संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय १३ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय १३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १३ Translation - भाषांतर ॥ श्रीसूत उवाच ॥मंगलाख्ये महातीर्थे नरः स्नात्वा विकल्मषः ॥एकांतरामनाथाख्यं क्षेत्रं गच्छेत्ततः परम् ॥१॥तत्र रामो जगन्नाथो जानक्या लक्ष्मणेन च ॥हनुमत्प्रमुखैश्चापि वानरैः परिवारितः ॥२॥सन्निधत्ते सदा विप्रा लोकानुग्रहकाम्यया ॥विद्यते पुण्यदा तत्र नाम्ना ह्यमृतवापिका ॥३॥तस्यां निमज्जतां नृणां न जरांतकजं भयम् ॥अस्याममृतवाप्यां यः सश्रद्धं स्नाति मानवः ॥४॥अमृतत्वं भजत्येष शंकरस्य प्रसादतः ॥महापातकनाशिन्यामस्यां वाप्यां निमज्जताम् ॥५॥अमृतत्वं हरो दातुं सन्निधत्ते सदा तटे ॥॥ । ऋषय ऊचुः ॥इयं ह्यमृतवापीति कुतो हेतोर्निगद्यते ॥६॥अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित ॥तथैवामृतनामिन्या वापिकायाश्च वैभवम् ॥तृप्तिर्न जायतेऽस्माकं त्वद्वचोऽमृतपायिनाम् ॥७॥॥ श्रीसूत उवाच ॥अस्या अमृतनामत्वं वैभवं च मनोहरम् ॥८॥प्रवक्ष्यामि विशेषेण शृणुत द्विजसत्तमाः ॥पुरा हिमवतः पार्श्वे नानामुनिसमाकुले ॥९॥सिद्धचारणगंधर्वदेवकिन्नरसेविते ॥सिंहव्याघ्रवराहेभमहिषादिसमाकुले ॥१०॥तमालतालहिंतालचंपकाशोकसंतते ॥हंसकोकिलदात्यूहचक्रवाकादिशोभिते ॥११॥पद्मेंदीवरकह्लारकुमुदाढ्यसरो वृते ॥सत्यवाञ्छीलवान्वाग्मी वशी कुंभजसोदरः ॥१२॥आस्ते तपश्चरन्नित्यं मोक्षार्थी शंकरप्रियः ॥त्रिकालमर्चयञ्छंभु वन्यैर्मूलफलादिभिः ॥ १३॥आगतान्स्वाश्रमाभ्याशमतिथीन्वन्यभोजनैः ॥पूजयन्नर्चयन्नग्निं संध्योपासनतत्परः ॥१४॥गायत्र्यादीन्महामंत्रान्कालेकाले जपन्मुदा ॥निद्रां परित्यजन्ब्राह्मे मुहूर्ते विष्णुचिंतकः ॥१५॥स्नानं कुर्वन्नुषःकाले नमन्संध्यां प्रसन्नधीः ॥गायत्रीं प्रजपन्विप्राः पूजयन्हरिशंकरौ ॥१६॥वेदाध्यायी शास्त्रपाठी मध्याह्नेऽतिथिपूजकः ॥श्रोतापुराणपाठानामग्निकार्येष्वतंद्रितः ॥१७॥पंचयज्ञपरो नित्यं वैश्वदेवबलिप्रदः ॥प्रत्यब्दं श्राद्धकृत्पित्रोस्तथान्यश्राद्धकृद्द्विजाः ॥१८॥एवं निनाय कालं स नित्यानुष्ठानतत्परः ॥तस्यैवं वर्तमानस्य तपश्चरत उत्तमम् ॥१९॥सहस्रवर्षाण्यगमञ्च्छंकरासक्तचेतसः ॥तथापि शंकरो नास्याययौ प्रत्यक्षतां तदा ॥२०॥ततस्त्वगस्त्यभ्रातासौ ग्रीष्मे पंचानिमध्यगः ॥भास्करं दत्तदृष्टिश्च मौनव्रतसमन्वितः ॥२१॥तिष्ठन्कनिष्ठिकांगुल्यां वामपादस्य निश्चलः ॥ऊर्ध्वबाहुर्निरालंबस्तपस्तेपेऽतिदारुणम् ॥२२॥अथ तस्य प्रसन्नात्मा महादेवो घृणानिधिः ॥प्रादुरासीत्स्वया दीप्त्या दिशो दश विभासयन् ॥२३॥ततोऽद्राक्षीन्मुनिः शंभुं सांबं वृषभसंस्थि तम् ॥दृष्ट्वा प्रणम्य तुष्टाव भवानीपतिमीश्वरम् ॥२४॥॥ मुनिरुवाच ॥नमस्ते पार्वतीनाथ नीलकंठ महेश्वर॥शिव रुद्र महादेव नम स्ते शंभवे विभो ॥२५॥श्रीकंठोमापते शूलिन्भगनेत्रहराव्यय ॥गंगाधर विरूपाक्ष नमस्ते रुद्र मन्यवे ॥२६॥अंतकारे कामशत्रो देवदेव जगत्पते ॥स्वामिन्पशुपते शर्व नमस्ते शतधन्वने ॥दक्षयक्षविनाशाय स्नायूनां पतये नमः ॥निचेरवे नमस्तुभ्यं पुष्टानां पतये नमः ॥२८॥भूयोभूयो नमस्तुभ्यं महादेव कृपालय ॥दुस्तराद्भवसिंधोर्मां तारयस्व त्रिलोचन ॥२९॥अगस्त्यसोदरेणैवं स्तुतः शंभुरभाषत ॥प्रीणयन्वचसा स्वेन कुंभजस्यानुजं मुनिम् ॥३०॥॥ ईश्वर उवाच ॥कुंभजानुज वक्ष्यामि मुक्त्युपायं तवानघ ॥सेतुमध्ये महातीर्थं गंधमादनपर्वते ॥३१॥मंगलाख्यस्य तीर्थस्य नातिदूरेण वर्तते ॥तत्र गत्वा कुरु स्नानं ततो मुक्तिमवाप्स्यसि ॥३२॥तत्तीर्थसेवनान्नान्योमोक्षो पायो लघुस्तव ॥न हि तत्तीर्थवैशिष्ट्यं वक्तुं शक्यं मयापि च ॥३३॥संदेहो नात्र कर्तव्यस्त्वयाद्य मुनिसत्तम॥तस्मात्तत्रैव गच्छ त्वं यदीच्छसि भवक्षयम् ॥३४॥इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥ततो देवस्य वचनादगस्त्यस्य सहोदरः ॥३५॥गत्वा सेतुं समुद्रे तु गंधमादनपर्वते॥ईश्वरणैव गदितं तीर्थं तच्छीघ्रमासदत् ॥३६॥तत्र तीर्थे महापुण्ये स्नातानां मुक्तिदायिनि ॥एकांतरामनाथाख्ये क्षेत्रालंकरणे शुभे ॥३७॥सस्नौ नियमपूर्वं स त्रीणि वर्षाणि वै द्विजः ॥ततश्चतुर्थवर्षे तु समाधिस्थो महामुनिः ॥३८॥ब्रह्मनाड्या प्राणवायुं मूर्द्धन्यारोप्ययोगतः ॥प्राणान्निर्गमयामास ब्रह्मरंध्रेण तत्र सः ॥३९॥ततोऽगस्त्यानुजः सोयं परित्यज्य कलेवरम् ॥अवाप मुक्तिं परमां तस्य तीर्थस्य वैभवात् ॥४॥विनष्टाशेषदुःखस्य तत्तीर्थस्नानवैभवात् ॥मृतत्वमभूद्यस्मादगस्त्यानुजजन्मनः॥४१॥ततो ह्यमृतवापीतिप्रथाऽस्यासीन्मुनीश्वराः॥अत्र तीर्थे नरा ये तु वर्षत्रयमतंद्रिताः॥४२॥स्नानं कुर्वंति ते सत्यममृतत्वं प्रयांति हि ॥एवं त्वमृतवापीति प्रथा तद्वैभवं तथा ॥युष्माकं कथितं विप्राः किंभूयः श्रोतुमिच्छथ ॥४३॥॥ ऋषय ऊचुः ॥एकांतरामनाथाख्या तस्य क्षेत्रस्य वै मुने ॥४४॥कथं समागता सूत वक्तुमेतत्त्वमर्हसि ॥अस्माकं मुनिशार्दूल तच्छुश्रूषातिभूयसी ॥४५॥॥ श्रीसूत उवाच ॥पुरा दाशरथी रामः ससुग्रीवभिभीषणः ॥लक्ष्मणेन युतो भ्रात्रा मंत्रज्ञेन हनूमता ॥४६॥वानरैर्बध्यमाने तु सेतावंबुधिमध्यतः ॥चिंतयन्मनसा सीतामेकांते सममंत्रयत् ॥४७॥तेषु मंत्र यमाणेषु रावणादिवधं प्रति ॥उल्लोलतरकल्लोलो जुघोष जलधिर्भृशम् ॥४८॥अर्णवस्य महाभीमे जृंभमाणे महाध्वनौ ॥अन्योन्यकथितां वार्तां नाशृण्वंस्ते परस्परम् ॥४९॥ततः किंचिदिव क्रुद्धो भृकुटीकुटिलेक्षणः ॥भ्रूभंगलीलया रामो नियम्य जलधिं तदा ॥५०॥न्यमंत्रयत विप्रेंद्रा राक्षसानां वधं प्रति ॥एकांतेऽमंत्रयत्तत्र तैः सार्धं राघवो यतः ॥५१॥एकांतरामनाथाख्यं तत्क्षेत्रमभवद्विजाः ॥सोयं नियमितो वार्धी रामभ्रूभंगलीलया ॥५२॥अद्यापि निश्चलजलस्तत्प्रदेशेषु दृश्यते ॥एकांतरामनाथाख्यं तदेतत्क्षेत्रमुत्तमम् ॥५३॥आगत्यामृतवाप्यां च स्नात्वा नियमपूर्वकम् ॥रामादीनपि सेवंते ते सर्वे मुक्तिमाप्नुयुः ॥५४॥अद्वैतविज्ञानविवेकशून्या विरक्तिहीनाश्च समाधि हीनाः ॥यागाद्यनुष्ठानविवर्जिताश्च स्नात्वात्र यास्यंत्यमृतं द्विजेंद्राः ॥५५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये अमृतवापीप्रशंसायाम् अगस्त्यभ्रातृविमुक्तिवर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP