संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय २० सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय २० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २० Translation - भाषांतर ॥ श्रीसूत उवाच ॥लक्ष्मणस्य महातीर्थे ब्रह्महत्याविनाशने ॥स्नात्वा स्वचित्तशुद्ध्यर्थं जटातीर्थं ततो व्रजेत् ॥१॥जन्ममृत्युजराक्रांतसंसारातुरचेतसाम् ॥अज्ञाननाशकं नास्ति जटातीर्थादृते द्विजाः ॥२॥लोके मुमुक्षवः केचिच्चित्तशुद्धिमभीप्सवः ॥वाचा पठंति वेदांतांस्तूष्णीन्नानुभवंति ते ॥३॥पूर्वपक्षमहाग्राहे सिद्धांतझषसंकुले ॥वेदांताब्धाविहाज्ञानं मुह्यंति पतिता द्विजाः ॥४॥प्रथमं चित्तशुद्ध्यर्थं वेदांतान्संपठंति ये ॥विवदंते पठित्वा ते कलहं च वितन्वते ॥५॥चित्तशुद्धिर्न वेदांताद्बहुव्यामोहकारणात् ॥ततो वयं न वेदांतान्मुनींद्रा बहु मन्महे ॥६॥चित्तशुद्धिं यदीच्छध्वं लघूपायेन तापसाः ॥उद्घोषयामि सर्वेषां जटातीर्थं निषेवत ॥७॥पुरा सर्वोपकारार्थं तीर्थमज्ञाननाशनम् ॥एतद्विनिर्मितं साक्षाच्छम्भुना गन्धमादने ॥८॥निहते रावणे विप्रा जटां रामस्तु धार्मिकः ॥क्षालयामास यत्तोये तज्जटातीर्थमुच्यते ॥९॥वर्षाणां षष्टिसाहस्रं जाह्नवीजलमज्जनम् ॥गोदावर्यां सकृत्स्नानं सिंहस्थे च बृहस्पतौ ॥१०॥तावत्सहस्रस्नानानि सिंहं देवगुरौ गते ॥गोमत्यां लभ्यते वर्षैस्तज्जटातीर्थदर्शनात् ॥११॥जटातीर्थे मनुष्याणां स्नातानां द्विजपुंगवाः ॥अन्तःकरणशुद्धिः स्यात्ततोऽज्ञानं विनश्यति ॥१२॥अज्ञाननाशे ज्ञानं स्यात्ततो मुक्तिमवाप्स्यसि ॥अखण्डसच्चिदानंदसंपूर्णः स्यात्ततः परम् ॥१३॥अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च ॥१४॥पुरा मुनिवरं कृष्णं भावि तात्मानमच्युतम् ॥पारंपर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् ॥प्रणम्य शिरसा व्यासं शुकः पप्रच्छ वै द्विजाः ॥१५॥॥ श्रीशुक उवाच ॥भगवंस्तात सर्वज्ञ ब्रूहि गुह्यमनुत्तमम् ॥१६॥अन्तःकरणशुद्धिः स्यात्तथाज्ञानविनाशनम् ॥ज्ञानोदयश्च येन स्यादंते मुक्तिश्च शाश्वती ॥१७॥तमुपायं वदस्वाद्य स्नेहान्मम महामुने ॥वेदांताश्चेतिहासाश्च पुराणादीनि कृत्स्नशः ॥१८॥अधीतानि मया त्वत्तः शोधयंति न मानसम् ॥अतो मे चित्तशुद्धिः स्याद्यथा तात तथा वद ॥१९॥इति पृष्टस्तदा व्यासः शुकेन मुनिसत्तमाः ॥रहस्यं कथयामास येनाविद्या विन श्यति ॥२०॥॥ व्यास उवाच ॥शुक वक्ष्यामि ते गुह्यमविद्याग्रन्थिभेदनम् ॥बुद्धिशुद्धिप्रदं पुंसां जन्मादिभयनाशनम् ॥२१॥रामसेतौ महापुण्यं गन्धमादनपर्वते ॥विद्यते पापसंहारि जटातीर्थमिति श्रुतम् ॥२२॥जटां स्वां शोधयामास यत्र रामो हरिः स्वयम् ॥रामो दाशरथिः श्रीमांस्तीर्थाय च वरं ददौ ॥२३॥स्नाति येऽत्र समागत्य जटातीर्थेऽतिपावने ॥अन्तःकरणशुद्धिश्च तेषां भूयादिति स्म सः ॥२४॥विना यज्ञं विना ज्ञानं विना जाप्यमुपोषणम् ॥स्नानमात्राज्जटातीर्थे बुद्धिशुद्धिर्भवेन्नृणाम् ॥२५॥सर्वदानसमं पुण्यं स्नानादत्र भविष्यति ॥दुर्गाण्यनेन तरति पुण्यलोकान्समश्नुते ॥२६॥महत्त्वमश्नुते स्नानाज्जटातीर्थे शुभोदके ॥जटातीर्थं विना नान्यदंतःकरण शुद्धये ॥२७॥विद्यते नियमो वापि जपो वा नान्यदेवता ॥धन्यं यशस्यमायुष्यं सर्वलोकेषु विश्रुतम् ॥२८॥पवित्राणां पवित्रं च जटातीर्थं शुकाधुना ॥सर्वपापप्रशमनं मंगलानां च मंगलम् ॥२९॥भृगुर्वै वारुणिः पूर्वं वरुणं पितरं शुक ॥बुद्धिशुद्धिप्रदोपायमपृच्छत्पावनं शुभम् ॥प्रोवाच वरुणस्तस्मै बुद्धिशुद्धिप्रदं शुभम् ॥३०॥॥ वरुण उवाच ॥रामसेतौ भृगो पुण्ये गन्धमादनपर्वते ॥३१॥Esoteric aspect of JataTemple details at Jataa Teerthaस्नानमात्राज्जटा तीर्थे बुद्धिशुद्धिर्भवेद्ध्रुवम् ॥स पितुर्वचनात्सद्यो भृगुर्वै वरुणात्मजः ॥३२॥गत्वा स्नात्वा जटातीर्थे बुद्धिशुद्धिमवाप्तवान् ॥विनष्टाज्ञानसंतानस्तया शुद्ध्या तदा भृगुः ॥३३॥उत्पन्नाद्वैतविज्ञानः स्वपितुर्वरुणादयम् ॥अखण्डसच्चिदानंदपूर्णाकारोऽभवच्छुक ॥३४॥शंकरांशोऽपि दुर्वासा जटातीर्थेऽभिषेकतः ॥मनःशुद्धिमवाप्याशु ब्रह्मानंदमयोऽभवत् ॥३५॥दत्तात्रेयोऽपि विष्ण्वंशस्तीर्थेऽस्मिन्नभिषेचनात् ॥शुद्धांतःकरणो भूत्वा ब्रह्माकारोऽभवच्छुक ॥३६॥इच्छेदज्ञाननाशं यः स स्नायात्तु जटाभिधे ॥तीर्थे शुद्धतमे पुण्ये सर्वपापविनाशने ॥३७॥जटातीर्थमतस्त्वं च शुक गच्छ महामते ॥मनःशुद्धिप्रदं तस्मिन्स्नानं च कुरु पुण्यदे ॥३८॥पित्रैवमुक्तो व्यासेन शुकः पुत्रस्तदा द्विजाः ॥रामसेतुं महापुण्यं गन्धमादनपर्वतम् ॥३९॥अगमत्स्नातुकामः सञ्जटातीर्थे विशुद्धिदे ॥स्नात्वा संकल्पपृर्वं च जटातीर्थे शुको मुनिः ॥४०॥मनःशुद्धिमनुप्राप्य तेन चाज्ञाननाशने ॥स्वस्वरूपं समापन्नः परमानंदरूपकम् ॥४१॥ये चाप्यन्ये मनःशुद्धिकामाः संति द्विजोत्तमाः ॥जटातीर्थे तु ते सर्वे स्नातुं भक्तिपुरःसरम ॥४२॥अहो जना जटातीर्थे कामधेनुसमे शुभे ॥विद्यमानेऽपि किं तुच्छे रमंतेन्यत्र मोहिताः ॥४३॥भुक्तिकामो लभेद्भुक्तिं मुक्तिकामस्तु तां लभेत् ॥स्नानमात्राज्जटातीर्थे सत्यमुक्तं मया द्विजाः ॥४४॥वेदानुवच नात्पुण्याद्यज्ञाद्दानात्तपोव्रतात्॥उपवासाज्जपाद्योगान्मनःशुद्धिर्नृणां भवेत् ॥४५॥विनाप्येतानि विप्रेंद्रा जटातीर्थेऽतिपावने ॥स्नानमात्रान्मनःशुद्धिर्ब्राह्मणानां ध्रुवं भवेत् ॥४६॥जटातीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ॥शंकरो वेत्ति तत्तीर्थं हरिर्वेत्ति विधिस्तथा ॥४७॥जटातीर्थसमंतीर्थं न भूतं न भविष्यति॥जटातीर्थस्य तीरे यः क्षेत्रपिंडं समाचरेत्॥४८॥गयाश्राद्धसमंपुण्यंतस्य स्यान्नात्र संशयः॥जटातीर्थे नरः स्नात्वा न पापेन विलिप्यते॥दारिद्र्यं न समाप्नोति नेयाच्च नरकार्णवम्॥४९॥श्रीसूत उवाच॥एवं वः कथितं विप्रा जटातीर्थस्य वैभवम् ॥५०॥यत्र व्याससुतो योगी स्नात्वा पापविमोचने ॥अवाप्तवान्मनःशुद्धिमद्वैतज्ञानसाधनाम् ॥५१॥यस्त्विमं पठतेऽध्यायं शृणुते वा समाहितः ॥स विधूयेह पापानि लभते वैष्णवं पदम् ॥५२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये जटातीर्थप्रशंसायां शुकचित्तशुद्धिवर्णनंनाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP