संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अनेकार्थसङ्ग्रहः| एकस्वरकाण्डः अनेकार्थसङ्ग्रहः विषयानुक्रमणिकाः प्राक्कथनम् एकस्वरकाण्डः द्विस्वरकाण्डः त्रिस्वरकाण्डः चतुःस्वरकाण्डः पञ्चस्वरकाण्डः षट्स्वरकाण्डः परिशिष्टकाण्डः अनेकार्थसङ्ग्रहः - एकस्वरकाण्डः आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः Tags : anekarthahem chandrensanskritअनेकार्थसङ्ग्रहआचार्य श्रीहेमचन्द्रेणसंस्कृत एकस्वरकाण्डः Translation - भाषांतर को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले ।कं शीर्षेऽप्सु सुखे खं स्वसंविदि व्योमनीन्द्रिये ॥५॥शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि ।स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ॥६॥त्वग्वल्कले चर्मणि च न्यग्निम्ने नीचकार्त्स्नयोः ।रुक् शोभाकिरणेच्छासु वाग्भारत्यां वचस्यपि ॥७॥जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ।ज्ञः स्याद्विचक्षणे पद्मासने चान्द्रमसायनौ ॥८॥सद्विद्यमाने सत्ये प्रशस्तार्चितसाधुषु ।भः शुक्रे भमुडौ भांशौ भूस्तु भूमिरिव क्षितौ ॥९॥स्थाने च मः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् ।किं क्षेपनिन्दयोः प्रश्ने वितर्के ज्या तु मातरि ॥१०॥क्ष्मामौर्व्योर्द्युर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि ।रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ॥११॥द्रूः कामरूपिणि स्वर्णे धूर्यानमुखभारयोः ।पूः शरीरे च नगरे श्रीर्लक्ष्म्यां सरलद्रुमे ॥१२॥वेषोपकरणे वेषरचनायां मतौ गिरि ।शोभात्रिवर्गसंपत्त्योः स्रूः स्रवे निर्झरेऽपि च ॥१३॥वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् ।द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने ॥१४॥दृग्दृष्टौ दर्शनेऽध्यक्षे विट्प्रवेशे नृवैश्ययोः ।तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः ॥१५॥त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि ।भाः प्रभावे मयूखे च मास्तु मासे निशाकरे ॥१६॥इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रह एकस्वरकाण्डः प्रथमः ॥१॥ N/A References : N/A Last Updated : November 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP