संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय २९ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय २९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २९ Translation - भाषांतर ॥ श्रीसूत उवाच ॥स्नात्वा साध्यामृते तीर्थे नृपशापविमोक्षणे ॥सर्वतीर्थं ततो गच्छेन्मनुजो नियमान्वितः ॥१॥सर्वतीर्थं महापुण्यं महापातकनाशनम् ॥महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥२॥शुद्ध्येत तत्क्षणादेव सवर्तीर्थनिमज्जनात् ॥तावत्सर्वाणि पापानि देहे तिष्ठंति सुव्रताः ॥३॥न यावत्सर्वतीर्थेस्मिन्निमज्जेत्पापपूरुषः ।१स्नानार्थं सर्वतीर्थेऽस्मिन्दृष्ट्वा यांतं द्विजा नरम् ॥४॥वेपंते सर्वपापानि नाशोऽस्माकं भवेदिति ॥गर्भवासादिदुःखानि तावद्याति नरो भुवि ॥५॥न स्नायात्सर्वतीर्थेऽस्मिन्यावद्ब्राह्मणपुंगवाः॥अनुष्ठितैर्महायागैस्तथा तीर्थनिषेवणैः ॥६॥गायत्र्यादिमहामंत्रजपैर्नियमपूर्वकम् ॥चतुर्णामपि वेदानामावृत्त्या शतसंख्यया ॥७॥शिवविष्ण्वादिदेवानां पूजया भक्ति पूर्वकम् ॥एकादश्यादितिथिषु तथैवानशनेन च॥यत्फलं लभते मर्त्यस्तल्लभेदत्र मज्जनात् ॥८॥॥ ऋषय ऊचुः ॥सर्वतीर्थमिति ख्यातिः सूतास्य कथमागता ॥ब्रूह्यस्माकमिदं पुण्यं विस्तराच्छृण्वतां मुने ॥९॥॥ श्रीसूत उवाच ॥पुरा सुचरितोनाम मुनिर्नियमसंयुतः ॥१०॥भृगुवंशसमुद्भूतो जात्यंधो जरयातुरः ॥अशक्तस्तीर्थयात्रायां नेत्राभावेन स द्विजाः ॥११॥सर्वेषामेव तीर्थानां स्नातुकामो महामु निः ॥दक्षिणांबुनिधौ पुण्यं गंधमादनपर्वतम् ॥१२॥गत्वा शंकरमुद्दिश्य तपस्तेपे सुदुष्करम् ॥त्रिकालमर्चयञ्छंभुमुपवासी जितेंद्रियः ॥१३॥तथा त्रिषवणस्नानात्तथैवातिथिपूजकः ॥शिशिरे जलमध्यस्थो ग्रीष्मे पंचाग्निमध्यगः ॥१४॥वर्षास्वासारसहन अब्भक्षो वायुभोजनः ॥उद्धूलनं त्रिपुंड्रं च भस्मना धारयन्सदा ॥१५॥जाबालोपनिषद्रीत्या तथा रुद्राक्षधारकः ॥एवमुग्रं तपश्चक्रे दशसंवत्सरं द्विजः ॥१६॥तपसा तस्य संतुष्टः शंकरश्चंद्रशेखरः ॥प्रादुरासीन्मुनेस्तस्य द्विजाः सुचरितस्य वै ॥१७॥समारुह्य महोक्षाणं भूतवृंदनिषेवितः ॥गिरिजार्ध वपुः शूली सूर्यकोटिसमप्रभः ॥१८॥स्वभासा भासयन्सर्वा दिशो वितिमिरास्तदा ॥भस्मपांडुरसर्वांगो जटामंडलमंडितः ॥१९॥अनंता दिमहानागविभूषणविभूषितः ॥प्रादुर्भूतस्ततः शंभुः प्रादात्तस्य विलोचने ॥२०॥आत्मावलोकनार्थाय शंकरो गिरिजापतिः ॥ततः सुचरितो विप्राः शंभुना दत्तदृग्द्वयः ॥आलोक्य परमेशानं प्रतुष्टाव प्रसन्नधीः ॥२१॥॥ सुचरित उवाच ॥जय देव महेशान जय शंकर धूर्जटे ॥२२॥जय ब्रह्मादिपूज्य त्वं त्रिपुरघ्न यमांतक ॥जयोमेश महादेव कामांतक जयामल ॥२३॥जय संसारवैद्य त्वं भूतपाल शिवाव्य य ॥त्रियंबक नमस्तुभ्यं भक्तरक्षणदीक्षित ॥२४॥व्योमकेश नमस्तुभ्यं जय कारुण्यविग्रह ॥नीलकण्ठ नमस्तुभ्यं जय संसारमोचक॥२५॥महेश्वर नमस्तुभ्यं परमानंदविग्रह ॥गंगाधर नमस्तुभ्यं विश्वेश्वर मृडाव्यय ॥२६॥नमस्तुभ्यं भगवते वासुदेवाय शंभवे ॥शर्वायोग्राय गर्भाय कैलासपतये नमः ॥२७॥रक्ष मां करुणासिंधो कृपादष्ट्यवलोकनात् ॥मम वृत्तमनालोच्य त्राहि मां कृपया हर॥२८॥श्रीसूत उवाच॥इति स्तुतो महादेवस्तमेनमिदमभ्यधात् ॥मुनिं सुचरितं विप्रा दयोदन्वानुमापतिः ॥२९॥॥ महादेव उवाच ॥मुने सुचरिताद्य त्वं वरं वरय कांक्षितम् ॥वरं दातुं तवायातः पुण्येस्मिन्नाश्रमे शुभे ॥इतीरितो मुनिः प्राह महादेवं दयानिधिम् ॥३०॥॥ सुचरित उवाच ॥भगवंस्त्वं प्रसन्नो मे यदि स्याश्चंद्रशेखर ॥३१॥तर्हि त्वां प्रवृणोम्यद्धा वरं मदभिकांक्षितम् ॥जरापलितदेहोहं कुत्रचिद्गंतुमक्षमः ॥३२॥सर्वतीर्थेषु च स्नातुमाकांक्षा मम विद्यते ॥तस्मात्सर्वेषु तीर्थेषु स्नानेन मनुजो हि यत् ॥फलं प्राप्नोति मे ब्रूहि तत्फला वाप्तिसाधनम् ॥३३॥॥ महादेव उवाच ॥अहमावाहयिष्यामि तीर्थान्यत्रैव कृत्स्नशः ॥३४॥रामस्य सेतुना पूते नगेऽस्मिन्गंधमादने ॥इत्युक्त्वा स महादेवः पर्वते गन्धमादने ॥३५॥तीर्थान्यावाहयामास मुनिप्रीत्यर्थमुत्तमः ॥ततस्सुचरितं प्राह शंकरः करुणानिधिः ॥३६॥मुने सुचरितेदं तु महापातकनाशनम् ॥सांनिध्यात्सर्वतीर्थानां सर्वतीर्थाभिधं स्मृतम् ॥३७॥मयात्र सर्वतीर्थानां मनसाकर्षणादिदम् ॥मानसं तीर्थमित्याख्यां लप्स्यते भुक्तिमुक्तिदम् ॥३८॥अतः सुचरितात्र त्वं स्नाहि सद्यो विमुक्तये ॥महापातकसंघानां दावानलसमद्युतौ ॥३९॥काममोहभयक्रोधलोभरोगादिनाशने ॥विना वेदांतविज्ञानं सद्योनिर्वाणकारणे ॥४०॥जन्ममृत्य्वादिनक्रौघसंसारार्णवतारणे ॥कुम्भीपाकादिसकलनरकाग्निविनाशने ॥४१॥इतीरितः सुचरितः शम्भुना मदनारिणा ॥सस्नौ विप्राः सर्वतीर्थे महादेवस्य संनिधौ ॥४२॥स्नात्वोत्थितः सुचरितो ददृशेऽखिलमानवैः ॥जरापलितनिर्मुक्तस्तरुणोऽतीव सुन्दरः ॥४३॥दृष्ट्वा स्वदेहसौंदर्यं ततः सुचरितो मुनिः ॥श्लाघयामास तत्तीर्थं बहुधाऽन्ये च तापसाः ॥४४॥महादेवः सुचरितं बभाषे तदनंतरम् ॥अस्य तीर्थस्य तीरे त्वं वसन्सुचरित द्विज ॥४५॥स्नानं कुरुष्व सततं स्मरन्मां मुक्तिदायकम् ॥देशांतरीयतीर्थेषु मा व्रज ब्राह्मणोत्तम ॥४६॥अस्य तीर्थस्य माहात्म्यान्मामंते प्राप्स्यसि ध्रुवम्॥अन्येऽपि येऽत्र स्नास्यंति तेऽपि मां प्राप्नुयुर्द्विज ॥४७॥इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥तस्मिन्नंतर्हिते रुद्रे ततः सुचरितो मुनिः ॥४८॥अनेककालं निवसन्सर्वतीर्थस्य तीरतः ॥स्नानं समाचरंस्तीर्थे मानसे नियमान्वितः ॥४९॥देहांते शंकरं प्राप सर्वबन्धविमोचितः ॥सायुज्यं चापि संप्राप सर्वतीर्थस्य वैभवात् ॥५०॥ एवं वः कथितं विप्राः सर्वतीर्थस्य वैभवम् ॥एतत्पठन्वा शृण्वन्वा मुच्यते सर्व पातकैः ॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सर्वतीर्थप्रशंसायां सर्वतीर्थस्वरूप कथनंनामैकोनत्रिंशोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP