥५॥आदौ प्रणवमुच्चार्य नम इत्यक्षरे ततःवतेति भगपूर्वं धं धनुर्वेदाय चोच्चरेत् ॥६॥मां रक्ष रक्षेत्युच्चार्य मम शत्रूनथो वदेत्भक्षयेति द्विरुच्चार्य हुं फट् स्वाहेत्यथोच्चरेत् ॥७॥अहमेव ऋषिश्चास्य गायत्री छन्द उच्यतेमहेश्वरो देवतास्य विनियोगोऽरिनिग्रहे ॥८॥द्वात्रिंशद्वर्णकमनुं वर्णसंख्यासहस्रकैःजपित्वा सिद्धिमाप्नोति रिपूंश्चाप्यधितिष्ठति ॥९॥सत्यं सत्यं पुनस्सत्यं त्रिर्वदामीह वेनजधनुर्वेदस्य विवृतिमथाख्यास्ये निबोध मे ॥१०॥मुक्तं चैव ह्यमुक्तं च मुक्तामुक्तमतः परंमंत्रमुक्तं च चत्वारि धनुर्वेदपदानि वै ॥११॥मुक्तं बाणादि विज्ञेयं खड्गादिकममुक्तकंसोपसंहारमस्त्रं तु मुक्तामुक्तमुदाहृतं ॥१२॥उपसंहाररहितं मंत्रमुक्तमिहोच्यतेचतुर्भिरेभिः पादैस्तु धनुर्वेदः प्रकाशते ॥१३॥शस्त्रमस्त्रं च प्रत्यस्त्रं परमास्त्रमितीव चचातुर्विध्यं धनुर्वेदे केचिदाहुर्धनुर्विदः ॥१४॥आदानं चैव संधानं विमोक्षस्संहृतिस्तथाधनुर्वेदश्चतुर्धेति वदन्तीति परे जगुः ॥१५॥तत्राद्यं मतमालम्ब्य मुक्तामुक्तायुधान्यहंद्वात्रिंशद्भेदतो वच्मि तत्रायं विस्तृतिक्रमः ॥१६॥धनुरिषुर्भिण्डिवालश्शक्तिद्रुघणतोमराःनलिका लगुडः पाशश्चक्रं वै दंतकंटकः ॥१७॥मुसुंडीति द्वादशैते मुक्तभेदाः प्रकीर्तिताःधनुर्वेदस्याद्यपादस्तवायं कथितो नृप ॥१८॥वज्रमीली च परशुर्गोशीर्षमसिधेनुकालवित्रमास्तरः कुंतस्स्थूणः प्रासः पिनाककः ॥१९॥गदा मुद्गरसीराश्च मुसलः पट्टिशं तथामौष्टिकं परिधश्चैव मयूखी च शतघ्निका ॥२०॥अमुक्ता विंशतिरिमे द्वितीयः पाद उच्यतेमुक्तामुक्तानि शस्त्राणि द्वात्रिंशद्गणितानि ते ॥२१॥दंडचक्रं धर्मचक्रं कालचक्रं तथैव चऐन्द्रं चक्रं शूलवतं ब्रह्मशीर्षं च मोदकी ॥२२॥शिखरी धर्मपाशं च तथा वरुणपाशकंपैनाकास्त्रं च वायव्यं शुष्कार्द्रे शिखरास्त्रकं ॥२३॥क्रौञ्चास्त्रं हयशीर्षं च विद्याविद्येऽस्त्रसंज्ञिकेगांधर्वास्त्रं नन्दनास्त्रं वर्षणं शोषणं तथा ॥२४॥प्रस्वापनप्रशमने संतापनविलापनेमदनं मानवास्त्रं च नामनं तामसं तथा ॥२५॥संवर्तं मौसलं सत्यं सौरं मायास्त्रमेव चत्वाष्ट्रमस्त्रं च सोमास्त्रं संहारं मानसं तथा ॥२६॥नागास्त्रं गारुडास्त्रं च शैवेषीकेऽस्त्रसंज्ञिकेचतुश्चत्वारि चैतानि सोपसंहारकाणि वै ॥२७॥वक्ष्यामि चोपसंहारान् क्रमप्राप्तान् निबोध मेयाञ्ज्ञात्वा वैरिमुक्तानि चास्त्राणि शमयिष्यसि ॥२८॥सत्यवान् सत्यकीर्तिश्च रभसो दृष्ट एव चप्रतिहारतरश्चैवाप्यवाङ्मुखपराङ्मुखौ ॥२९॥दृढनाभोऽलक्ष्यलक्ष्यावाविलश्च सुनाभकःदशाक्षश्शतवक्त्रश्च दशशीर्षशतोदरौ ॥३०॥धर्मनाभो महानाभो दुंधुनाभस्तु नाभकःज्योतिषविमलकुलश्चैव नैरास्यकृशनावुभौ ॥३१॥योगंधरस्सनिद्रश्च दैत्यः प्रमथनस्तथासार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥३२॥पित्र्यस्सौमनसश्चैव विधूतमकरौ तथाकरवीरो धनरती धान्यं वै कामरूपकः ॥३३॥जृंभका वरणाश्चैव मोहः कामरुचिस्तथावरुणस्सर्वदमनस्संधानस्सर्वनाभकः ॥३४॥कंकालास्त्रं मौसलास्त्रं कापालास्त्रं च कंकणंपैशाचास्त्रं चेति पंचाप्यसुरास्त्राणि भूपते ॥३५॥सत्यवान् सर्वदमनः कामरूपस्तथैव चयोगंधरोऽप्यलक्ष्यश्चाप्यसुरास्त्रविघातकाः ॥३६॥चतुश्चत्वारिंशदेते पञ्चान्येऽन्यविमर्दनाःमेलयित्वा च पंचाशदेकोना ह्यस्त्रनामकाः ॥३७॥सर्वमोचननामा तु सुप्रभातनयो महान्मुक्तामुक्ताखिलशमो मद्वरात्प्रथितः परः ॥३८॥अयं तृतीयपादस्स्याद्धनुर्वेदस्य भूपतेमन्त्रमुक्तं चापि वक्ष्ये सावधानमनाश्शृणु ॥३९॥विष्णुचक्रं वज्रमस्त्रं ब्रह्मास्त्रं कालपाशकंनारायणं पाशुपतं नाशाम्यमितरास्त्रकैः ॥४०॥स्वान्यसंहारकाभावान्मंत्रमुक्तान्यमूनि षट्अयं चतुर्थपादस्स्याद्धनुर्वेदस्य संमतः ॥४१॥शृणु चाप्यपरं भूयो विशेषं वच्मि तेऽनघपुरा दैवासुरे युद्धे निर्जिता दानवैस्सुराः ॥४२॥धनुर्वेदाविशेषज्ञाः पलायनपरायणाःदधीचिमृषिमालोक्य तस्मै दत्वायुधानि ते ॥४३॥मन्दरं पर्वतश्रेष्ठं वस्तुकामा द्रुतं ययुःते तत्रोषुर्बहूनब्दानिन्द्रमुख्या भयात् सुराः ॥४४॥दधीचिरपि तान् हृत्वा दैतेयेभ्यो ह्यरक्षतशल्यभूतानि तस्यर्षेरायुधानि तपोबलात् ॥४५॥अथ मां शरणं प्राप्ता देवास्सेन्द्रपुरोगमाःपराजिता विलीनाश्च मंदरे भयविह्वलाः ॥४६॥अथाददां धनुर्वेदं देवेभ्यस्सरहस्यकंचतुष्पादयुतं सांगं तेषामनुजिघृक्षया ॥४७॥अथ लब्धवरा मत्तो योद्धुं दैतेयसत्तमान्दधीचिं प्रस्थिता दृष्ट्वा तान्ययाचन्त संगताः ॥४८॥आयुधापेक्षिणां श्रुत्वा वचनमृषिसत्तमःशल्यभूतानि संचिंत्य कृपार्द्रो तानथाब्रवीत् ॥४९॥साधनान्यस्थिभूतानि मम देहे दिवौकसःगोजिह्वया लेहयित्वा विंशसित्वायुधानि वः ॥५०॥मदंगात् तान्युपादाय जयध्वं युधि शात्रवान्मम चैवं वधो दृष्टो नात्र कार्या विचारणा ॥५१॥देवोपयोगिनं देहमिमं कृत्वा दिवं व्रजेयूयं स्वकार्यं संसाद्य मम लोकान् प्रयच्छत ॥५२॥ते तस्य वचनं श्रुत्वा तथा चक्रुर्दिवौकसःआत्मकार्यगरीयस्त्वात् तत्कार्यं प्रतिपेदिरे ॥५३॥गोमुखं ब्रह्महत्यापि विवेश नृपसत्तमदेवसन्तोषणाल्लोकाञ्छाश्वतान् स ऋषिर्ययौ ॥५४॥तदाप्रभृति लोका वै न पश्यन्तीह गोमुखंप्रातः पुरुषशार्दूल तद्दोषगतमानसाः ॥५५॥एकत्रिंशच्च कंकालास्सा चैका च कशेरुकाद्वात्रिंशन्निर्गता देहात्तस्यर्षेस्सुमहात्मनः ॥५६॥यद्यदंगाश्रितं चास्थि यद्यद्रूपमगान्मुनेःतत्तदस्थ्युद्गतं शस्त्रं तत्तदाकारकं ह्यभूत् ॥५७॥तीक्ष्णस्वभावाद्गर्वाच्च दधीचिमुपताप्य तुतद्रक्षितान्यायुधानि तेन शल्यीकृतानि वै ॥५८॥शस्त्राणि लोके द्वात्रिंशत् प्रचरिष्यन्ति पार्थिवकशेरुकोद्गतं वज्रमिन्द्रहस्तगतं विना ॥५९॥धनुर्वेदस्य माहात्म्यान्निर्जिता दानवास्सुरैःभूलोके त्वावधिं कृत्वा धनुरादि चरिष्यति ॥६०॥धनुर्वेदविदं त्वां तु समाश्रित्य नृपोत्तमाःनीतिमन्तो भविष्यन्ति मत्प्रसादान्न संशयः ॥६१॥इत्येतत्कथितं वत्स माहात्म्यं वेदसंमितंशस्त्रोत्पत्तिश्च कथिता किं भूयश्श्रोतुमिच्छसि ॥६२॥धनुर्वेदस्योपदेशमिमं योऽधिगमिष्यतित्वत्कृते मत्कृतं सोऽथ सर्वान् कामानवाप्नुयात् ॥६३॥पारीक्षित महाबुद्धिः पृथुश्श्रुत्वा विधेर्वचःहृदयस्थं ततो भावं द्रष्टुं समुपचक्रमे ॥६४इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां धनुर्वेदविवेककथनं नाम द्वितीयोऽध्यायः N/A References : N/A Last Updated : February 13, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP