संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ४९ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ४९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ४९ Translation - भाषांतर ॥ श्रीसूत उवाच ॥अथातः संप्रवक्ष्यामि रामनाथस्य शूलिनः ॥स्तोत्राध्यायं महापुण्यं शृणुत श्रद्धया द्विजाः ॥१॥रामः प्रतिष्ठिते लिंगे तुष्टाव परमेश्वरम् ॥लक्ष्मणो जानकी सीता सुग्रीवाद्याः कपीश्वराः ॥२॥ब्रह्मप्रभृतयो देवाः कुम्भजाद्या महर्षयः ॥अस्तुवन्भक्तिसंयुक्ताः प्रत्येकं राघवेश्वरम् ॥३॥तद्वक्ष्याम्यानुपूर्व्येण शृणुतादरपूर्वकम् ॥एतच्छ्रवणमात्रेण मुक्तः स्या न्मानवो द्विजाः ॥४॥॥ श्रीराम उवाच ॥नमो महात्मने तुभ्यं महामायाय शूलिने ॥स्वपदांबुजभक्तार्तिहारिणे सर्प हारिणे ॥५॥नमो देवाधिदेवाय रामनाथाय साक्षिणे ॥नमो वेदांतवेद्याय योगिनां तत्त्वदायिने ॥६॥सर्वदानंदपूर्णाय विश्वनाथाय शंभवे ॥नमो भक्तभयच्छेदहेतुपादाब्जरेणवे ॥७॥नमस्तेऽखिलनाथाय नमः साक्षात्परात्मने ॥ नमस्तेऽद्भुतवीर्याय महापातकनाशिने ॥८॥कालकालाय कालाय कालातीताय ते नमः ॥नमोऽविद्यानिहंत्रे ते नमः पापहराय च ॥९॥नमः संसारतप्तानां तापनाशैकहेतवे ॥नमो मद्ब्रह्महत्याविनाशिने च विषाशिने ॥१०॥नमस्ते पार्वतीनाथ कैलासनिलयाव्यय ॥गंगाधर विरूपाक्ष मां रक्ष सकलापदः ॥११॥तुभ्यं पिनाकहस्ताय नमो मदनहारिणे ॥भूयोभूयो नमस्तुभ्यं सर्वावस्थासु सर्वदा ॥१२॥॥ लक्ष्मण उवाच ॥नमस्ते रामनाथाय त्रिपुरघ्नाय शंभवे ॥पार्वतीजीवितेशाय गणेशस्कन्दसूनवे ॥१३॥नमस्ते सूर्यचद्राग्निलोचनाय कपर्दिने ॥नमः शिवाय सोमाय मार्कंडेय भयच्छिदे ॥१४॥नमः सर्वप्रपंचस्य सृष्टिस्थित्यंतहेतवे ॥नम उग्राय भीमाय महादेवाय साक्षिणे ॥१५॥सर्वज्ञाय वरेण्याय वरदाय वराय ते ॥श्रीकण्ठाय नमस्तुभ्यं पंचपातकभेदिने ॥१६॥नमस्तेऽस्तु परानंदसत्यविज्ञानरूपिणे ॥नमस्ते भवरोगघ्न स्नायूनां पतये नमः ॥१७॥पतये तस्कराणां ते वनानां पतये नमः ॥गणानां पतये तुभ्यं विश्वरूपायसाक्षिणे ॥१८॥कर्मणा प्रेरितः शम्भो जनिष्ये यत्रयत्र तु ॥तत्रतत्र पदद्वंद्वे भवतो भक्तिरस्तु मे ॥१९॥असन्मार्गे रतिर्मा भूद्भवतः कृपया मम ॥वैदिकाचारमार्गे च रतिः स्याद्भवते नमः ॥२०॥॥ सीतोवाच ॥परमकारण शंकर धूर्जटे गिरिसुतास्तनकुंकुमशोभित ॥मम पतौ परिदेहि मतिं सदा न विषमां परपूरुषगोचराम् ॥२१॥गंगाधर विरूपाक्ष नीललोहित शंकर ॥रामनाथ नमस्तुभ्यं रक्ष मा करुणाकर ॥२२॥नमस्ते देवदेवेश नमस्ते करुणालय ॥नमस्ते भवभीतानां भवभीतिविमर्दन ॥२३॥नाथ त्वदीयचरणांबुजचिंतनेन निर्द्धूय भास्करसुताद्भयमाशु शम्भो ॥नित्यत्वमाशु गतवान्स मृकंडुपुत्रः किं वा न सिध्यति तवाश्रयणात्परेश ॥२४॥परेशपरमानंद शरणागतपालक ॥पातिव्रत्यं मम सदा देहि तुभ्यं नमोनमः ॥२५॥॥ हनूमानुवाच ॥देवदेव जगन्नाथ रामनाथ कृपानिधे ॥त्वत्पादांभोरुहगता निश्चला भक्तिरस्तु मे ॥२६॥यं विना न जगत्सत्ता तद्भानमपि नो भवेत्॥नमः सद्भानरूपाय रामनाथाय शंभवे ॥२७॥अंगद उवाच ॥यस्य भासा जगद्भानं यत्प्रकाशं विना जगत् ॥न भासते नमस्तस्मै रामनाथाय शंभवे ॥२८॥॥ जांबुवानुवाच ॥सर्वानंदो यदानंदो भासते परमार्थतः ॥नमो रामेश्वरायास्मै परमानंदरूपिणे ॥२९॥॥ नील उवाच ॥यद्देशकालदिग्भेदैरभिन्नं सर्वदा द्वयम् ॥तस्मै रामेश्वरायास्मै नमोऽभिन्नस्व रूपिणे ॥३०॥॥ नल उवाच ॥ब्रह्मविष्णुमहेशाना यदविद्याविजृंभिताः ॥नमोऽविद्याविहीनाय तस्मै रामेश्वराय ते ॥३१॥॥ कुमुद उवाच ॥यस्त्वरूपापरिज्ञानात्प्रधानं कारणत्वतः ॥कल्पितं कारणायास्मै रामनाथाय शंभवे ॥३२॥॥ पनस उवाच ॥जाग्रत्स्वप्नसुषुप्त्यादियदविद्याविजृंभितम् ॥जाग्रदादिविहीनाय नमोऽस्मै ज्ञानरूपिणे ॥३३॥॥ गज उवाच ॥यत्स्वरूपापरिज्ञानात्कार्याणां परमा णवः ॥कल्पिताः कारणत्वेन तार्किकापसदैर्वृथा ॥३४॥तमहं परमानंदं रामनाथं महेश्वरम् ॥आत्मरूपतया नित्यमुपासे सर्वसाक्षिणम् ॥३५॥॥ गवाक्ष उवाच ॥अज्ञानपाशबद्धानां पशूनां पाशमोचकम् ॥रामेश्वरं शिवं शांतमुपैमि शरणं सदा ॥३६॥॥ गवय उवाच ॥साध्वस्तजगदाधारं चंद्रचूडमुमापतिम् ॥रामनाथं शिवं वन्दे संसारामयभेषजम् ॥३७॥शरभ उवाच ॥अंतःकरणमात्मेति यदज्ञानाद्विमोहितैः ॥भण्यते रामनाथं तमात्मानं प्रणमाम्यहम् ॥३८॥॥ गन्धमादन उवाच ॥रामनाथमुमानाथं गणनाथं च त्र्यंबकम् ॥सर्वपातकशुद्ध्यर्थमुपासे जगदीश्वरम् ॥३९॥॥ सुग्रीव उवाच ॥संसारांभोधि मध्ये मां जन्ममृत्युजले भये ॥पुत्रदारधनक्षेत्रवीचिमालासमाकुले ॥४०॥मज्जद्ब्रह्मांडखंडे च पतितं नाप्तपारकम् ॥क्रोशंतमवशं दीनं विषयव्या लकातरम् ॥४१॥व्याधिनक्रसमुद्विग्नं तापत्रयझषार्तिदम् ॥मां रक्ष गिरिजानाथ रामनाथ नमोऽस्तु ते ॥४२॥॥ विभीषण उवाच ॥संसारवनमध्ये मां विनष्टनिजमार्गके ॥व्याधिचौरे क्रोधसिंहे जन्मव्याघ्रे लयोरगे ॥४३॥बाल्ययौवनवार्धक्यमहाभीमांधकूपके ॥क्रोधेर्ष्या लोभवह्नौ च विषयक्रूरपर्वते ॥४४॥त्रासभूकंटकाढ्ये च सीदंतमधुनांधकम् ॥शोभनां पदवीं शंभो नय रामेश्वराधुना ॥४५॥॥ सर्वे वानरा ऊचुः ॥निंद्यानिंद्येषु सर्वत्र जनित्वा योनिषु प्रभो ॥कुंभीपाकादिनरके पतित्वा च पुनस्तथा ॥४६॥जनित्वा च पुनर्योनौ कर्मशेषेण कुत्सिते ॥संसारे पतितानस्मान्रामनाथ दयानिधे ॥४७॥अनाथान्विवशान्दीनान्क्रोशतः पाहि शंकर ॥नमस्तेस्तु दयासिंधो रामनाथ महेश्वर ॥४८॥॥ ब्रह्मोवाच ॥नमस्ते लोकनाथाय रामनाथाय शंभवे ॥प्रसीद मम सर्वेश मदविद्यां विनाशय ॥४९॥॥ इंद्र उवाच ॥यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी ॥तमहं शंकरं वंदे रामनाथमुमापतिम् ॥५०॥॥ यम उवाच ॥पुत्रौ गणेश्वरस्कंदौ वृषो यस्य च वाहनम् ॥तं वै रामेश्वरं सेवे सर्वाज्ञाननिवृत्तये ॥५१॥॥ वरुण उवाच ॥यस्य पूजाप्रभावेन जित मृत्युर्मृकंडुजः॥मृत्युंजयमुपासेऽहं रामनाथं हृदा तु तम् ॥५२॥॥ कुबेर उवाच ॥ईश्वराय लसत्कर्णकुंडलाभरणाय ते ॥लाक्षारुणशरीराय नमो रामेश्वराय वै ॥५३॥॥ आदित्य उवाच ॥नमस्तेऽस्तु महादेव रामनाथ त्रियंबक ॥दक्षाध्वरविनाशाय नमस्ते पाहि मां शिव ॥५४॥॥ सोम उवाच ॥नमस्ते भस्मदिग्धाय शूलिने सर्पमालिने ॥रामनाथ दयांभोधे स्मशाननिलयाय ते ॥५५॥॥ अग्निरुवाच ॥इन्द्राद्यखिलदिक्पालसंसेवितपदांबुज ॥रामनाथाय शुद्धाय नमो दिग्वाससे सदा ॥५६॥॥ वायुरुवाच ॥हराय हरिरूपाय व्याघ्रचर्मांबराय च ॥रामनाथ नमस्तुभ्यं ममाभीष्टप्रदो भव ॥५७॥॥ बृहस्पतिरुवाच ॥अहंतासाक्षिणे नित्यं प्रत्यगद्वयवस्तुने ॥रामनाथ ममाज्ञानमाशु नाशय ते नमः ॥५८॥॥ शुक्र उवाच ॥वंचकानामलभ्याय महामंत्रार्थरूपिणे ॥नमो द्वैतविहीनाय रामनाथाय शंभवे ॥५९॥॥ अश्विनावूचतुः ॥आत्मरूपतया नित्यं योगिनां भासते हृदि ॥अनन्य भानवेद्याय नमस्ते राघवेश्वर ॥६०॥॥ अगस्त्य उवाच ॥आदिदेव महादेव विश्वेश्वर शिवाव्यय ॥रामनाथांबिकानाथ प्रसीद वृष भध्वज ॥६१॥अपराधसहस्रं मे क्षमस्व विधुशेखर ॥ममाहमिति पुत्रादावहंतां मम मोचय ॥६२॥॥ सुतीक्ष्ण उवाच ॥क्षेत्राणि रत्नानि धनानि दारा मित्राणि वस्त्राणि गवाश्वपुत्राः ॥नैवोपकाराय हि रामनाथ मह्यं प्रयच्छ त्वमतो विरक्तिम् ॥६३॥॥ विश्वामित्र उवाच ॥श्रुतानि शास्त्राण्यपि निष्फलानि त्रय्यप्यधीता विफलैव नूनम् ॥त्वयीश्वरे चेन्न भवेद्धि भक्तिः श्रीरामनाथे शिव मानुषस्य ॥६४॥॥ गालव उवाच ॥दानानि यज्ञा नियमास्तपांसि गंगादितीर्थेषु निमज्जनानि ॥रामेश्वरं त्वां न नमंति ये तु व्यर्थानि तेषामिति निश्चयोऽत्र ॥६५॥॥ वसिष्ठ उवाच ॥कृत्वापि पापान्यखिलानि लोकस्त्वामेत्य रामेश्वर भक्तियुक्तः ॥नमेत चेत्तानि लयं व्रजेयुर्यथांधकारो रवितेजसाऽद्धा ॥६६॥॥ अत्रिरुवाच ॥दृष्ट्वा तु रामेश्वरमेकदापि स्पृष्ट्वा नमस्कृत्य भवंतमीशम् ॥पुनर्न गर्भं स नरः प्रयायात्किं त्वद्वयं ते लभतं स्वरूपम् ॥६७॥अंगिरा उवाच ॥यो रामनाथं मनुजो भवंतमुपेत्य बंधून्प्रणमन्स्मरेत ॥संतारयेत्तानपि सर्वपापात्किम द्भुतं तस्य कृतार्थतायाम् ॥६८॥॥ गौतम उवाच ॥श्रीरामनाथेश्वर गूढमेत्तद्रहस्यभूतं परमं विशोकम् ॥त्वत्पादमूलं भजतां नृणां ये सेवां प्रकुर्वंति हि तेऽपि धन्याः ॥६९॥॥ शतानंद उवाच ॥वेदांतविज्ञानरहस्यविद्भिर्विज्ञेयमेतद्धि मुमुक्षुभिस्तु ॥शास्त्राणि सर्वाणि विहाय देव त्वत्सेवनं यद्रघुवीरनाथ ॥७०॥॥ भृगुरुवाच ॥रामनाथ तव पादपंकजं द्वंद्वचिंतनविधूतकल्मषः ॥निर्भयं व्रजति सत्सुखाद्वयं[१] सुप्रभं त्वथ अमोघचिद्धनम् ॥७१॥॥ कुत्स उवाच ॥रामनाथ तव पादसेवनं भोगमोक्षवरदं नृणां सदा ॥रौरवादिनरकप्रणाशनं कः पुमान्न भजते रसग्रहः ॥७२॥॥ काश्यप उवाच ॥रामनाथ तव पादसेविनां किं व्रतैरुत तपोभिरध्वरैः ॥वेदशास्त्र जपचिन्तया च किं स्वर्गसिन्धुपयसापि किं फलम् ॥७३॥श्रीरामनाथ त्वमागत्य शीघ्रं ममोत्क्रांतिकाले भवान्या च साकम् ॥मां प्रापय स्वात्मपादारविन्दं विशोकं विमोहं सुखं चित्स्वरूपम् ॥७४॥॥ गन्धर्वा ऊचुः ॥रामनाथ त्वमस्माकं भजतां भवसागरे ॥अपारे दुःखकल्लोले न त्वत्तोन्या गतिर्हि नः ॥७५॥॥ किन्नरा ऊचुः ॥रामनाथ भवारण्ये व्याधिव्याघ्रभयानके ॥त्वामंतरेण नास्माकं पदवीदर्शको भवेत् ॥७६॥॥ यक्षा ऊचुः ॥रामनाथेंद्रियारातिबाधा नो दुःसहा सदा ॥तान्विजेतुं सहायस्त्वमस्माकं भव धूर्जटे ॥७७॥॥ नागा ऊचुः ॥अचिन्त्यमहिमानं त्वा रामनाथ वयं कथम्॥स्तोतुमल्पधियः शक्ता भविष्यामोंऽबिकापते ॥७८॥॥ किंपुरुषा ऊचुः ॥नानायोनौ च जननं मरणं चाप्यनेकशः ॥विनाशय तथाऽज्ञानं रामनाथ नमोऽस्तु ते ॥७९॥॥ विद्याधरा ऊचुः ॥अंबिकापतये तुभ्यमसंगाय महात्मने॥नमस्ते रामनाथाय प्रसीद वृषभध्वज ॥८०॥॥ वसव ऊचुः ॥रामनाथगणेशाय गणवृंदार्चितांघ्रये ॥गंगाधराय गुह्याय नमस्ते पाहि नः सदा ॥८१॥॥ विश्वेदेवा ऊचुः ॥ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय सुयोगिनाम् ॥रामनाथाय सांबाय नमोऽस्मान्रक्ष शंकर ॥८२॥॥ मरुत ऊचुः ॥परतत्त्वाय तत्त्वानां तत्त्वभूताय वस्तुतः ॥नमस्ते रामनाथाय स्वयंभानाय शंभवे ॥८३॥॥ साध्या ऊचुः ॥स्वातिरिक्तविहीनाय जगत्सत्ताप्रदायिने ॥रामेश्वराय देवाय नमोऽविद्या विभेदिने ॥८४॥॥ सर्वे देवा ऊचुः ॥सच्चिदानंदसंपूर्णं द्वैतवस्तुविवर्जितम् ॥ब्रह्मात्मानं स्वयंभानमादिमध्यांतवर्जितम् ॥८५॥अविक्रियमसंगं च परिशुद्धं सनातनम् ॥आकाशादिप्रपंचानां साक्षिभूतं परामृतम्॥८६॥प्रमातीतं प्रमाणानामपि बोधप्रदायिनम्॥आविर्भावतिरोभाव संकोचरहितं सदा ॥८७॥स्वस्मिन्नध्यस्तरूपस्य प्रपंचस्यास्य साक्षिणम् ॥निर्लेपं परमानंदं निरस्तसकलक्रियम्॥ ८८॥भूमानंदं महात्मानं चिद्रूपं भोगवर्जितम् ॥रामनाथं वयं सर्वे स्वपातकविशुद्धये ॥८९॥चिन्तयामः सदा चित्ते स्वात्मानंदबुभुत्सवः ॥रक्षास्मान्करुणासिन्धो राम नाथ नमोऽस्तु ते ॥९॥रामनाथाय रुद्राय नमः संसारहारिणे ॥ब्रह्मविष्ण्वादिरूपेण विभिन्नाय स्वमायया ॥९१॥विभीषणसचिवा ऊचुः ॥वरदाय वरेण्याय त्रिनेत्राय त्रिशूलिने ॥योगिध्येयाय नित्याय रामनाथाय ते नमः ॥९२॥॥ सूत उवाच ॥इति रामादिभिः सर्वैः स्तुतो रामेश्वरः शिवः ॥प्राह सर्वान्समाहूय रामादीन्द्विजसत्तमाः ॥९३॥रामराम महाभाग जानकीरमण प्रभो ॥सौमित्रे जानकि शुभे हे सुग्रीव मुखास्तथा ॥९४॥अन्ये ब्रह्ममुखा यूयं शृणुध्वं सुसमास्थिताः ॥स्तोत्राध्यायमिमं पुण्यं युष्माभिः कृतमादरात् ॥९५॥ये पठंति च शृण्वंति श्रावयंति च मानवाः ॥मदर्चनफलं तेषां भविष्यति न संशयः ॥९६॥रामचंद्रधनुष्कोटिस्नानपुण्यं च वै भवेत् ॥वर्षमेकं रामसेतौ वासपुण्यं भविष्यति ॥९७॥गन्धमादनमध्यस्थसर्वर्तीर्थाभिमज्जनात् ॥यत्पुण्यं तद्भवेत्तेन नात्र संशयकारणम् ॥९८॥उक्त्वैवं रामनाथोऽपि स्वात्मलिंगे तिरोदधे ॥स्तोत्राध्यायमिमं पुण्यं नित्यं संकीर्तयन्नरः ॥९९॥जरामरणनिर्मुक्तो जन्मदुःखविवर्जितः ॥रामनाथस्य सायुज्यमुक्तिं प्राप्नोत्यसंशयः ॥१००॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामादिभी रामनाथस्तोत्रकथनंनामैकोनपंचाशत्तमोऽध्यायः ॥४९॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP