संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अनेकार्थसङ्ग्रहः| षट्स्वरकाण्डः अनेकार्थसङ्ग्रहः विषयानुक्रमणिकाः प्राक्कथनम् एकस्वरकाण्डः द्विस्वरकाण्डः त्रिस्वरकाण्डः चतुःस्वरकाण्डः पञ्चस्वरकाण्डः षट्स्वरकाण्डः परिशिष्टकाण्डः अनेकार्थसङ्ग्रहः - षट्स्वरकाण्डः आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः Tags : anekarthahem chandrensanskritअनेकार्थसङ्ग्रहआचार्य श्रीहेमचन्द्रेणसंस्कृत षट्स्वरकाण्डः Translation - भाषांतर अथ षष्ठः काण्डःषट्स्वरकान्ताःग्राममद्गुरिका श्रृङ्ग्यां ग्रामयुद्धेऽपि कीर्त्यते ।स्यान्मदनशलाका तु सार्यां कामोदयौषधौ ॥१॥मातुलपुत्रको धत्तूरफले मातुलात्मजे ।लूतामर्कटकः पुत्रीनवमालिकयोः कपौ ॥२॥वर्णविलोडकः काव्यच्छायाहृत्सन्धिचौरयोः ।स्नानाचिकित्सकश्चातुर्मास्यव्रतकरे नरे ॥३॥स्नानाचिकित्सकं प्रोक्तं नारीपुष्पतपस्ययोः ।सिन्दूरतिलको हस्ती सिन्दूरतिलकाऽङ्गना ॥४॥इति षट्स्वरकान्ताः ।षट्स्वरणान्ताःदोहदलक्षणं गर्भे स्यात्सन्धौ योवनस्य च ।यौवनलक्षणं वक्षोरुहे च लवणिम्नि च ॥५॥इति षट्स्वरणान्ताः ।षट्स्वरतान्ताःअर्धपारावतश्चित्रकण्ठे स्यात्तित्तिरावपि ।इति षट्स्वरतान्ताः ।षट्स्वरयान्ताःप्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये ॥६॥विष्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि ।समुद्रनवनीते स्यात्पीयूषे च सुधाकरे ॥७॥इति षट्स्वरयान्ताः ।इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे षट्स्वरादिकाण्डः षष्ठः । N/A References : N/A Last Updated : November 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP