संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|नीतिप्रकाशिका| पञ्चमोऽध्यायः नीतिप्रकाशिका परिचय प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नीतिप्रकाशिका - पञ्चमोऽध्यायः महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे Tags : nitiprakashikavaishanpayanनीतिप्रकाशिकावैशंपायन पञ्चमोऽध्यायः Translation - भाषांतर अमुक्तप्रथमं वज्रं वक्ष्यामि तव तच्छृणुअप्रमेयबलं वज्रं कामरूपधरं च तत् ॥१॥दधीचिपृष्ठास्थिजन्यं सर्वतेजःप्रशामकंवृत्रासुरनिपातार्थं दैवतेजोपबृंहितं ॥२॥कोटिसूर्यप्रतीकाशं प्रलयानलसन्निमंयोजनोत्सेधदंष्ट्राभिर्जिह्वया चातिधोरया ॥३॥कालरात्रिनिकाशं तच्छतपर्वसमावृतंपञ्चयोजनविस्तारमुन्नतं दशयोजनं ॥४॥असिमण्डलसंवीतं परितस्तीक्ष्णकोटिमत्तटिद्गौरं च पृथुना त्सरुणा च विराजितं ॥५॥चालनं धूननं चैव छेदनं भेदनं तथावल्गितानि च चत्वारि सदा वज्रं श्रितानि वै ॥६॥ईली हस्तद्वयोत्सेधा करत्ररहितत्सरुःश्यामा भुग्नाग्रफलका पंचांगुलिसुविस्तृता ॥७॥संपातं समुदीर्णं च निग्रहप्रग्रहौ तथाइलीमेतानि चत्वारि वल्गितानि श्रितानि वै ॥८॥परशुस्सूक्ष्मयष्टिस्स्याद्विशालास्यः पुरोमुखःअर्धचंद्राग्रकोटिस्तु मलिनाङ्गस्स्फुरन्मुखः ॥९॥त्सरुपादस्सशिखरो बाहुमात्रोन्नताकृतिःपातनं छेदनं चेति गुणौ परशुमाश्रितौ ॥१०॥गोशीर्षं गोशिरःप्रख्यं प्रसारितपदद्वयंअधस्ताद्दारुयन्त्राढ्यमूर्ध्वायःफलकांचितं ॥११॥नीललोहितवर्णं तत्त्रिरश्रि च सुसत्त्सरुषोडशांगुल्युन्नतं च तीक्ष्णाग्रं पृथुमध्यकं ॥१२॥सत्कृत्य मनवे दत्तं महेन्द्रेण समुद्रिकंप्रभुत्वसूचके लोके राज्ञां गोशीर्षमुद्रिके ॥१३॥मुष्टिग्रहः परिक्षेपः परिधिः परिकुन्तनंचत्वार्येतानि गोशीर्षे वल्गितानि प्रचक्षते ॥१४॥असिधेंनुस्समाख्याता हस्तौन्नत्यप्रमाणतःअतलत्रत्सरुयुता श्यामा कोटित्रयाश्रिता ॥१५॥अंगुलिद्वयविस्तीर्णा ह्यासन्नरिपुघातिनीमेखलाग्रथिनी सा तु प्रोच्यते खड्गपुत्रिका ॥१६॥मुष्ट्यग्रग्रहणं चैव पाटनं कुंतनं तथावल्गितत्रयवत्येषा सदा धार्या नृपोत्तमैः ॥१७॥लवित्रं भुग्रकायं स्यात् पृष्ठे गुरु पुरश्शितंश्यामं पंचांगुलिव्यामं सार्धहस्तसमुन्नतं ॥१८॥त्सरुणा गुरुणा नद्धं महिषादिनिकर्तनंबाहुद्वयोद्यमक्षेपौ लवित्रे वल्गिते मते ॥१९॥आस्तरो ग्रंथिपादस्स्याद्दीर्घमौलिर्बृहत्करःभुग्नहस्तोदरशिरश्श्यामवर्णो द्विहस्तकः ॥२०॥भ्रामणं कर्षणं चैव त्रोटनं तत् त्रिवल्गितंज्ञात्वा शत्रून् रणे हन्याद्धार्यस्सादिपदातिकैः ॥२१॥कुंन्तस्त्वयोमयांगस्स्यात् तीक्ष्णशृङ्गष्षडश्रिमान्पंचहस्तसमुत्सेधो वृत्तपादो भयंकरः ॥२२॥उड्ढीनमवडीनं च निडीनं भूमिलीनकंतिर्यग्लीनं निखातं च षण्मार्गाः कुन्तमाश्रिताः ॥२३॥स्थूणस्तु रक्तदेहृस्स्यात् समीपदृढपर्वकःपुंप्रमाण ऋजुस्तस्मिन् भ्रमणं पातनं द्वयं ॥२४॥प्रासस्तु सप्तहस्तस्स्यादौन्नत्येन तु वैणवःलोहशीर्षस्तीक्ष्णपादः कौशेयस्तबकांचितः ॥२५॥आकर्षश्च विकर्षाश्च धूननं वेधनं तथाचतस्र एता गतयो रक्तप्रासं समाश्रिताः ॥२६॥पिनाकस्तु त्रिशीर्षस्स्यात् सिताग्रः क्रूरलोचनःकांस्यकायो लोहशीर्षश्चतुर्हस्तप्रमाणवान् ॥२७॥ऋक्षरोमस्तबकझल्लिवलयग्रीवदेहवान्धूननं प्रोतनं चेति त्रिशूलं द्वे श्रिते गती ॥२८॥गदा शैक्यायसमयी शतारपृथुशीर्षकाशंकुप्रावरणा घोरा चतुर्हस्तसमुन्नता ॥२९॥रथाक्षमात्रकाया च किरीटांचितमस्तकासुवर्णमेखलागुप्ता गजपर्वतभेदिनी ॥३०॥मण्डलानि विचित्राणि गतप्रत्यागतानि चअस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च ॥३१॥परिमोक्षं प्रहाराणां वर्जनं परिधावनंअभिद्रवणमाक्षेपमवस्थानं सविग्रहं ॥३२॥परावृत्तं सन्निवृत्तमवप्लुतमुपप्लुतंदक्षिणं मण्डलं चैव सव्यं मण्डलमेव च ॥३३॥आविद्धं च प्रविद्धं च स्फोटनं ज्वालनं तथाउपन्यस्तमपन्यस्तं गदामार्गाश्च विंशतिः ॥३४॥मुद्गरस्सृक्ष्मपादस्स्याद्धीनशीर्षस्त्रिहस्तवान्मधुवर्णः पृथुस्कंधश्चाष्टभारगुरुश्च सः ॥३५॥सत्सरुर्वर्तुलो नीलः परिध्या करसंमितःभ्रमणं पातनं चेति द्विविधं मुद्गरे श्रितं ॥३६॥सीरो द्विवक्रो विशिखो लोहपादमुखः कृषन्पुंप्रमाणस्स्निग्धवर्णस्स्वाकर्षविनिपातवान् ॥३७॥मुसलस्त्वक्षिशीर्षाभ्यां करैः पादैर्विवर्जितःमूले चान्तेऽतिसंबन्धः पातनं पोथनं द्वयं ॥३८॥पट्टिशः पुंप्रमाणस्स्याद्द्विधारस्तीक्ष्णशृङ्गकःहस्तत्राणसमायुक्तमुष्टिः खड्गसहोदरः ॥३९॥मौष्टिकं सुत्सरु ज्ञेयं प्रादेशोन्नति भूषितंशिताग्रमुन्नतग्रीवं पृथूदरसितं तथा ॥४०॥मण्डलानि विचित्राणि स्थानानि विविधानि चगोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ॥४१॥तिरश्चीनगतान्येव तथा वक्रगतानि चपरिमोक्षं प्रहाराणां वर्जनं परिधावनं ॥४२॥अभिद्रवणमाप्लावमधस्स्थानं सविग्रहंपरावृत्तमपावृत्तमुपद्रुतमपद्रुतं ॥४३॥उपन्यस्तमपन्यस्तमागतं स्फालनं तथाएतानि वल्गितान्याहुर्मौष्टिके नृपसत्तम ॥४४॥परिघो वर्तुलाकारस्तालमात्रस्सुतारवःबलैकसाध्यसंपातस्तस्मिञ्ज्ञेयो विचक्षणैः ॥४५॥मयूखी कृतयष्टिस्स्यान्मुष्टियुक्ता नरोन्नताकिंकिणीसंवृता चित्रा फलिकासहचारिणी ॥४६॥आघातं च प्रतीघातं विघातं परिमोचनंअभिद्रवणमित्येते मयूखीं पञ्च संश्रिताः ॥४७॥शतघ्नी कंटकयुता कालायसमयी दृढामुद्गराभा चतुर्हस्ता वर्तुला त्सरुणा युता ॥४८॥गदावल्गितवत्येषा मयेति कथिता तवअमून्यमुक्तायुधानि विंशतिर्नृपसत्तम ॥४९॥मुक्तामुक्तपदोक्तानि द्वात्रिंशदिति निर्णयःब्रह्मणा निर्मितः खड्गः पृथक् ते परिकीर्तितः ॥५०॥एतानि विकृतिं यान्ति युगपर्यायतो नृपदेहदार्ढ्यानुसारेण तथा युगपर्यायतो नृपदेहदार्ढ्यानुसारेण तथा बुद्ध्यनुसारतः ॥५१॥यंत्राणि लोहसीसानां गुलिकाक्षेपकाणि चतथा चोपलयंत्राणि कृत्रिमाण्यपराणि च ॥५२॥कूटयुद्धसहायानि भविष्यंति कलौ नृपतप्ततैलं सर्जरसो गुडलालोग्रवालुका ॥५३॥मधुसाशीविषघटाश्शीलकानि बृहच्छिलाःक्रकचा धूमगुलिकास्तुषांगारादिकं तथा ॥५४॥अधर्मवृद्ध्या चैतानि भविष्यंत्युत्तरोत्तरंसाधनानि महीपाल कूटयुद्धाभिकांक्षिणां ॥५५वहूणाः पुलिंदाश्शबरा बर्बराः पप्लवाश्शकाःमालवाः कॐकणा ह्यान्ध्राश्चोलाः पाण्ड्यास्सकेरलाः ॥५६॥म्लेच्छा गोयोनयश्चान्ये चण्डालाश्श्वपचाः खलाःमावेल्लका ललित्थाश्च किराताः कुक्कुरास्तथा ॥५७॥पापा ह्येते कथं धर्मं वेत्स्यन्ति च वियोनयःसांकर्यदोषनिरता भविष्यन्त्यधमे युगे ॥५८॥इत्येतत् कथितं वत्स मया लोकहितैषिणेतुभ्यं शुश्रूषवे धर्मान् किं भूयः कथयाम्यहं ॥५९॥इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां अमुक्तायुधनिरूपणं नाम पञ्चमोऽध्यायः N/A References : N/A Last Updated : February 13, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP