संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ४२ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ४२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ४२ Translation - भाषांतर ॥ श्रीसूत उवाच ॥अथातः सर्वतीर्थानां वैभवं प्रवदाम्यहम् ॥सेतुमध्यनिविष्टानामनुक्तानां मुनीश्वराः ॥१॥अस्ति तीर्थं महापुण्यं नाम्ना तु ऋणमोचनम् ॥ऋणानि त्रीणि नश्यंति नराणामत्र मज्जनात् ॥२॥द्विजस्य जायमानस्य ऋणानि त्रीणि संति हि ॥ऋषीणां देवतानां च पितॄणां च द्विजोत्तमाः ॥३॥ब्रह्मचर्याननुष्ठानादृषीणामृणवान्भवेत् ॥यज्ञादीनामकरणाद्देवानां च ऋणी भवेत् ॥४॥पुत्रानुत्पादनाच्चैव पितृणामृणवान्भवेत् ॥विनापि ब्रह्मचर्येण विना यागं विना सुतम् ॥५॥ऋणमोक्षाभिधे तीर्थे स्नानमात्रेण मानवाः ॥ऋषिदेवपितॄणां तु ऋणेभ्यो मुक्तिमाप्नुयुः ॥६॥ब्रह्मचर्येण यज्ञेन तथा पुत्रोद्भवेन च ॥नैव तुष्यन्ति ऋषयो देवाः पितृगणास्तथा ॥७॥ऋणमोक्षे यथा स्नानादतुलां तुष्टिमाप्नुयुः ॥किं चात्र मज्जनात्तीर्थे दरिद्रा अधमर्णिनः ॥८॥मुक्ता ऋणेभ्यः सर्वेभ्यो धनिनः स्युर्न संशयः ॥यदत्र मज्जनात्पुंसामृणमुक्तिः प्रजायते ॥९॥तस्मादुक्तमिदं तीर्थमृणमोचनसंज्ञया ॥अतोऽत्र ऋणिभिः सर्वैः स्नातव्यं तद्विमुक्तये ॥१०॥एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ॥पांडवैः कृतमप्यत्र तीर्थमस्त्यपरं महत् ॥११॥यत्रेष्टं धर्मपुत्राद्यैः पांडवैः पंचभिः पुरा ॥तदेतत्तीर्थमुद्दिश्य भुक्तिमुक्ति फलप्रदम् ॥१२॥दशकोटिसहस्राणि तीर्थान्यनुत्तमानि हि ॥पंचपांडवतीर्थेस्मिन्सान्निध्यं कुर्वते सदा ॥१३॥आदित्पा वसवो रुद्राः साध्याश्च समरुद्गणाः ॥पांडवानां महातीर्थे नित्यं सन्निहितास्तथा ॥१४॥अत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत् ॥सर्वपापविनिर्मुक्तो ब्रह्म लोके स पूज्यते ॥१५॥अप्येकं भोजयेद्विप्रमेतत्तीर्थतटेऽमले ॥तेनासौ कर्मणा त्वत्र परत्रापि च मोदते ॥१६॥ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्य एव वा ॥अस्मिंस्तीर्थवरे स्नात्वा वियोनिं न प्रयाति वै ॥१७॥पांडवानां महातीर्थे पुण्ययोगेषु यो नरः ॥स्नायात्स मनुज श्रेष्ठो नरकं नैव पश्यति ॥१८॥पांडवानां महातीर्थं सायं प्रातश्च यः स्मरेत्॥स स्नातः सर्वतीर्थेषु गंगादिषु न संशयः ॥१९॥इंद्रादिदेवता भिश्च यत्रेष्टं दैत्यशांतये ॥तदन्यद्देवतीर्थाख्यं विद्यते गंधमादने ॥२०॥देवतीर्थे नरः स्नात्वा सर्वपापविमोचितः ॥प्राप्नुयादक्षयाँल्लोकान्सर्व कामसमन्वितान् ॥२१॥जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषेण वा ॥कृतं तद्देवकुंडेस्मिन्स्नानात्सद्यो विनश्यति ॥२२॥यथा सुराणां सर्वेषा मादिर्वै मधुसूदनः ॥तथादिः सर्वतीर्थानां देवकुंडमनुत्तमम् ॥२३॥यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ॥यस्त्वेको देवकुंडेस्मिन्कदाचित्स्नान माचरेत् ॥२४॥सममेव तयोः पुण्यं नात्र संदेहकारणम् ॥दुर्लभं देवतीर्थेस्मिन्दानं वासश्च दुर्लभः ॥२५॥देवतीर्थाभिगमनं स्नानं चाप्य तिदुर्लभम्॥देवतीर्थं समासाद्य देवर्षिपितृसेवितम् ॥२६॥अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥द्विदिनं त्रिदिनं चापि पंच वाथ षडेव वा ॥२७॥उषित्वा देवकुंडस्थतीरे नरकनाशने ॥न मातृयोनिमाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम् ॥२८॥त्रिरात्रस्नानतो ह्यत्र वाजपेयफलं भवेत् ॥देवतीर्थस्मृतेः सद्यः पापेभ्यो मुच्यते नरः ॥२९॥अर्चयित्वा पितॄन्देवानेतत्तीर्थतटे नरः ॥सर्वकामसमृद्धिः स्यात्सर्वयज्ञफलं लभेत् ॥३०॥एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति ॥तस्मादवश्यं स्नातव्यं देवतीर्थे मुमुक्षुभिः ॥३१॥ऐहिकामुष्मिकफलप्राप्तिकामैश्च मानवैः ॥देवतीर्थस्य माहात्म्यं संक्षिप्य कथितं द्विजाः ॥३२॥विस्तरेणास्य माहात्म्यं मया वक्तुं न पार्य्यते ॥सुग्रीवतीर्थं वक्ष्यामि रामसेतौ विमुक्तिदे ॥३३॥अत्र स्नात्वा नरो भक्त्या सूर्यलोकं समश्नुते ॥सुग्रीवतीर्थे स्नानेन हयमेधफलं भवेत् ॥३४॥ब्रह्महत्यादि पापानां निष्कृतिश्चापि जायते ॥सुग्रीवतीर्थगमनाद्गोसहस्रफलं लभेत् ॥३५॥स्मरणात्तस्य वेदानां पारायणफलं लभेत् ॥दिनोपवासमात्रेण तस्य तीर्थस्य तीरतः. ॥३६॥महापात कनाशः स्यात्प्रायश्चित्तं विना द्विजाः ॥तत्राभिषेकं कुर्वाणः पितृदेवांश्च तर्पयेत् ॥३७॥आप्तोर्यामस्य यज्ञस्य फलमष्टगुणं भवेत् ॥सुग्रीवतीर्थस्नानेन नरमेधफलं लभेत ॥३९॥सुग्रीवतीर्थस्नानेन नरो जातिस्मरो भवेत् ॥सुग्रीवतीर्थं भो विप्राः प्रयाताभीष्टसिद्धये ॥३९॥सुग्रीवतीर्थमा हात्म्यमेवं वः कथितं द्विजाः ॥वैभवं नलतीर्थस्य त्विदानीं प्रब्रवीमि वः ॥४०॥नलतीर्थे नरः स्नानात्स्वर्गलोकं समश्नुते॥नलतीर्थे सकृत्सनानात्सर्वपापाविमोचितः॥४१॥अग्निष्टोमातिरात्रादिफलमाप्नोत्यनुत्तमम्॥त्रिरात्रमुषितस्तस्मिंस्तर्पयन्पितृदेवताः॥४२॥सूर्यवद्भासते विप्रा वाजिमेधफलं लभेत् ॥नीलतीर्थं प्रवक्ष्यामि महापातकनाशनम् ॥४३॥अग्निपुत्रेण नीलेन कृतं सेतौ विमुक्तिदम् ॥नीलतीर्थे नरः स्नानात्सर्वपापविमोचितः ॥४४॥बहुवर्ण्यस्य यागस्य फलं शतगुणं लभेत् ॥नीलतीर्थे नरः स्नात्वा सर्वा भीष्टप्रदायिनि ॥४५॥अग्निलोकमवाप्नोति सर्वकामसमृद्धिमान् ॥गवाक्षेण कृतं तीर्थं गंधमादनपर्वते ॥४६॥विद्यते स्नानमात्रेण नरकं नैव याति सः ॥अगदेन कृतं तीर्थमस्ति सेतौ विमुक्तिदे ॥४७॥अत्र स्नानेन मनुजो देवेंद्रत्वं समश्नुते ॥गजेन गवयेनात्र शरभेण महौजसा ॥४८॥कुमुदेन हरेणापि पनसेन बलीयसा ॥कृतानि यानि तीर्थानि तथाऽन्यैः सर्ववानरैः ॥४९॥रामसेतौ महापुण्ये गन्धमादनपर्वते ॥तेषु तीर्थेषु यः स्नाति सोऽमृतत्वं समश्नुते ॥५०॥विभीषणकृतं तीर्थमस्ति पापविमोचनम् ॥महादुःखप्रशमनं महारोगनिबर्हणम् ॥५१॥महापातकसंघानामनलोपममुत्तमम् ॥कुंभीपाकादिनरकक्लेशनाशनकारणम् ॥५२॥दुःस्वप्र नाशनं धन्यं महादारिद्र्यबाधनम्॥तत्र यो मनुजः स्नायात्तस्य नास्तीह पातकम् ॥५३॥स वैकुंठमवाप्नोति पुनरावृत्तिवर्जितम् ॥विभीषणस्य सचिवैः कृतं तीर्थचतुष्टयम् ॥५४॥तत्र स्नानेन मनुजः सर्वपापैः प्रमुच्यते ॥सरयूश्च नदी विप्रा गंधमादनपर्वते ॥५५॥रामनाथं महादेवं सेवितुं वर्तते सदा ॥तत्र स्नात्वा नराः सर्वे सर्वपातकवर्जिताः ॥५६॥सर्वयज्ञतपस्तीर्थसेवाफलमवाप्नुयुः ॥दशकोटिसहस्राणि तीर्थानि द्विजसत्तमाः ॥५७॥वसंत्यस्मिन्महापुण्ये गन्धमादनपर्वते ॥गंगाद्याः सरितः सर्वास्तथा वै सप्तसागराः ॥५८॥ऋष्याश्रमाणि पुण्यानि तथा पुण्यवनानि च ॥अनुत्तमानि क्षेत्राणि हीरशंकरयोस्तथा ॥५९॥सान्निध्यं कुर्वते नित्यं गन्धमादनपर्वते ॥उपवीतांतरं तीर्थं प्रोक्तवांश्चतुराननः ॥६०॥त्रयस्त्रिंशत्कोट्योऽत्र देवाः पितृगणैः सह ॥सर्वैश्च मुनिभिः सार्द्धं यक्षैः सिद्धैश्च किन्नरैः ॥वसंति सेतौ देवस्य रामच न्द्रस्य चाज्ञया ॥६१॥॥ श्रीसूत उवाच ॥एवमुक्तं द्विजश्रेष्ठा तीर्थानां वैभवं मया ॥६२॥इदं पठन्वा शृण्वन्वा दुःखसंघाद्विमुच्यते ॥कैवल्यं च समाप्नोति पुनरावृत्तिवर्जितम् ॥६३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सकलतीर्थप्रशंसायामृणमोचनादितीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशोऽध्यायः॥४२॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP