अनेकार्थसङ्ग्रहः - द्विस्वरकाण्डः

आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः


द्विस्वरकान्ताः

अर्को द्रुभेदे स्फटिके ताम्रे सूर्ये बिडौजसि ।
अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥१॥

चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः ।
एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः ॥२॥

दम्भे पापिनि किट्टे च कङ्को ब्राह्मणलिङ्गिनि ।
लोहपृष्ठे यमे कर्कः श्वेताश्वे दर्पणे घटे ॥३॥

कर्केतनेऽग्नौ राशौ च काकः स्यात्पीठसर्पिणि ।
द्वीपमानद्रुभेदेषु शिरोवक्षालने द्विके ॥४॥

काकं काकसमूहे स्याद्रतबन्धे च योषिताम् ।
काका तु काकजङ्घायां काकोलीकाकनाशयोः ॥५॥

काकोदुम्बरिकाकाकमाचिकारक्तिकास्वपि ।
किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च ॥६॥

कोको वृके चक्रवाके खर्जूरीद्रुमभेदयोः ।
छेको विदग्धे विश्वस्तमृगनीडजयोरपि ॥७॥

टङ्को नीलकपित्थेऽसिकोशे कोपेऽश्मदारणे ।
मानान्तरे खनित्रे च जङ्घायां टङ्कणेऽपि च ॥८॥

तर्को वितर्के काङ्क्षायामूहकर्मविशेषयोः ।
त्रिका कूपस्य नेमौ स्यात्त्रिकं पृष्ठाधरे त्रये ॥९॥

तोकं संतानसुतयोर्द्विकः स्यात्काककोकयोः ।
न्यङ्कुर्मृगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ॥१०॥

मुनिवल्मीकयोर्निष्कः कर्षे हेमनि तत्पले ।
दीनारे साष्टसुवर्णशते वक्षोविभूषणे ॥११॥

पङ्कोऽघे कर्दमे पाकः पचने शिशुदैत्ययोः ।
बको रक्षोभिदि श्रीदे शिवमल्लीबकोटयोः ॥१२॥

भूकश्छिद्रे काले भेको मेघमण्डूकभीरुषु ।
मुष्को मोक्षद्रुमे सङ्घे तस्करे मांसलाण्डयोः ॥१३॥

मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः ।
राका कच्छ्वां दृष्टरजःकन्यायां सरिदन्तरे ॥१४॥

पूर्णेन्दुपूर्णिमायां च रेकः शङ्काविरेकयोः ।
हीनेऽपि रोकं क्रयणभेदे नावि बिलेचरे ॥१५॥

रोकोंऽशौ लङ्का तु शाखा शाकिनी कुलटा पुरी ।
लोको विश्वे जने वल्कं शकले त्वचि शल्कवत् ॥१६॥

शको देशे राजभेदे शङ्का स्यात्संशये भये ।
शङ्कुः पत्त्रशिराजाले संख्याकीलकशंभुषु ॥१७॥

यादोऽस्त्रभेदयोर्मेढ्रे शाको द्वीपे नृपे द्रुमे ।
शक्तौ हरितके चापि शुको व्यासजकीरयोः ॥१८॥

रक्षोऽमात्ये शुकं ग्रन्थिपर्णेऽरत्नुशिरीषयोः ।
शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥१९॥

शूकोऽनुक्रोशकिंशार्वोः शोकेऽभिषवशुङ्गयोः ।
शूका हृल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपि ॥२०॥

शौकं शुकानां समूहे स्त्रीणां च करणान्तरे ।
सृका बाणोत्पलवातः स्तोकः स्याच्चातकाल्पयोः ॥२१॥

इति द्विस्वरकान्ताः ।

द्विस्वरखान्ताः

नखं पुनर्गन्धद्रव्ये नखः करजषण्ढयोः ।
न्युङ्खः सामविशेषस्य षडोंकार्यामतिप्रिये ॥२२॥

पुङ्खः स्यान्मङ्गलाचारे शराङ्गश्येनयोरपि ।
प्रेङ्खा पर्यटने नृत्ते दोलायां वाजिनां गतौ ॥२३॥

मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः ।
रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥२४॥

लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि ।
वीङ्खा तु शूकशिम्बायां गतिभेदेऽपि नर्तने ॥२५॥

शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि ।
शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥२६॥

शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः ।
ज्वालायां लाङ्गलिकायां शिफाशाखाघृणिष्वपि ॥२७॥

सखा सहाये मित्त्रे च सुखं त्रिदिवशर्मणोः ।
सुखा प्रचेतसः पुर्याम्

इति द्विस्वरखान्ताः ।

द्विस्वरगान्ताः

अगः स्यान्नगवत्तरौ ॥२८॥

शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः ।
उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥२९॥

अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते ।
ज्ञानजङ्गमयोश्चापि खगोऽर्कग्रहपक्षिषु ॥३०॥

शरे देवेऽपि खड्गोऽसौ खड्गिशृङ्गे च गण्डके ।
टङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जनदानयोः ॥३१॥

दुर्गं पुनर्दुर्गमे स्याद्दुर्गा तु नीलिकोमयोः ।
नागो मतङ्गजे सर्पे पुंनागे नागकेसरे ॥३२॥

क्रूराचारे नागदन्ते मस्तके वारिदेऽपि च ।
देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ॥३३॥

नागं रङ्गे सीसपत्त्रे स्त्रीबन्धे करणान्तरे ।
पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः ॥३४॥

पिङ्गं बालके पिशङ्गे पूगः क्रमुकसंघयोः ।
फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ॥३५॥

भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु ।
रूपवीर्यप्रयत्नेच्छाश्रीधर्मैश्वर्ययोनिषु ॥३६॥

भंगस्तरंगे भेदे च रुग्विशेषे पराजये ।
कौटिल्ये भयविच्छित्योर्भंगा शणे भंगिः पुनः ॥३७॥

भक्तिवीच्योर्भागो रुपार्द्धके भाग्यैकदेशयोः ।
भृंगं त्वक्पत्रं भृंगास्तु खिड्गधूम्याटमार्कवाः ॥३८॥

षट्पदोऽथ भृगुः सानौ जमदग्निप्रपातयोः ।
शुक्रे रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे ॥३९॥

धनेऽहिकायफणयोः पालनाऽभ्यवहारयोः ।
मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि ॥४०॥

मृगः कुरंगे याच्ञायां मृगयायां गजान्तरे ।
पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे ॥४१॥

युगं हस्तचतुष्के स्याद्रथाद्यंगे कृतादिके ।
वृद्धिनामौषधे युग्मे योगो विश्रब्धघातिनि ॥४२॥

अलब्धलाभे संगत्यां कार्मणध्यानयुक्तिषु ।
वपुः स्थैर्यप्रयोगे च संनाहे भेषजे धने ॥४३॥

विष्कम्भादावुपाये च रङ्गः स्यान्नृत्ययुद्भुवोः रागे रङ्गं तु त्रपुणि रागः स्याल्लोहितादिषु ॥४४॥

गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे ।
लङ्गः संगे च पिङ्गे च लिङ्गं मेहनचिह्नयोः ॥४५॥

शिवमूर्तावनुमाने सांख्योक्तविकृतावपि ।
वङ्गः कार्पासे वृन्ताके वङ्गा जनपादान्तरे ॥४६॥

वङ्गं त्रपुणि सीसे च वल्गुश्छागमनोज्ञयोः ।
व्यङ्गो भेके हीनाङ्गे च वेगो रयप्रवाहयोः ॥४७॥

रेतः किंपाकयोश्चापि शार्ङ्गं विष्णुधनुर्द्धनुः ।
शुङ्ग्याम्राते वटे प्लक्षे शृङ्गं चिह्नविषाणयोः ॥४८॥

क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वोत्कर्षसानुषु ।
शृङ्गः कूर्चशीर्षे शृङ्गी स्वर्णमीनविशेषयोः ॥४९॥

विषायामृषभौषध्यां सर्गस्त्यागस्वभावयोः ।
उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ॥५०॥

इति द्विस्वरगान्ताः ।

द्विस्वरघान्ताः

अर्घः पूजाविधौ मूल्येऽर्घं दुःखे व्यसनैनसोः ।
उद्घो हस्तपुटे वह्नौ श्लाघायां देहजानिले ॥५१॥

ओघः प्रवाहः संघातो द्रुतनृत्तं परंपरा ।
उपदेशश्च मेघस्तु मुस्तके जलदेऽपि च ॥५२॥

मोघो दीने निष्फले च मोघा स्यात् पाटलातरौ ।
लघुः सृक्का लघ्वसारं ह्रस्वं चार्वगुरु द्रतम् ॥५३॥

श्लाघोपात्तीच्छयोः स्तोत्रे--

इति द्विस्वरघान्ताः ।

द्विस्वरचान्ताः

ऽर्चा पूजा प्रतिमाऽपि च ।
कचः शुष्कव्रणे केशे बन्धे पुत्रे च गीष्पतेः ॥५४॥

कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि ।
काञ्ची गुञ्जामेखलयोः पुर्यां कूर्चो विकत्थने ॥५५॥

श्मश्रुणि दम्भे भ्रूमध्ये क्रौञ्चो द्वीपे खगे गिरौ ।
चर्चा स्याच्चर्ममुण्डायां चिन्तास्थासकयोरपि ॥५६॥

चंचुः पंचांङ्गुले त्रोट्यां नीचः पामरखर्वयोः ।
मोचा शाल्मलिकदल्योर्मोचः शिग्रौ रुचिर्द्युतौ ॥५७॥

स्पृहाऽभिष्वङ्गशोभासु वचः शुके वचौषधौ ।
शारिकायां वीच्याल्यूर्म्योरवकाशे सुखाल्पयोः ॥५८॥

शचीन्द्राणीशतावर्योः शुचिः शुद्धे सितेऽनले ।
ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि ॥५९॥

श्रृङ्गारे सूच्यभिनये व्यधने करणे स्त्रियाम् ।

इति द्विस्वरचान्ताः ।

द्विस्वरछान्ताः

अच्छो भल्लूके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम् ॥६०॥

कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च ।
कच्छास्तु देशे कच्छा स्यात् परिधानापराञ्चले ॥६१॥

चीर्यां वाराह्यां च गुच्छो गुच्छे हारकलापयोः ।
पिच्छः पुच्छे पिच्छं वाजे पिच्छा शाल्मलिवेष्टके ॥६२॥

पङ्क्तिः पूगच्छटाकोशमण्डेष्वश्वपदामये ।
मोचायां पिच्छिले म्लेच्छो जातिभेदेऽपभाषणे ॥६३॥

इति द्विस्वरछान्ताः ।

द्विस्वरजान्ताः

अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे ।
अब्जो धन्वन्तरौ चन्द्रे शङ्खेऽब्जं पद्मसंख्ययोः ॥६४॥

आजिः क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले ।
कञ्जो वेधसि केशे च कञ्जं पीयूषपद्मयोः ॥६५॥

कुञ्जो हनो दन्तिदन्ते निकुञ्जे च कुजो द्रुमे ।
आरे नरकदैत्ये च कुब्जो न्युब्जद्रुभेदयोः ॥६६॥

खजा दर्वीमथोः खर्जूः खर्जूरीकीटकण्डुषु ।
गञ्जो भाण्डागारे रीढाखन्योर्गञ्जा सुरागृहे ॥६७॥

गुञ्जा तु कृष्णलायां स्यात् पटहे मधुरध्वनौ ।
द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे ॥६८॥

द्विजा भार्गीरेणुकयोर्ध्वजः पूर्वदिशो गृहे ।
शिश्ने चिह्ने पताकायां खट्वांगे शौण्डिकेऽपि च ॥६९॥

निजो नित्ये स्वकीये च न्युब्जः कुशे स्त्रुचि ।
अधोमुखेऽपि च न्युब्जं कर्मरङ्गतरोः फले ॥७०॥

प्रजा लोके संततौ च पिंजा तूलहरिद्रयोः ।
पिंजो व्यग्रे वधे पिंजं बले बीजं तु रेतसि ॥७१॥

स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे ।
भुजो बाहौ करे मर्जूः शिद्धौ च रजकेऽपि च ॥७२॥

राजी रेखायां पंक्तौ च रुजा त्वामयभङ्गयोः ।
लञ्जः पट्टे च कच्छे च लाजः स्यादार्द्रतण्डुले ॥७३॥

लाजास्तु भृष्टधानाः स्युर्लाजं पुनरुशीरके ।
व्रजोऽध्वगोष्ठसंघेषु वणिग् वाणिज्यजीविनि ॥७४॥

वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि ।
यज्ञान्ने वाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥७५॥

व्याजः शाठ्येऽपदेशे च सज्जौ संनद्धसंभृतौ ।
संजौ ब्रह्मशिवौ

इति द्विस्वरजान्ताः ।

द्विस्वरञान्ताः

प्रज्ञः प्राज्ञे प्रज्ञा तु शेमुषी ॥७६॥

यज्ञः स्यादात्मनि मखे नारायणहुताशयोः ।
संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने ॥७७॥

चेतनाऽर्कस्त्रियोः

इति द्विस्वरञान्ताः ।

द्विस्वरटान्ताः

अट्टो हट्टाऽट्टालकयोर्भृशे ।
चतुष्कभक्तयोरिष्टमीप्सिते क्रतुकर्मणि ॥७८॥

पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिर्मखेच्छयोः ।
संग्रहश्लोकेऽथ कटो गजगण्डे कटौ भृशे ॥७९॥

शवे शवरथौषध्योः क्रियाकारश्मशानयोः ।
किलिञ्जे समये चापि कष्टं गहनकृच्छ्रयोः ॥८०॥

कट्वकार्ये मत्सरे च दूषणे च कटू रसे ।
तिक्ते प्रियङ्गुसुरभिकटुकाराजिकास्वपि ॥८१॥

कुटः कोटे शिलाकुट्टे घटे गेहे कुटी मुरा ।
चित्रगुच्छः कुम्भदासी कूटं पूर्द्वारयन्त्रयोः ॥८२॥

मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः ।
निश्चलेऽयोघने राशौ कृष्टिः कर्षणधीमतोः ॥८३॥

कोट्युत्कर्षाटनीसंख्यास्रिषु खटस्तृणे कफे ।
टङ्केऽन्धकूपे प्रहारे खाटिः शवरथे किणे ॥८४॥

एकग्रहेऽथ खेटः स्याद्ग्रामभेदे कफेऽधमे ।
स्फरे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥८५॥

वराहक्रान्ता च घटा घटने गजसंहतौ ।
गोष्ठ्यां घटस्त्विभशिरः कूटे समाधिकुम्भयोः ॥८६॥

घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावराहयोः ।
घोण्टा पूगबदरयोश्चटुश्चाटुपिचण्डयोः ॥८७॥

व्रत्यासने जटा केशविकारे मांसिमूलयोः ।
झाटो व्रणादिसंमार्ष्टौ कुञ्जकान्तारयोरपि ॥८८॥

त्वष्टाऽर्के विश्वकृत्तक्ष्णोस्त्रुटिः संशयलेशयोः ।
सूक्ष्मैलायां कालमाने त्रोटिचञ्च्वां खगान्तरे ॥८९॥

मीनकज्जुलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि ।
दिष्टिरानन्दे माने च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥९०॥

पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे ।
व्रणादिबन्धने पेषाश्मनि पट्टी ललाटिका ॥९१॥

रोध्रेऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः ।
स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ॥९२॥

पुष्टिः स्यात् पोषणे वृद्धौ फटा तु कैतवे फणे ।
भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने ॥९३॥

शून्यवाट्यामथ म्लिष्टं म्लानमस्पष्टभाषितम् ।
यष्टिर्भार्ग्यां मधुयष्ट्यां ध्वजदण्डेऽस्त्रहारयोः ॥९४॥

रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वस्त्रदेशयोः ।
वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः ॥९५॥

वाटः पथि वृतौ वाटं वरण्डेऽङ्गान्नभेदयोः ।
वाटी वास्तौ गृहोद्यानेत्कट्योर्विटस्तु मूषिके ॥९६॥

खदिरे लवणे षिड्गेऽद्रौ च व्युष्टं फले दिने ।
पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलर्द्धिषु ॥९७॥

विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च ।
सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥९८॥

सिते व्याप्ते स्फुटिस्त्वङ्घ्रिस्फोटे निर्भिन्नचिर्भटे ।
सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः ॥९९॥

प्रचुरे निर्मिते चाथ हृष्टः स्यात् केशरोमसु ।
जातहर्षे प्रतिहते विस्मिते हृषितो यथा ॥१००॥

इति द्विस्वरटान्ताः ।

द्विस्वरठान्ताः

कठो मुनौ स्वर ऋचां भेदे तत्पाठिवेदिनोः ।
कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे ॥१०१॥

काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके ।
दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥१०२॥

कुण्ठोऽकर्मण्ये मूर्खे च कुष्ठं भेषजरोगयोः ।
कोष्ठो निजे कुसूले च कुक्षेरन्तर्गृहस्य च ॥१०३॥

गोष्ठं गोस्थानके गोष्ठी संलापे परिषद्यपि ।
ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः ॥१०४॥

ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः ।
क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते ॥१०५॥

पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे ।
वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ॥१०६॥

शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च ।
श्रेष्ठोऽग्र्ये धनदे षष्ठी गौरी षण्णां च पूरणी ॥१०७॥

हठोऽम्बुपर्ण्यां प्रसभेऽण्डं पेशीकेशमुष्कयोः ।

इति द्विस्वरठान्ताः ।

द्विस्वरडान्ताः

इडेलावत् स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् ॥१०८॥

काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे ।
सहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ॥१०९॥

कुण्डी कमण्डलौ कुण्डो जाराज्जीवत्पतेः सुते ।
देवतोयाशये स्थाल्यां क्ष्वेडः कर्णामये ध्वनौ ॥११०॥

विषे वक्रे क्ष्वेडा सिंहनादवंशशलाकयोः ।
क्ष्वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥१११॥

क्रोडः कोले शनौ क्रोडमङ्के खण्डोऽर्द्ध ऐक्षवे ।
मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः ॥११२॥

कपोले गण्डके योगे वाजिभूषणबुद्वुदे ।
गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः ॥११३॥

गुडः कुञ्जरसंनाहे गोलकेक्षुविकारयोः ।
गुडा तु गुडिकास्नुह्योर्गोण्डः स्याद्वृद्धनाभिके ॥११४॥

पामरजातौ चण्डस्तु यमदासेऽतिकोपने ।
तीव्रे दैत्यविशेषे च चण्डी तु शिवयोषिति ॥११५॥

चण्डा धनहरीशङ्खपुष्प्योश्चूडा शिखाग्रयोः ।
बाहुभूषावलभ्योश्च चोडः कञ्चुकदेशयोः ॥११६॥

जडो मूर्खे हिमाघ्राते जडा स्याच्छूकशिम्बिका ।
ताडोऽद्रौ ताडने घोषे मुष्टिमेयतृणादिके ॥११७॥

ताडी तालीदलतरौ दण्डः सैन्ये दमे यमे ।
मानव्यूहग्रहभेदेष्वश्वेऽर्कानुचरे मथि ॥११८॥

प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः ।
नाडी कुहनचर्यायां घटिकागण्डदूर्वयोः ॥११९॥

नाले गुणान्तरे स्नायौ नीडं स्थाने खगालये ।
पण्डः षण्ढे पण्डा बुद्धौ पाण्डुः कुन्तीपतौ सिते ॥१२०॥

पिण्डो वृन्दे जपापुष्पे गोलबोलेऽङ्गसिह्लयोः ।
कवले पिण्डं तु वेश्मैकगेशे जीवनायसोः ॥१२१॥

बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि च ।
पीडार्तिमर्दनोत्तंसकृपासु सरलद्रुमे ॥१२२॥

भाण्डं मूलवणिग्वित्ते तुरङ्गाणां च मण्डने ।
नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च ॥१२३॥

मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः ।
शाके मण्डा चामलक्यां मुण्डो मण्डितशीर्षयोः ॥१२४॥

राहौ दैत्यान्तरे रण्डा त्वाखुकर्णी मृतप्रिया ।
व्याडो हिंस्रपशौ सर्पे शुण्डा करिकरः सुरा ॥१२५॥

जलेभी नलिनी वारस्त्री शुण्डो मदनिर्भरे ।
शौण्डी चविकपिप्पल्योः शौण्डो विख्यातमत्तयोः ॥१२६॥

षडः पेयान्तरे भेदे षण्डः कानन इड्वरे ।

इति द्विस्वरडान्ताः ।

द्विस्वरढान्ताः

गूढं रहःसंवृतयोर्दाढा दंष्ट्राभिलाषयोः ॥१२७॥

दृढः शक्ते भृशे स्थूले बाढं भृशप्रतिज्ञयोः ।
माढिर्दैन्यं पत्रसिरार्चा मूढस्तन्द्रिते जडे ॥१२८॥

राढा सुह्मेषु शोभायां व्यूढा न्यस्तोरुसंहताः ।
वोढा स्याद्भारिके सूते शण्ढषण्ढौ तु सौविदे ॥१२९॥

वन्ध्यपुंसीड्वरे क्लीबे सोढा मर्षणशक्तयोः ।

इति द्विस्वरढान्ताः ।

द्विस्वरणान्ताः

अणिराणिवदश्रौ स्यात्सीमन्यक्षाग्रकीलके ॥१३०॥

अणुर्व्रीह्यल्पयोरुष्णा ग्रीष्मदक्षातपाऽहिमाः ।
ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि ॥१३१॥

ऋणं देये जलदुर्गे कणो घान्यांशलेशयोः ।
कणा जीरकपिप्पल्योः कर्णश्चम्पापतौ श्रुतौ ॥१३२॥

क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे ।
व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः ॥१३३॥

कीर्णः क्षिप्ते हते छन्ने कुणिः कुकरवृक्षयोः ।
कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ ॥१३४॥

कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि ।
कृष्णां तु मरिचे लोहे कोणो वीणादिवादने ॥१३५॥

लगुडेऽश्रौ लोहिताङ्गे गणः प्रथमसंख्ययोः ।
समूहे सैन्यभेदेऽथ गुणो ज्यासूदतन्तुषु ॥१३६॥

रज्जौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये ।
रुपादावप्रधाने च दोषान्यस्मिन् विशेषणे ॥१३७॥

गेष्णो नटे गायने च घ्राणं तु घ्रातघोणयोः ।
घृणा तु जुगुप्सायां करुणायां घृणिः पुनः ॥१३८॥

अंशुज्वालातरङ्गेषु चूर्णानि वासयुक्तिषु ।
चूर्णं क्षोदे क्षारभेदे जर्णो जीर्णद्रुमेन्दुषु ॥१३९॥

जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽर्के वसुष्वपि ।
झूर्णिः क्रमुकभेदे स्याद्दुष्टदैवश्रुतावपि ॥१४०॥

त्राणं त्राते रक्षणे च त्रायमाणौषधावपि ।
तीक्ष्णं समुद्रलवणे विषायोऽमरकाजिषु ॥१४१॥

आत्मत्यागिनि तिग्मे च तूणी नीलीनिषङ्गयोः ।
द्रुणः स्याद्वृश्चिके भृङ्गे द्रुणं चापकृपाणयोः ॥१४२॥

द्रुणी कूर्म्यां जलद्रोण्यां देष्णो दातरि दुर्दमे ।
द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति ॥१४३॥

नौभेदे शैलसंधौ च पणः कार्षापणे ग्लहे ।
विक्रय्यशाकादिबद्धमुष्टौ मूल्ये भृतौ धने ॥१४४॥

व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ ।
पर्णस्त्रिपत्रे पर्णं तु पत्त्रे प्राणोऽनिले बले ॥१४५॥

हृद्वायौ पूरिते गन्धरसे प्राणास्तु जीविते ।
पार्ष्णिः कुम्भ्यां चमूपृष्टे पादमूलोन्मदस्त्रियोः ॥१४६॥

पूर्णः कृत्त्स्ने पूरिते च फाणिर्गुडकरम्बयोः ।
बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे ॥१४७॥

बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे ।
अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने ॥१४८॥

मेढ्राग्रेऽलिञ्जरे रत्ने मोणः सर्पकरण्डके ।
वाने नक्रमक्षिकायां रणः कोणे क्वणे युधि ॥१४९॥

रेणुर्धूल्यां पर्पटके वर्णः स्वर्णे व्रते स्तुतौ ।
रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे ॥१५०॥

भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः ।
अङ्गरागे च वर्णं तु कुङ्कुमे वाणिरम्बुदे ॥१५१॥

व्यूतौ मूल्ये सरस्वत्यां वीणा स्याद्वल्लकी तडित् ।
वृष्णिर्मेषे यादवे च वेणी सेतुप्रवाहयोः ॥१५२॥

देवताडे केशबन्धे वेणुर्वंशे नृपान्तरे ।
शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतौ ॥१५३॥

शोणो नदे रक्तवर्णे श्योनाकेऽग्नौ हयान्तरे ।
स्थाणुः कीले हरे स्थूणा सूर्म्यां स्तम्भे रुगन्तरे ॥१५४॥

इति द्विस्वरणान्ताः ।

द्विस्वरतान्ताः

अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः ।
अवयवेऽप्यर्थार्हन् स्यात् पूज्ये तीर्थकरेऽपि च ॥१५५॥

अस्तः क्षिप्ते पश्चिमाद्रावर्तिस्त्वटनिपीडयोः ।
आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयोः ॥१५६॥

ईतिरजन्ये प्रवासे स्यादूतिः स्यूतिरक्षयोः ।
ऋतं शिलोञ्छे पानीये पूजिते दीप्तसत्ययोः ॥१५७॥

ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो ऋतुः ।
स्त्रीणां पुष्पे वसन्तादावेतः कर्बुर आगते ॥१५८॥

क्षत्ता शूद्रात्क्षत्रियायां जाते सारथिवेधसोः ।
नियुक्ते दासजे द्वाःस्थे कन्तुः कामकुसूलयोः ॥१५९॥

कान्तो रम्ये प्रिये ग्राव्णि कान्ता प्रियङ्गुयोषितोः ।
कान्तिः शोभाकामनयोः क्षितिर्गेहे भुवि क्षये ॥१६०॥

कीर्तिर्यशसि विस्तारे प्रासादे कर्दमेऽपि च ।
कृतं पर्याप्तयुगयोर्विहिते हिंसिते फले ॥१६१॥

कृत्तं छिन्ने वेष्टिते च केतुर्द्युतिपताकयोः ।
ग्रहोत्पातारिचिह्नेषु गर्तोऽवटे ककुन्दरे ॥१६२॥

त्रिगर्तांशेऽप्यथ ग्रस्तं जग्धे लुप्तपदोदिते ।
गतिर्वहद्व्रणे ज्ञाने यात्रोपायदशाध्वसु ॥१६३॥

गीतिश्छन्दसि गाने च गीतं शब्दितगानयोः ।
गुप्तं गूढे त्राते गुप्तिर्यमे भूगर्तरक्षयोः ॥१६४॥

कारायां घृतमाज्याम्बुदीप्तेष्वथ चिताचिती ।
मृतार्थदारुषु चये जगल्लोकेऽङ्गवायुषु ॥१६५॥

जातं जात्योऽघजनिषु जातिः सामान्यगोत्रयोः ।
मालत्यामामलक्यां च चुल्ल्यां काम्पिल्यजन्मनोः ॥१६६॥

जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः ।
ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ ॥१६७॥

तातोऽनुकम्प्ये पितरि तिक्तस्तु सुरभौ रसे ।
तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे ॥१६८॥

त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः ।
दन्त्यौषध्यामथ दितिर्दैत्यमातरि खण्डने ॥१६९॥

दीप्तं निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः ।
द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके ॥१७०॥

धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः ।
महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥१७१॥

धुतं त्यक्ते कम्पिते च धूतौ कम्पितभर्त्सितौ ।
धूर्तं तु खण्डलवणे धूर्तो धत्तूरमायिनोः ॥१७२॥

धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे ।
संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः ॥१७३॥

नीतिर्नये प्रापणे च पक्तिर्गौरवपाकयोः ।
पङ्क्तिछन्दःश्रेण्योः सेनाभित्पद्गयोर्गतौ ॥१७४॥

प्राप्तिर्महोदये लाभे पित्सन् पिपतिषन् यथा ।
पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः ॥१७५॥

पीता हरिद्रा पीतिः पानेऽश्वे प्रीतिः स्मरस्त्रियाम् ।
प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि ॥१७६॥

पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके ।
पूर्तं पूरितखाताद्योः पृषतवत्पृषन्मृगे ॥१७७॥

बिन्दौ प्रेतो मृते भूतविशेषे च परेतवत् ।
पोतः शिशौ प्रवहणे प्रोतो गुम्फितवाससोः ॥१७८॥

भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके ।
भक्तिः सेवागौणवृत्त्योर्भङ्ग्यां श्रद्धाविभागयोः ॥१७९॥

भास्वान् दीप्रे रवौ भ्रान्तिर्मिथ्याज्ञानेऽनवस्थितौ ।
भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः ॥१८०॥

प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः ।
भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि ॥१८१॥

मांसपाकविरोषे च संपदुत्पादयोरपि ।
भृतिर्मूल्यभरणयोर्मतं तु संमतेऽर्चिते ॥१८२॥

महद्बृहति धीतत्वे राज्ये मरुत्सुरेऽनिले ।
मतिर्बुद्धीच्छयोर्माता गौर्दुर्गा जननी मही ॥१८३॥

मातरस्तु ब्रह्माण्याद्यया मितिरैयत्यमानयोः ।
मुक्ता मौतिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः ॥१८४॥

मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि ।
मृतं मृत्यौ याचिते च यन्ता सूते निषादिनि ॥१८५॥

यतिर्निकारे विरतौ भिक्षौ युतोऽन्विते पृथक् ।
युक्तिर्न्याये योजने च रक्तं नील्यादिरञ्जिते ॥१८६॥

कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे ।
रतिः स्मरस्त्रियां रागे रते रीतिस्तु पित्तले ॥१८७॥

वैदर्भ्यादौ लोहकिट्टे सीमनि स्रवणे गतौ ।
लता ज्योतिष्मतीदूर्वाशाखावल्लीप्रियङ्गुषु ॥१८८॥

स्पृक्कामाधव्योः कस्तूर्यां लिप्तं भुक्तविलिप्तयोः ।
विषाक्ते लूता तु रोगे पिपीलकोर्णनाभयोः ॥१८९॥

वर्तिर्गात्रानुलेपिन्यां दशायां दीपकस्य च ।
दीपे भेषजनिर्माणे नयनाञ्जनलेखयोः ॥१९०॥

व्यक्तो मनीषिस्फुटयोर्वार्त्ता वार्त्ताक्युदन्तयोः ।
कृष्यादौ वर्तने वार्त्तं त्वारोग्यारोगफल्गुषु ॥१९१॥

वृत्तिशालिन्यथ व्याप्तिर्व्यापने लम्भनेऽपि च ।
वास्तु स्याद्गृहभूपुर्योर्गृहे सीमसुरङ्गयोः ॥१९२॥

वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे ।
ज्ञाने लाभे विचरे च वीतमङ्कुशकर्मणि ॥१९३॥

असाराश्वगजे शान्ते वीतिरश्वेऽशने गतौ ।
प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते ॥१९४॥

चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते ।
वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु वर्तने ॥१९५॥

कैशिक्यादौ विवरणे वृतिर्वरणवाटयोः ।
शक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम् ॥१९६॥

शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे ।
शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति ॥१९७॥

शितः शातौ कृशे तीक्ष्णे शितिर्भूर्जे सितेऽसिते ।
श्रीमान्मनोज्ञे तिलकपादपे धनवत्यपि ॥१९८॥

शीतो हिमे च जिह्मे च वानीरबहुवारयोः ।
शीतं गुणे शुक्तमम्ले पूतिभूते च कर्कशे ॥१९९॥

शुक्तिः शङ्खनके शङ्खे कपालखण्डदृग्रुजोः ।
नख्यश्चावर्तयोर्मुक्तास्फोटदुर्नामयोरपि ॥२००॥

श्रुतमाकर्णिते शास्त्रे श्रुतिराम्नायवार्तयोः ।
षड्जाद्यारम्भिकायां च कर्णाकर्णनयोरपि ॥२०१॥

श्वेतं रुप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके ।
श्वेता तु शङ्खिनीकाष्ठपाटल्योः स्यात् सती पुनः ॥२०२॥

कात्यायन्यां च साध्व्यां च सातिर्दानावसानयोः ।
सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा ॥२०३॥

स्थित ऊर्ध्वे सप्रतिज्ञे स्थितिः स्थाने च सीम्नि च ।
सीता जनकजागङ्गाभेदयोर्हलपद्धतौ ॥२०४॥

सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजि ।
सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु ॥२०५॥

ब्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि ।
स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे ॥२०६॥

नदीसंक्रमेऽथ हस्तः करे मानोडुभेदयोः ।
केशात्कलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥२०७॥

वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते ।
हेतिर्ज्वालास्त्रसूर्यांशुषु

इति द्विस्वरतान्ताः ।

द्विस्वरथान्ताः

अर्थो हेतौ प्रयोजने ॥२०८॥

निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु ।
आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥२०९॥

कन्था पुरे प्रावरणे क्वाथो व्यसनदुःखयोः ।
द्रवनिष्पापकेऽथ कुथः स्यादास्तरणदर्भयोः ॥२१०॥

कोथस्तु मथने नेत्ररुग्भेदे शटितेऽपि च ।
ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मिर्तौ ॥२११॥

ग्रन्थिर्वस्त्रादिबन्धे रुग्भेदे कौटिल्यपर्वणोः ।
ग्रन्थि तु ग्रन्थिपर्णे स्याद्गाथा वाग्भेदवृत्तयोः ॥२१२॥

तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः ।
ऋषिजुष्टे जले सत्त्रिण्युपाये स्त्रीरजस्यपि ॥२१३॥

योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुत्थमञ्जने ।
तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयोः ॥२१४॥

प्रस्थः सानौ मानभेदे पीथोऽर्के पीथमम्बुनि ।
पृथुर्विशाले भूपाले वापिकाकृष्णजीरयोः ॥२१५॥

प्रोथोऽश्वघोणाध्वगयोः कट्यां मन्थो रवौ मथि ।
साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गणे ॥२१६॥

यूथी तु मागधीपुष्पविशेषयोः कुरण्टके ।
रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे ॥२१७॥

वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरुपके ।
संस्था स्पशे स्थितौ मृत्यौ सार्थो वृन्दे वणिग्गणे ॥२१८॥

सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुलाकके ।

इति द्विस्वरथान्ताः ।

द्विस्वरदान्ताः

अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥२१९॥

अन्दुः स्यान्निगडे भूषाभेदे ककुदवत् ककुत् ।
श्रेष्ठे वृषाङ्गे राट्चिह्ने क्रव्यान्मांसाशिरक्षसोः ॥२२०॥

कन्दोऽब्दे सूरणे सस्यमूले कुन्दोऽच्युते निधौ ।
चक्रभूमौ च माघ्ये च क्षोदः पेषणचूर्णयोः ॥२२१॥

गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे ।
छदः पत्रे पतत्त्रे च ग्रन्थिपर्णतमालयोः ॥२२२॥

छन्दो वशेऽभिप्राये च दृषत् पाषाणमात्रके ।
निष्पेषणार्थपट्टेऽपि धीदा कन्यामनीषयोः ॥२२३॥

नदो वहेऽब्धौ निनदे नन्दा संपद्यलिञ्जरे ।
तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥२२४॥

आनन्दने च द्यूते च निन्दा कुत्सापवादयोः ।
पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः ॥२२५॥

त्राणे पादे पादचिह्ने व्यवसायापदेशयोः ।
पादो मूलोस्त्रतुर्यांशाङ्ध्रिषु प्रत्यन्तपर्वते ॥२२६॥

भन्दं कल्याणे सौख्ये च भसद्भास्वरमांसयोः ।
भेदो विदारणे द्वैधे उपजापविशेषयोः ॥२२७॥

मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः ।
कस्तूरिकायां क्षेब्ये च मदी कृषकवस्तुनि ॥२२८॥

मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते ।
गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले ॥२२९॥

मृद्वतीक्ष्णे कोमले च रदो दन्ते विलेखने ।
विदा ज्ञानधियोर्बिन्दुविप्रुट्ज्ञात्रो रदक्षते ॥२३०॥

वेदिरङ्गुलिमुद्रायां बुधेऽलंकृतभूतले ।
शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥२३१॥

शरद्वर्षात्यये वर्षे शादः कर्दमशष्पयोः ।
संवित्संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे ॥२३२॥

क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि ।
संपदृद्धौ गुणोत्कर्षे हारे स्वादुस्तु सुन्दरे ॥२३३॥

मृष्टे सूदः सूपकारे व्यञ्जनेऽपि च सूपवत् ।
स्वेदो घर्मे स्वेदने च

इति द्विस्वरदान्ताः ।

द्विस्वरधान्ताः

अन्धोऽन्धकारेऽक्षिवर्जिते ॥२३४॥

अर्धः खण्डेऽर्धं समांशेऽथाब्धिः सरसि सागरे ।
आधिर्मनोर्त्तौ व्यसनेऽधिष्ठाने बन्धकाशयोः ॥२३५॥

ऋद्धं समृद्धे सिद्धान्ने गन्धः संबन्धलेशयोः ।
गन्धकामोदगर्वेषु गाधः स्यात्स्ताघलिप्सयोः ॥२३६॥

गोधा प्राणिविशेषे स्याज्ज्याघातस्य च वारणे ।
दिग्धो लिप्ते विषाक्तेषौ प्रवृद्धस्नेहयोरपि ॥२३७॥

दुग्धं क्षीरे पूरिते च दोग्धा गोपालवत्सयोः ।
अर्थोपजीवककवौ बन्ध आधौ च बन्धने ॥२३८॥

बन्धुर्भ्रातृबान्धवयोर्बाधा दुःखनिषेधयोः ।
बुधः सौम्ये कवौ बुद्धः पण्डिते बुधिते जिने ॥२३९॥

बोधिर्बौद्धसमाधौ चार्हद्धर्माप्तौ च पिप्पले ।
मधुश्चैत्रर्तुदैत्येषु जीवाशाकमधूकयोः ॥२४०॥

मधु क्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च ।
मिद्धं चिन्ताभिसंक्षेपे निद्रालसतयोरपि ॥२४१॥

मुग्धो मूढे रम्ये मेधः क्रतौ मेधा तु शेमुषी ।
राधो वैशाखमासे स्याद् राधा विद्युद्विशाखयोः ॥२४२॥

विष्णुक्रान्तामलक्योः गोपीवेध्यविशेषयोः ।
लुब्ध आकाङ्क्षिणि व्याधे वधो हिंसकहिंसयोः ॥२४३॥

वधूः पत्न्यां स्नुषानार्योः स्पृक्काशारिवयोरपि ।
नवपरिणीतायां च व्याधो मृगयुदुष्टयोः ॥२४४॥

विद्धं सदृग्वेधितयोः क्षिप्ते विधर्द्धिमूल्ययोः ।
प्रकारे भान्नविधिशु विधिर्ब्रह्मविधानयोः ॥२४५॥

विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः ।
विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च ॥२४६॥

वृद्धः प्राज्ञे स्थविरे च वृद्धं शैलेयरूढयोः ।
वृद्धिः कलान्तरे हर्षे वर्धने भेषजान्तरे ॥२४७॥

श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते ।
हव्यकव्यविधाने च शुद्धः केवलपूतयोः ॥२४८॥

स्कन्धः प्रकाण्डे कार्येंऽसे विज्ञानादिषु पञ्चसु ।
नृपे समूहे व्यूहे च सन्धा स्थितिप्रतिज्ञयोः ॥२४९॥

सन्धिर्योनौ सुरगायां नाट्याऽश्लेषभेदयोः ।
साधुर्जैनमुनौ वार्धुषिके सज्जनरम्ययोः ॥२५०॥

सिद्धो व्याड्यादिके देवयोनौ निष्पन्नमुक्तयोः ।
नित्ये प्रसिद्धे सिद्धिस्तु मोक्षे निष्पत्तियोगयोः ॥२५१॥

सिन्धुर्नद्यां गजमदेऽब्धौ देशनदभेदयोः ।
सुधा गङ्गेष्टिकास्नुह्योर्मूर्वालेपामृतेषु च ॥२५२॥

इति द्विस्वरधान्ताः ।

द्विस्वरनान्ताः

अन्नं भक्तेऽशितेऽर्वाश्वेऽधमेऽध्वा कालवर्त्मनोः ।
संस्थाने सास्रवस्कन्धेऽर्थिनौ याचकसेवकौ ॥२५३॥

आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे ।
परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥२५४॥

स्वभावेऽथेन ईशेऽर्केऽथोऽन्नं क्लिन्ने दयापरे ।
ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि ॥२५५॥

कर्म कारकभेदे स्यात्क्रियायां च शुभाशुभे ।
कामी स्यात्कमने चक्रवाके पारावतेऽपि च ॥२५६॥

कृती योग्ये बुधे खड्गी गण्डके खड्गधारिणि ।
ग्रावाश्मनि गिरौ गोमी फेरौ गोमत्युपासके ॥२५७॥

घनः सान्द्रे दृढे दार्ढ्ये विस्तारे मुद्गरेऽम्बुदे ।
सङ्घे मुस्ते घनं मध्यनृत्तवाद्यप्रकारयोः ॥२५८॥

चर्म त्वचि स्फरे चर्मी भूर्जे फलकिभृङ्गिणोः ।
चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि ॥२५९॥

चिह्नमङ्के पताकायां चीनो देशैणतन्तुषु ।
व्रीहौ वस्त्रे छद्म शाठ्येऽपदेशे घातिकर्मणि ॥२६०॥

छन्नं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी ।
छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने ॥२६१॥

जनी स्नुषावनितयोर्जिनोऽर्हद्बुद्धविष्णुषु ।
ज्योत्स्ना स्याज्ज्योतिःसंयुक्तनिशि चन्द्रातपेऽपि च ॥२६२॥

ज्यौत्स्नी पटोली ज्योत्स्नावन्निशोस्तनुर्वपुस्त्वचोः ।
विरलेऽल्पे कृशे दण्डी यमे द्वाःस्थसदण्डयोः ॥२६३॥

दानं मतं गजमदे रक्षणच्छेदशुद्धिषु ।
विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥२६४॥

धनं वित्ते गोधने च स्याद्धन्व स्थलचापयोः ।
धन्वा मरौ धन्वी पार्थे छेके ककुभचापिनोः ॥२६५॥

धनुःशब्दः पियालद्रौ राशिभेदे धनुष्यपि ।
धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः ॥२६६॥

धाना भृष्टयवेऽङ्कुरे धान्याके चूर्णसक्तुषु ।
धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि ॥२६७॥

मागधे क्षपणके च नन्दी गिरिशवेत्रिणि ।
गर्दभाण्डे वटे न्यूनं हीनवच्चोनगर्ह्ययोः ॥२६८॥

पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु ।
दर्शप्रतिपत्सन्धौ च तिथिग्रन्थविशेषयोः ॥२६९॥

पक्ष्माऽक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे ।
गरुत्किञ्जल्कयोश्चापि पत्त्री काण्डे खगे द्रुमे ॥२७०॥

रथेऽद्रौ रथिके श्येने प्रेम तु स्नेहनर्मणोः ।
ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ॥२७१॥

ऋत्विग्योगभिदोश्चाथ बुध्नो गिरिशमूलयोः ।
भर्म भारे भृतौ हेम्नि भानिरंशौ रवौ दिने ॥२७२॥

भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजङ्गमे ।
वैयावृत्यकरे राज्ञि ग्रामण्यां नापितेऽपि च ॥२७३॥

मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे ।
मीनो मन्स्ये राशिभेदे मृत्स्ना तुवर्यपि ॥२७४॥

यानं युग्ये गतौ योनिः कारणे भगताम्रयोः ।
रत्नं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे ॥२७५॥

निशाकरे प्रभौ शक्रे यक्षक्षत्रिययोरपि ।
रास्नैलापर्णी सर्पाक्ष्योः रागी कामिनि रङ्क्तरि ॥२७६॥

रोही रोहीतकेऽश्वत्थे वटे लग्नं तु लज्जिते ।
राशीनामुदये सक्ते लक्ष्म प्रधानचिन्हह्नयोः ॥२७७॥

वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने ।
वस्नं वस्त्रे धने मूल्ये भृतौ वर्ष्म पुनस्तनौ ॥२७८॥

प्रमाणे सुन्दराकारे वर्त्म नेत्रच्छदेऽध्वनि ।
वर्णी पुनश्चित्रकरे लेखके ब्रह्मचारिणि ॥२७९॥

वानं शुष्कफले शुष्के सीवने गमने कटे ।
जलसंप्लुतवातोर्मिसुरङ्गासौरभेषु च ॥२८०॥

वाग्ग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे ।
विन्नं विचारिते लब्धे स्थिते वृषा तु वासवे ॥२८१॥

वृषभे तुरङ्गे पुंसि शाखी तु द्रुमवेदयोः ।
राजभेदे शिखी त्वग्नौ वृक्षे केतुग्रहे शरे ॥२८२॥

चूडावति बलीवर्दे मयूरे कुक्कुटे हये ।
शीनो मूर्खाजगरयोः श्येनः शुक्ले पतत्त्रिणि ॥२८३॥

स्वप्नः स्वापे सुप्तज्ञाने स्थानं स्थित्यवकाशयोः ।
सादृश्ये सन्निवेशे च स्नानं स्नानीय आप्लवे ॥२८४॥

स्त्यानं स्यात्स्निग्ध आलस्ये प्रतिध्वानघनत्वयोः ।
सादी तुरङ्गमारोहे निषादिरथिनोरपि ॥२८५॥

स्वामी प्रभौ गुहे सूनं पुष्पे सूना पुनः सुता ।
अधोजिह्वा वधस्थानं सूनुः पुत्रेऽनुजे रवौ ॥२८६॥

हनुः कपोलावयवे मरणामययोरपि ।
हरिद्रायामायुधे च हली कृषकसीरिणोः ॥२८७॥

इति द्विस्वरनान्ताः ।

द्विस्वरपान्ताः

कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे ।
शास्त्रे न्याये विधौ कूपो गर्तेऽन्धौ गुणवृक्षके ॥२८८॥

मृन्माने कूपके क्षेपो गर्वे लङ्घननिन्दयोः ।
विलम्बेरणहेलासु गोपौ भूपालबल्लवौ ॥२८९॥

ग्रामौघगोष्ठाधिकृतौ गोपी गोपालसुन्दरी ।
शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयोः ॥२९०॥

त्रपा लज्जाकुलटयोस्त्रपु सीसकरङ्गयोः ।
तापः संतापे कृच्छ्रे च तापी तु सरिदन्तरे ॥२९१॥

दर्पो मृगमदे गर्वे पुष्पं विकास आर्तवे ।
धनदस्य विमाने च कुसुमे नेत्ररुज्यपि ॥२९२॥

बाष्प ऊष्माक्षिजलयो रूपं तु श्लोकशब्दयोः ।
पाशावाकारे सौन्दर्ये नाणके नाटकादिके ॥२९३॥

ग्रन्थावृत्तौ स्वभावे च रेपः क्रूरे विगर्हिते ।
रोपौ रोपणेषू रोपं रन्ध्रे लेपस्तु लेपने ॥२९४॥

अशने च सुधायां च वपा विवरमेदसोः ।
शष्पं तु प्रतिमाहीनतायां बालतृणेऽपि च ॥२९५॥

शापः शपथ आक्रोशे शिष्पं स्रुवे क्रियोचिते ।
स्वापो निद्रायां रुग्भेदे शयनाज्ञानमात्रयोः ॥२९६॥

इति द्विस्वरपान्ताः ।

द्विस्वरफान्ताः

गुम्फो दोर्भूषणे दृब्धौ रेफोऽवद्यरवर्णयोः ।
शफं खुरे गवादीनां मूले विटपिनामपि ॥२९७॥

शिफा मातरि मांस्यां च जटायां च सरित्यपि ।

इति द्विस्वरफान्ताः ।

द्विस्वरबान्ताः

कम्बिर्वंशलतादर्व्योः कम्बुर्वलयशङ्खयोः ॥२९८॥

गजे शम्बूके कर्चूरे ग्रीवायां नलकेऽपि च ।
जम्बूर्मेरुतरङ्गिण्यां द्वीपवृक्षविशेषयोः ॥२९९॥

डिम्ब एरण्डभययोर्विप्लवे प्लीह्नि पुप्फुसे ।
बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले ॥३००॥

शम्बः पवौ लोहकाञ्च्यां स्तम्ब आलानगुल्मयोः ।
व्रीह्यादीनां प्रकाण्डे च

इति द्विस्वरबान्ताः ।

द्विस्वरभान्ताः

कुम्भो वेश्यापतौ घटे ॥३०१॥

द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृति गुग्गुलौ ।
कुम्भ्युखायां पाटलायां वारिपर्ण्यां च कट्फले ॥३०२॥

गर्भः कुक्षौ शिशौ सन्धौ भ्रूणे पनसकण्टके ।
मध्येऽग्नावपवरके जम्भः स्याद्दानवान्तरे ॥३०३॥

दन्तभोजनयोरंशे हनौ जम्बीरतूणयोः ।
जृम्भा जृम्भणे विकासे डिम्भो वैधेयबालयोः ॥३०४॥

दम्भः कल्के कैतवे च नाभिः क्षत्रप्रधानयोः ।
चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्यराजि च ॥३०५॥

निभः स्यात्सदृशे व्याजे दम्भो वैणवदण्डके ।
रम्भा त्रिदशभामिन्यां कदल्यां च विभुः प्रभौ ॥३०६॥

व्यापके शङ्करे नित्ये शम्भुर्ब्रह्मार्हतोः शिवे ।
शुभो योगे शुभं भद्रे स्तम्भः स्थूणाङ्गजाड्ययोः ॥३०७॥

सभा सभ्येषु शालायां गोष्ठ्यां द्यूतसमूहयोः ।
स्वभूर्विष्णौ विधावामोऽपक्वे रुग्भेदरोगयोः ॥३०८॥

इति द्विस्वरभान्ताः ।

द्विस्वरमान्ताः

उमा गौर्यां हरिद्रायां कीर्तिकान्त्यतसीष्वपि ।
ऊर्मिः पीडाजवोत्कण्ठाभङ्गप्रकाशवीचिषु ॥३०९॥

वस्रसंकोचलेखायां क्रमः कल्पाङ्घ्रिशक्तिषु ।
परिपाट्यां क्षमः शक्ते हिते युक्ते क्षमावति ॥३१०॥

क्षमा क्षान्तौ क्षितौ कामं बाढेऽनुमितिरेतसोः ।
कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी ॥३११॥

कृमिः क्रिमिश्च लाक्षायां कीटे क्षेमस्तु मङ्गले ।
लब्धसंरक्षणे मोक्षे क्षेमोमा धनहर्यपि ॥३१२॥

क्षौमं स्यादतसीवस्त्रे दुकूलेऽट्टालकेऽपि च ।
खर्मं क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः ॥३१३॥

सदृक्पाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वकः ।
षड्जादौ संवसथे च गुल्मः सैन्योपरक्षणे ॥३१४॥

रुक्सैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि ।
आमलक्येलयोर्वन्यामथ घर्मो निदाघवत् ॥३१५॥

स्वेदाम्भस्यातपे ग्रीष्मोण्मणोर्जाल्मस्तु पामरे ।
असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः ॥३१६॥

जिह्मस्तु कुटिले मन्दे जिह्मं तगरपादपे ।
तोक्मं कर्णमले तोक्मः स्याद्धरिते हरिद्यवे ॥३१७॥

दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च ।
दस्मस्तु हव्यवाहे स्याद् यजमाने मलिम्लुचे ॥३१८॥

धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ।
सत्सङ्गेऽर्हत्यहिंसादौ न्यायोपनिषदोरपि ॥३१९॥

धर्मं दानादिके नेमस्त्वर्धे प्राकारगतयोः ।
अवधौ केतवे काले नेमिः कूपत्रिकाप्रधिः ॥३२०॥

तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ ।
संख्याब्जयोः पद्ममिभबिन्दौ ब्राह्मी तु भारती ॥३२१॥

शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी ।
ब्रह्मशक्तिर्भ्रमस्तु स्याद्भ्रमणे वारिनिर्गमे ॥३२२॥

भ्रान्तौ कुन्दाख्ययन्त्रे च भीष्मो घोरे वृकोदरे ।
हरेऽम्लवेतसे चाथ भीष्मो गाङ्गेयरुद्रयोः ॥३२३॥

राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे ।
यमः कालयमजयोरहिंसादिषु पञ्चसु ॥३२४॥

संयमे यमने ध्वाङ्क्षे यामौ प्रहरसंयमौ ।
रमः कान्ते रक्ताशोके मन्भथे च रमा श्रियाम् ॥३२५॥

रश्मिर्घृणिप्रग्रहयो रामः श्यामे हलायुधे ।
पशुभेदे सिते चारौ राघवे रेणुकासुते ॥३२६॥

रामं तु वास्तुके कुष्ठे रामा हिङ्गुलिनीस्त्रियोः ।
रुक्मं लोहे सुवर्णे च रुमा स्याल्लवणाकरे ॥३२७॥

सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपतप्रियङ्गुषु ।
वमिर्वान्तेऽनले वामः कामे सव्ये पयोधरे ॥३२८॥

उमानाथे प्रतिकूले चारौ वामा तु योषिति ।
वामी शृगाल्यां करभीरासभीवडवासु च ॥३२९॥

शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदे शितौ ।
हरिते प्रयागवटे कोकिले वृद्धदारके ॥३३०॥

श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः ।
शारिवावल्गुनीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु ॥३३१॥

अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः ।
शुष्ममोजसि सूर्ये च समं साध्वखिलं सद्दक् ॥३३२॥

सीमाघाटे स्थितौ क्षेत्रे सूक्ष्मोऽणौ सूक्ष्ममल्पके ।
अध्यात्मे कतके सोमस्त्वौषधीतद्रसेन्दुषु ॥३३३॥

दिव्यौषध्यां घनसारे समीरे पितृदैवते ।
वसुप्रभेदे सलिले वानरे किन्नरेश्वरे ॥३३४॥

हिमं तुषारे शीते च हिमश्चन्दनपादपे ।
होमिः सर्पिषि वह्नौ च स्यादर्य्यः स्वामिवैश्ययोः ॥३३५॥

इति द्विस्वरमान्ताः ।

द्विस्वरयान्ताः

अर्थ्यं शिलाजतुन्यर्थशालिनि न्यायविज्ञयोः ।
अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभेवेऽधमे ॥३३६॥

अर्घ्यमर्घार्थमर्घार्हमास्यं मुखभवे मुखे ।
मुखान्तरास्या तु स्थित्यामार्यौ सज्जनसंविदौ ॥३३७॥

आर्योमाच्छन्दसोरिज्या दाने सङ्गेऽध्वरेऽर्चने ।
इभ्यो धनवतीभ्या तु करेण्वां सल्लकीतरौ ॥३३८॥

कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये ।
कल्या कल्याणवाची स्यात्कश्यं कशार्हमद्ययोः ॥३३९॥

अश्वमध्ये क्षयो गेहे कल्पान्तेऽपचये रुजि ।
कन्या नार्य्यां कुमार्य्यां च राश्योषधिविशेषयोः ॥३४०॥

कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्योद्योगकाञ्चिषु ।
बृहतिकेभनाडयोश्च कार्यं हेतौ प्रयोजने ॥३४१॥

कायः कदैवते मूर्तौ सङ्घे लक्ष्यस्वभावयोः ।
कायं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः ॥३४२॥

काव्यं ग्रन्थे काव्यः शुक्रे कांस्यं तैजसवाद्ययोः ।
पानपात्रे मानभेदे क्रिया करणचेष्टयोः ॥३४३॥

कर्मोपायचिकित्सासु निष्कृतौ सम्प्रधारणे ।
अर्चाप्रारम्भशिक्षासु कुल्यं तु कुलजेऽस्थनि ॥३४४॥

सूर्पामिषाष्टद्रोणीषु कुल्या सरिति सारणौ ।
कृत्यो विद्विषि कार्ये च कृत्या स्याद्देवता क्रिया ॥३४५॥

गव्यं क्षीरादिके ज्यायां रागवस्तुनि गोहिते ।
गव्या गोवृन्दगव्यूत्योर्गुह्यः कमठदम्भयोः ॥३४६॥

गुह्यमुपस्थे रहस्ये गृह्यं तु मलवर्त्मनि ।
गुह्योऽस्वैरिणि पक्ष्ये च गृहासक्तभृगाण्डजे ॥३४७॥

गृह्या तु शाखानगरे गेयौ गातव्यगायनौ ।
गोप्यौ दासेरगोप्तव्यौ चयः प्राकारपीठभूः ॥३४८॥

समूहेऽप्यथ चव्या स्याच्चविकाशतपर्वयोः ।
चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि ॥३४९॥

चैत्यं जिनौकस्तद्विम्बं चेत्यो जिनसभातरुः ।
उद्देश्यवृक्षश्चोद्यं तु प्रेर्ये प्रश्नेऽद्भुतेऽपि च ॥३५०॥

छाया पङ्क्तौ प्रतिमायामर्कयोषित्यनातपे ।
उत्कोचे पालने कान्तौ शोभायां च तमस्यपि ॥३५१॥

जयो जयन्ते विजये जयोमा तत्सखी तिथिः ।
पथ्या जयन्त्यग्निमन्थे जन्यो जामातृवत्सले ॥३५२॥

जनके जननीये च नवोढानुचरादिके ।
जन्यं कौलीने युध्यट्टे जन्या मातृसखीमुदोः ॥३५३॥

त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि ।
तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाग्रजे ॥३५४॥

अश्वकर्माह्वयतरौ स्यात्तार्क्ष्यं तु रसाञ्जने ।
तिष्यः पुष्यवत्कलौ भे तिष्या त्वामलकीतरौ ॥३५५॥

द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः ।
विनये भेषजे रीर्य्यां दस्युः प्रत्यर्थिचौरयोः ॥३५६॥

दायो दाने यौतकादिधने सोल्लुण्ठभाषणे ।
विभक्तव्यपितृद्रव्ये दिव्यं वल्गुलवङ्गयोः ॥३५७॥

द्युभवे दिव्यामलक्यां दूष्यं वाससि तद्गृहे ।
दूषणीये चाथ दैत्योऽसुरे दैत्या सुरौषधौ ॥३५८॥

धन्यः पुण्ययुते धन्यामलक्यामुपमातरि ।
धान्यं तु व्रीहौ धन्याके धिष्ण्यं स्थानोडुवेश्मसु ॥३५९॥

बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु ।
नीतिद्यूतभिदोः पथ्यं हितं पथ्या हरीतकी ॥३६०॥

पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोके पद्या तु वर्त्मनि ।
प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः ॥३६१॥

प्रियो वृद्ध्यौषधे हृद्ये पत्यौ पुण्यं तु सुन्दरे ।
सुकृते पावने धर्मे पूज्यः श्वसुरवन्द्ययोः ॥३६२॥

बल्यं रेतोबलकृतोर्भयं भीतौ भयङ्करे ।
कुब्जकपुष्पे भव्यं तु फले योग्ये शुभेऽस्थनि ॥३६३॥

सत्ये भाविनि भव्यस्तु कर्मरङ्गतरौ सति ।
भव्योमाकरिपिप्पल्योर्भाग्यं कर्म शुभाशुभम् ॥३६४॥

मध्यं न्याय्येऽवलग्नेऽन्तर्मया दैत्योष्ट्रवेसराः ।
मयुर्मृगाश्वमुखयोर्मन्युर्दैत्ये क्रतौ क्रुधि ॥३६५॥

माल्यं मालाकुसुमयोः स्यान्माया शाम्बरी कृपा ।
दम्भो बुद्धिश्च मायस्तु पीताम्बरेऽम्बरेऽपि च ॥३६६॥

मूल्यं वस्ने वेतने च ययुर्यज्ञहये हये ।
याम्याऽवाच्यां भरण्यां च योग्यो योगार्हशक्तयोः ॥३६७॥

उपायिनि प्रवीणे च योग्यमृद्ध्याह्वयौषधौ ।
योग्यार्कयोषित्यभ्यासे रम्यश्चम्पकहृद्ययोः ॥३६८॥

रम्या रात्रावथ रथ्यो रथांशे रथवोढरि ।
रथ्या तु रथसङ्घाते प्रतोल्यां पथि चत्वरे ॥३६९॥

रुप्यमाहतहेमादौ रजते रुपवत्यपि ।
लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः ॥३७०॥

लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः ।
विन्ध्या त्रुटौ लवल्यां च वीर्यं तेजःप्रभावयोः ॥३७१॥

शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपि च ।
वीक्ष्यस्तु लासके वाहे वेश्यं तु गणिकागृहे ॥३७२॥

वेश्या तु पण्ययोषायां शल्यः स्यान्मदनद्रुमे ।
नृपभेदेऽश्वाविधि च सीम्नि शस्त्रशलाकयोः ॥३७३॥

शय्या तल्पे शब्दगुम्फे शून्यं बिन्दौ च निर्जने ।
शून्या तु नलिका शौर्यं चारभट्यां बलेऽपि च ॥३७४॥

सह्यमारोग्ये सोढव्ये सह्योऽद्रौ सव्यं दक्षिणे ।
वामे च प्रतिकूले च सत्यं तु शपथे कृते ॥३७५॥

तथ्ये तद्वति सत्यस्तु लोकभित्संख्यमाहवे ।
संख्यैकादौ विचारे च सन्ध्या कालनदीभिदोः ॥३७६॥

चिन्तायां संश्रवे सीम्नि सन्धाने कुसुमान्तरे ।
साध्यो योगे साधनीये गणे दैवतभिद्यपि ॥३७७॥

सायः शरेऽपराह्णे च स्थेयोऽक्षदृक्पुरोधसोः ।
सेव्यमुशीरे सेवार्हे सैन्यं सैनिकसेनयोः ॥३७८॥

सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते ।
सौम्याः पुनर्मृगशिरःशिरःस्थाः पञ्चतारकाः ॥३७९॥

हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके ।
हृत्प्रिये हृद्धिते हृज्जे हृद्या तु वृद्धिभेषजे ॥३८०॥

हृद्यस्तु वशकृन्मन्त्रे

इति द्विस्वरयान्ताः ।

द्विस्वररान्ताः

अग्रं पुरः प्रथमेऽधिके ।
उपर्य्यालम्बने श्रेष्ठे परिमाणे पलस्य च ॥३८१॥

भिक्षाप्रकारे सङ्घाते प्रान्तेऽप्यद्रिस्तु पर्वते ।
सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे ॥३८२॥

अस्रः शिरसिजे कोणे स्यादस्रं शोणितेऽश्रुणि ।
अस्त्रं चापे प्रहरणेऽप्यह्निः पादद्रुमूलयोः ॥३८३॥

अरो जिनेऽरं चक्राङ्गे शीघ्रशीघ्रगयोरपि ।
आरो रीरी शनिर्भौम आरा चर्मप्रभेदिनी ॥३८४॥

इराम्भोवाक्तुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि ।
आदित्ये योगभेदे स्यादिन्द्रा तु फणिज्झके ॥३८५॥

उग्रः क्षत्रियतः शूद्रासूनावुत्कटरुद्रयोः ।
उग्रा वचाछिक्किकयोरुस्रा गवोपचित्रयोः ॥३८६॥

उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् ।
ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे ॥३८७॥

औड्रो जने जपावृक्षे करः प्रत्यायशुण्डयोः ।
रश्मौ वर्षोपले पाणौ क्षरो मेघे क्षरं जले ॥३८८॥

कद्रुः कनकपिङ्गे स्यात्कद्रूस्तु नागमातरि ।
कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ ॥३८९॥

कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके ।
स्याद्धेमकारिकायां च क्षारः काचे रसे गुडे ॥३९०॥

भस्मनि धूर्तलवणे कारिः शिल्पी क्रियाऽपि च ।
कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि ॥३९१॥

कीरः शुके जनपदे क्षीरं पानीयदुग्धयोः ।
क्षुरो गोक्षुरके कोकिलाख्ये छेदनवस्तुनि ॥३९२॥

क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः ।
क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ॥३९३॥

चाङ्गेरिकायां हिंस्रायां मक्षिकामात्रवेश्ययोः ।
कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥३९४॥

क्रूरा नृशंसघोरोष्णकठिनाः कृच्छ्रमंहसि ।
कष्टे सान्तपने क्षेत्रं भरतादौ भगाङ्गयोः ॥३९५॥

केदारे सिद्धभूपत्न्योः क्रोष्ट्री क्षीरविदारिका ।
शृगालिका लाङ्गली च क्षौद्रं तु मधुनीरयोः ॥३९६॥

खरो रक्षोऽन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च ।
खरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च ॥३९७॥

खुरः शफे कोलदले गरस्तूपविषे विषे ।
रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥३९८॥

गजाग्रदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके ।
शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने ॥३९९॥

गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके ।
गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके ॥४००॥

अलघौ दुर्जरे चापि गृद्ध्रो गृध्नौ खगान्तरे ।
गोत्रं क्षेत्रेऽन्वये छत्रे सम्भाव्यबोधवर्त्मनोः ॥४०१॥

वने नाम्नि च गोत्रोऽद्रौ गोत्रा भुवि गवाङ्गणे ।
गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ॥४०२॥

विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे ।
गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् ॥४०३॥

रजन्यां रोचनीनद्योर्घस्रो वासरहिंस्रयोः ।
घोरो हरे दारुणे च चरः स्याज्जङ्गमे स्पशे ॥४०४॥

चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे ।
कुलालाद्युपकरणे राष्ट्रे सैन्यरथाङ्गयोः ॥४०५॥

जलावर्त्ते छले चक्रः कोके चन्द्रोऽम्बुकाम्ययोः ।
स्वर्णे सुधांशौ कर्पुरे कम्पिल्ये मेचकेऽपि च ॥४०६॥

चरुर्हव्यान्ने भाण्डे च चारो बन्धावसर्पयोः ।
गतौ पियालवृक्षे च चित्रं खे तिलकेऽद्भुते ॥४०७॥

आलेख्ये कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः ।
गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः ॥४०८॥

चीरं वाससि चूडायां गोस्तने सीसपत्रके ।
चीरी कच्छाटिकाझिल्ल्योश्चुक्रस्त्वम्लेऽम्लवेतसे ॥४०९॥

वृक्षाम्ले चुक्री चाङ्गेर्य्यां चैत्रो मासाद्रिभेदयोः ।
चैत्त्रं मृतकचैत्ये च चौरो दस्युसुगन्धयोः ॥४१०॥

छत्त्रं स्यादातपत्राणे छत्त्रा मधुरिकौषधौ ।
धान्यके च शिलीन्ध्रे च छिद्रं विवररन्ध्रवत् ॥४११॥

गर्ते दोषे जारस्तूपपत्तौ जार्यौषिधीभिदि ।
जीरस्त्वजाज्यां खड्गे च टारो लिङ्गतुरङ्गयोः ॥४१२॥

तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः ।
अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ॥४१३॥

श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके ।
इतिकर्तव्यतातन्त्वोस्तन्त्री स्याद्वल्लकीगुणे ॥४१४॥

अमृतायां च नद्ध्र्यां च शिरायां वपुषोऽपि च ।
तरिर्दशायां बेडायां वस्त्रादीनां च पेटके ॥४१५॥

तन्द्री निद्रा प्रमीला च तारो निर्मलमौक्तिके ।
मुक्ताशुद्धावुच्चनादे नक्षत्रनेत्रमध्ययोः ॥४१६॥

तारं रुप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् ।
सुग्रीवपत्न्यां ताम्रं तु शुल्बे शुल्बनिभेऽपि च ॥४१७॥

तीव्रं कटूष्णात्यर्थेषु तीव्रा तु कटुरोहिणी ।
गण्डदूर्वासुरी तीरो वङ्गे तीरं पुनस्तटे ॥४१८॥

तोत्त्रं वेणुके प्रतोदे दरः स्याद्भयगर्तयोः ।
दरी तु कन्दरे दस्रः खरो दस्रौ रवेः सुतौ ॥४१९॥

द्वारं निर्गमेऽभ्युपाये धरः कूर्माधिपे गुरौ ।
कर्पासतूलेऽथ धरा मेदोभूमिजरायुषु ॥४२०॥

धारो जलधरासारवर्षणे स्यादृणेऽपि च ।
धारोत्कर्षे खड्गाद्यग्रे सैन्याग्रे वाजिनां गतौ ॥४२१॥

जलादिपाते सन्तत्यां धात्री भुव्युपमातरि ।
आमलक्यां जनन्यां च धीरो ज्ञे धैर्यसंयुते ॥४२२॥

स्वैरे धीरं तु घुसृणे नरोमर्त्येऽच्युतेर्जुने ।
नरं तु रामकर्पूरे नक्रं नासाग्रदारुणोः ॥४२३॥

नक्रो यादसि नीव्रं तु वलीकवननेमिषु ।
चन्द्रे च रेवतीभे च नेत्रं वस्त्रे मथोगुणे ॥४२४॥

मूलाक्षिनेतृषु परो दूरान्यश्रेष्ठशत्रुषु ।
परन्तु केवले पत्रं यानं पक्षश्छदश्छुरी ॥४२५॥

पारं प्रान्ते परतटे पारी पूरपरागयोः ।
पात्र्यां कर्पूरिकायां च पादबंधे च हस्तिनः ॥४२६॥

पात्त्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि ।
योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि ॥४२७॥

पुरं शरीरे नगरे गृहपाटलिपुत्रयोः ।
पुरस्तु गुग्गुलौ पुण्ड्रः कृमौ दैत्येक्षुभेदयोः ॥४२८॥

वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति ।
पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयोः ॥४२९॥

पूरः स्यादम्भसां वृद्धौ व्रणसंशुद्धिखाद्ययोः ।
पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥४३०॥

पौरं कत्तृणे पुरजे बभ्रुः पिङ्गाग्निशूलिषु ।
मुनौ विशाले नकुले विष्णौ भद्रं तु मङ्गले ॥४३१॥

मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे ।
भद्रो रामचरे हस्तिजातौ मेरुकदम्बके ॥४३२॥

गवि शम्भौ भद्रा विष्टौ नभःसरिति कट्फले ।
कृष्णानन्तारास्नासु च भरोऽतिशयभारयोः ॥४३३॥

भरुर्भर्तृकनकयोर्भारो दशशतीद्वये ।
पलानां वीवधे चापि भीरुर्योषिति कातरे ॥४३४॥

भूरि स्वर्णे प्रचुरे च मन्त्रो देवादिसाधने ।
वेदांशे गुप्तवादे च मरुः पर्वतदेशयोः ॥४३५॥

मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां जनक्षये ।
मात्त्रं त्ववधृतौ स्वार्थे कार्त्स्न्ये मात्रापरिच्छदे ॥४३६॥

अक्षरावयवे द्रव्ये मानेऽल्पे कर्मभूषणे ।
काले वृत्ते च मित्रं तु सख्यौ मित्रे दिवाकरे ॥४३७॥

यात्रोत्सवे गतौ वृत्तौ राष्ट्रमुत्पातनीवृतोः ।
रुरुर्दैत्ये मृगे रेत्रं पीयूषपटवासयोः ॥४३८॥

रेतःसूतकयो रोध्रो लोध्रे रोध्रमघागसोः ।
रौद्रो भीष्मे रसे तीव्रे रौद्री गौर्यां वरो वृतौ ॥४३९॥

विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते ।
वरं तु घुसृणे किञ्चिदिष्टे वरी शतावरी ॥४४०॥

वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः ।
वक्त्रमास्ये छन्दसि च वप्रःप्राकाररोधसोः ॥४४१॥

क्षेत्रे ताते चये रेणौ वज्रं कुलिशहीरयोः ।
बालके वज्रा त्वमृता वर्ध्रः सीसवरत्रयोः ॥४४२॥

व्यग्रो व्यापृताकुलयोर्वारः सूर्यादिवासरे ।
महेश्वरावसरयोर्वृन्दे कुब्जाख्यपादपे ॥४४३॥

वारं तु मदिरापात्रे वारि ह्रीबेरनीरयोः ।
वारिर्घट्यां सरस्वत्यां गजबन्धनभुव्यपि ॥४४४॥

व्याघ्रः करञ्जे शार्दूले रक्तैरण्डतरावपि ।
श्रेष्ठे तूत्तरपदस्थः स्याद् व्याघ्री कण्टकारिका ॥४४५॥

वीरो जिने भटे श्रेष्ठे वीरं शृङ्ग्यां नतेऽपि च ।
वीरा गम्भारिकारम्भातामलक्येलवालुषु ॥४४६॥

मदिराक्षीरकाकोलीगोष्ठोदुम्बरिकासु च ।
पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि ॥४४७॥

वृत्रो मेघे रिपौ ध्वान्ते दानवे वासवे गिरौ ।
वेरं घुसृणवृन्ताकशरीरेषु शरं जले ॥४४८॥

शरः पुनर्दधिसारे काण्डतेजनयोरपि ।
शक्रोऽर्जुनतराविन्द्रे कुटजे शस्त्रमायुधे ॥४४९॥

लोहे शस्त्री छुरिकायां शद्रिर्जिष्णौ तडित्वति ।
शरुः कोपे शरे वज्रे शारः शबलवातयोः ॥४५०॥

द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः ।
शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने ॥४५१॥

शिग्रुः शोभाञ्जने शाके शीघ्रं चक्राङ्गतूर्णयोः ।
उशीरे शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्ययोः ॥४५२॥

शुक्रं तु रेतोऽक्षिरुजोः शुभ्रं दीप्तेऽभ्रके सिते ।
शूरश्चारभटे सूर्य्ये सरौ दध्यग्रसायकौ ॥४५३॥

स्वरः शब्देऽचि षड्जादौ सत्रमाच्छादने क्रतौ ।
सदादाने वने दम्भे स्वरुः स्याद्यूपखण्डके ॥४५४॥

अध्वरे कुलिशे वाणे सारो मज्जास्थिरांशयोः ।
बले श्रेष्ठे च सारन्तु द्रविणन्याय्यवारिषु ॥४५५॥

स्फारस्तु स्फरकादीनां बुद्वुदे विपुलेऽपि च ।
स्थिरो मोक्षे निश्चले च स्थिरा भूःशालपर्ण्यपि ॥४५६॥

सिप्रः स्वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी ।
सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि ॥४५७॥

लाङ्गलेऽथ सुरो देवे सुरा चषकमद्ययोः ।
सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः ॥४५८॥

स्वैरो मन्दे स्वतन्त्रे च हरो रासभरुद्रयोः ।
वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ॥४५९॥

यमवासवसिंहांशुशशाङ्ककपिवाजिषु ।
पिङ्गवर्णे हरिद्वर्णे भेकोपेन्द्रशुकाहिषु ॥४६०॥

लोकान्तरे च हारस्तु मुक्तादामनि संयुगे ।
हिंस्रः स्याद्घातुके हिंस्रा मांसी काकादनी वसा ॥४६१॥

हीरो वज्रे हरे सर्पे हीरा पिपीलिकाश्रियोः ।
होरा तु लग्ने राश्यर्द्धे शास्त्ररेखाप्रभेदयोः ॥४६२॥

इति द्विस्वररान्ताः ।

द्विस्वरलान्ताः

अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे ।
अम्ली चाङ्गेर्यामालं स्यादनर्थहरितालयोः ॥४६३॥

आलिः सख्यावलीसेत्वनर्थेषु विशदाशये ।
आलुर्गलन्तिकायां स्यादालु भेलककन्दयोः ॥४६४॥

इलोर्वी वाग् बुधस्त्री गौः कलं त्वजीर्णरेतसोः ।
अव्यक्तमधुरध्वाने कला स्यात्कालशिल्पयोः ॥४६५॥

कलने मूलरैवृद्धौ षोडशांशे विधोरपि ।
कलिर्बिभीतके शूरे विवादेऽन्त्ययुगे युधि ॥४६६॥

कालः पुनः कुष्णवर्णे महाकालकृतान्तयोः ।
मरणानेहसोः काली कालिकाक्षीरकीटयोः ॥४६७॥

मातृभेदोमयोर्नव्यमेघौघपरिवादयोः ।
काला कृष्णत्रिवृन्नील्योर्जिग्यां कीलोऽग्नितेजसि ॥४६८॥

कफणिस्तम्भयोः शङ्कौ कीला रताहतावपि ।
कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये ॥४६९॥

कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि ।
कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ ॥४७०॥

कोलं तु बदरे कोला पिपल्ल्यां चव्यभेषजे ।
खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे ॥४७१॥

खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः ।
खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ॥४७२॥

गलः कण्ठे सर्जरसे गोलः स्यात्सर्ववर्तुले ।
गोला पत्राञ्जने गोदावर्य्यां सख्यामलिञ्जरे ॥४७३॥

मण्डले च कुनद्यां च बालक्रीडनकाष्ठके ।
चिल्लः खगे स चुल्लश्च पिल्लवत् क्लिन्नलोचने ॥४७४॥

क्लिन्नाक्ष्णि चुल्ली तूद्धाने चेलं गर्हितवस्त्रयोः ।
छलं छद्मस्खलितयोश्छल्ली सन्तानवीरुधोः ॥४७५॥

वल्कले पुष्पभेदे च जलं गोकलले जडे ।
ह्रीवेरेऽम्बुनि जालं तु गवाक्षे क्षारके गणे ॥४७६॥

दम्भानाययोश्च जालो नीपे जाली पटोलिका ।
झला पुत्र्यामातपोर्मौ झिल्ली तूद्वर्तनाशके ॥४७७॥

वर्त्यातपरुचोश्चीर्य्यां तलं ज्याधातवारणे ।
तलश्चपेटे तालद्रौ स्वभावाधरयोः त्सरौ ॥४७८॥

तल्लो जलाधारभेदे तल्ली तु वरुणस्त्रियाम् ।
तालः कालक्रियामाने हस्तमानद्रुभेदयोः ॥४७९॥

करास्फोटे करतले हरिताले त्सरावपि ।
तुला माने पलशते सादृश्ये राशिभाण्डयोः ॥४८०॥

गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिचौ ।
ब्रह्मदारुण्यथ दलं शस्त्रिच्छदेऽर्द्धपर्णयोः ॥४८१॥

उत्सेधवद्वस्तुनि च नलो राज्ञि कपौ नडे ।
पितृदैवे नलं तु स्यात्पद्मे नली मनःशिला ॥४८२॥

नालं काण्डे मृणाले च नाली शाककदम्बके ।
नीलो वर्णे मणौ शैले निधिवानरभेदयोः ॥४८३॥

नील्योषध्यां लाञ्छने च पलमुन्मानमांसयोः ।
पल्लिस्तु ग्रामके कुट्यां पालिर्यूकाश्रिपङ्क्तिषु ॥४८४॥

जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने ।
प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिन्हयोः ॥४८५॥

पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे ।
तालास्थिखण्डेऽथ पुलः पुलके विपुलेऽपि च ॥४८६॥

फलं हेतुकृते जातीफले फलकसस्ययोः ।
त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः ॥४८७॥

फली फलिन्यां फालं तु वाससि फाल उत्प्लुतौ ।
कुशिके च बलं रूपे स्थामनि स्थौल्यसैन्ययोः ॥४८८॥

बोले बलस्तु बलिनि काके दैत्ये हलायुधे ।
बला त्वौषधिभेदे स्याद्बलिर्दैत्योपहारयोः ॥४८९॥

करे चामरदण्डे च गृहदारूदरांशयोः ।
त्वक्सङ्कोचे गन्धके च बालोऽज्ञेऽश्वेभपुच्छयोः ॥४९०॥

शिशौ ह्रीवेरकचयोर्बाला तु त्रुटियोषितोः ।
बाली भूषान्तरे मेधौ बिल उच्चैःश्रवोहये ॥४९१॥

बिलं रन्ध्रे गुहायां च भल्लो भल्लूकबाणयोः ।
भल्ली भल्लातके भालं स्यल्ललाटे महस्यपि ॥४९२॥

भेलः प्लवे मुनिभेदे भीरौ बुद्धिविवर्जिते ।
मल्लः कपाले बलिनि मत्स्ये पात्रे मलस्त्वघे ॥४९३॥

किट्टे कदर्ये विष्टायां मालं तु कपटे वने ।
मालो जने स्यान्माला तु पङ्क्तौ पुष्पादिदामनि ॥४९४॥

मालुः स्त्रियां पत्रवल्ल्यां मूलं पार्श्वद्ययोरुडौ ।
निकुञ्जशिफयोर्मेला त्वञ्जने मेलकेऽपि च ॥४९५॥

मौलिः किरीटे धम्मिल्ले चूडाकङ्केल्लिमूर्द्धसु ।
लीला केलिर्विलासश्च शृङ्गारभावजक्रिया ॥४९६॥

लोलश्चले सतृष्णे च लोला तु रसनाश्रियोः ।
वल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥४९७॥

व्यालो दुष्टगजे सर्पे शठे श्वापदसिंहयोः ।
वेला बुधस्त्रियां काले सीमनीश्वरभोजने ॥४९८॥

अक्लिष्टमरणेऽम्भोधेस्तीरनीरविकारयोः ।
शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः ॥४९९॥

स्कन्धशाखायां शालिस्तु गन्धोतौ कलमादिषु ।
शालुः कषायद्रव्ये स्याच्चौरकाख्यौषधेऽपि च ॥५००॥

शिलमुञ्छः शिला द्वाराऽधोदारु कुनटी दृषत् ।
शिली गण्डूपदी शीलं साधुवृत्तस्वभावयोः ॥५०१॥

शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः ।
योगे शूला तु पण्यस्त्री वधहेतुश्च कीलकः ॥५०२॥

शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके ।
सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥५०३॥

स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः ।
स्थूलः पीने जडे हालः सातवाहनपार्थिवे ॥५०४॥

हाला सुरायां हेला तु स्यादवज्ञाविलासयोः ।
हेलिरालिङ्गने सूर्येऽपि

इति द्विस्वरलान्ताः ।

द्विस्वरवान्ताः

अविर्मूषिककम्बले ॥५०५॥

मेषे रवौ पर्वते च स्यादूर्ध्वं तु समुत्थिते ।
उपर्युन्नतयोः कण्वो मुनौ कण्वं तु कल्मषे ॥५०६॥

क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि ।
विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥५०७॥

किण्वं पापे सुराबीजे क्लीबोऽपौरुषषण्ढयोः ।
खर्वह्रस्वौ न्यग्वामनौ ग्रीवे शिरोधितच्छिरे ॥५०८॥

छविस्तु रुचि शोभायां जवः स्याद् वेगवेगिनोः ।
जवौड्रपुष्पे जिह्वा तु वाचि ज्वालारसज्ञयोः ॥५०९॥

जीवः स्यात्त्रिदशाचार्ये द्रुमभेदे शरीरिणि ।
जवितेऽपि च जीवा तु वचायां धनुषो गुणे ॥५१०॥

शिञ्जते क्षितिजीवन्त्योर्वृत्तौ तत्त्वं परात्मनि ।
वाद्यभेदे स्वरूपे च द्रवो विद्रवनर्मणोः ॥५११॥

प्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्वमाहवे ।
रहस्ये मिथुने युग्मे दवदावौ वनानले ॥५१२॥

वने दर्वी फणातर्व्वोर्दार्वी स्याद्देवदारुणि ।
हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने ॥५१३॥

देवं हृषीके देवस्तु नृपतौ तोयदे सुरे ।
देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि ॥५१४॥

धवो धूर्त्ते नरे पत्यौ द्रुभेदेऽथ ध्रुवो वटे ।
वसुयोगभिदोरातौ शङ्कावुत्तानपादजे ॥५१५॥

स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः ।
ध्रुवा मूर्वाशालिपर्ण्योः स्रुग्भेदे गीतिभिद्यपि ॥५१६॥

नवो नव्ये स्तुतौ नीवी स्त्रीकटीवस्त्रबन्धने ।
मूलद्रव्ये परिपणे प्लवः प्लक्षे प्लुतौ कपौ ॥५१७॥

शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः ।
क्रमनिम्नमहीभागे कुलके जलवायसे ॥५१८॥

जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि ।
पक्वं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥५१९॥

कक्षाधोवयवे वक्रोपायपर्शुसमूहयोः ।
प्राध्वं दूरपथे प्रह्वे बन्धे पूर्वं तु पूर्वजे ॥५२०॥

प्रागग्रे श्रुतिभेदे च भवः सत्ताप्तिजन्मसु ।
रुद्रे श्रेयसि संसारे भावोऽभिप्रायवस्तुनोः ॥५२१॥

स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु ।
चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे ॥५२२॥

शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति ।
नील्यां मेकलकन्यायां लवः कालभिदिच्छिदि ॥५२३॥

विलासे रामजे लेशे लट्वा पक्षिकुसुम्भयोः ।
लघ्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥५२४॥

विश्वाः सुरेषु विश्वन्तु शुण्ठ्यां भुवनकृत्स्नयोः ।
विश्वा विषायां शिवं तु मोक्षे क्षेमे सुखे जले ॥५२५॥

शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे ।
पुण्डरीके द्रुमे कीले शिवा झाटामलोमयोः ॥५२६॥

फेरौ शम्यां पथ्याधात्र्योः शिविर्भुर्जे नृपान्तरे ।
शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ ॥५२७॥

सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः ।
पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ॥५२८॥

सान्त्व सामनि दाक्षिण्ये स्रुवा मूर्वा स्रुवः स्रुचि ।
हवस्तु सप्ततन्तौ स्यान्निदेशाह्वानयोरपि ॥५२९॥

इति द्विस्वरवान्ताः ।

द्विस्वरशान्ताः

अंशुः सूत्रादिसूक्ष्मांशे किरणे चन्द्रदीधितौ ।
आशा ककुभि तृष्णायामाशुस्तु व्रीहिशीघ्रयोः ॥५३०॥

ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके ।
काशस्तृणे रोगभेदे कीशः कपौ दिगम्बरे ॥५३१॥

कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः ।
कुशी लोहविकारे स्यात्कुशा वला कुशं जले ॥५३२॥

केशः शिरसिजे पाशपाणौ ह्रीवेरदैत्ययोः ।
क्लेशो रागादौ दुःखे च कोशः कोष इवाण्डके ॥५३३॥

कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः ।
जातिकोशेऽसिपिधाने दर्शः सूर्येन्दुसङ्गमे ॥५३४॥

पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि चर्मणि ।
दोषे वनमक्षिकायां खण्डने भुजगक्षते ॥५३५॥

दशा वर्ताववस्थायां दशास्तु वसनाञ्चले ।
नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ॥५३६॥

निशा हरिद्रायां रात्रौ पशुश्छागे मृगादिषु ।
प्रमथेऽपि च पाशस्तु मृगपक्ष्यादिबन्धने ॥५३७॥

कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः ।
छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ॥५३८॥

मण्डभेदे पलपिण्डे सुपक्वकणिकेऽपि च ।
भूस्पृग् वैश्ये मानवे च राशिर्मेषादिपुञ्जयोः ॥५३९॥

वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ।
वशा नार्य्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ॥५४०॥

वंशः सङ्घेऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च ।
वेशो वेश्यागृहे गेहे नेपथ्ये च शशः पशौ ॥५४१॥

बोले लोघ्रे नृभेदे च स्पशो हेरिकयुद्धयोः ।
स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि ॥५४२॥

इति द्विस्वरशान्ताः ।

द्विस्वरषान्ताः

अक्षो रथस्यावयवे व्यवहारे बिभीतके ।
पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ ॥५४३॥

अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि ।
बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः ॥५४४॥

महीधरविशेषे च शोणके क्षतवेधने ।
ऋषिर्वेदे मुनौ कर्षः कर्षणे मानभिद्यपि ॥५४५॥

कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे ।
पापे कक्षा त्विभरज्जौ काञ्च्छां गेहप्रकोष्ठके ॥५४६॥

भित्तो साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले ।
उद्ग्राहण्यां च कर्षूस्तु तुषाग्नौ कृषिकुल्ययोः ॥५४७॥

घोषः कांस्ये स्वने गोपघोषकाभीरपल्लिषु ।
घोषा तु शतपुष्पायां चोक्षः सुन्दरगोतयोः ॥५४८॥

शुचौ झषस्तु मकरे वने मीने झषा पुनः ।
नागबलायां तुषस्तु धान्यत्वचि बिभीतके ॥५४९॥

दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ ।
द्रुमे दक्षा तु मेदिन्यां ध्वाङ्क्षः काके बकेऽर्थिनि ॥५५०॥

गृहे ध्वाङ्क्षी तु कक्कोल्यां न्यक्षः कार्त्स्न्यनिकृष्टयोः ।
जामदग्न्येऽपि पक्षस्तु मासार्धे ग्रहसाध्ययोः ॥५५१॥

चुल्लीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये ।
पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ॥५५२॥

प्लक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके ।
प्रेक्षा धीरीक्षणं नृतं प्रैषौ प्रेषणपीडने ॥५५३॥

पौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः ।
भिक्षा सेवाप्रार्थनयोर्भृतौ भिक्षितवस्तुनि ॥५५४॥

माषो माने धान्यभेदे मूर्खे त्वग्दोषभिद्यपि ।
मिषं व्याजे स्पर्द्धने च मेषो राश्यन्तरे हुडौ ॥५५५॥

मोक्षो निःश्रियसे वृक्षविशेषे मोचने मृतौ ।
यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥५५६॥

रूक्षोऽस्निग्धपरुषयोर्लक्षं व्याजशरव्ययोः ।
संख्यायामपि वर्षस्तु समाद्वीपांशवृष्टिषु ॥५५७॥

वर्षवरेऽपि वर्षा तु प्रावृष्यथ विषं जले ।
क्ष्वेडे विषा त्वतिविषा वृषो गव्याखुधर्मयोः ॥५५८॥

पुंराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च ।
श्रेष्ठे स्यादुत्तरस्थश्च वृषी तु व्रतिविष्टरे ॥५५९॥

वृषा पुनः कपिकच्छ्वां शुषिः शुषिरशोषयोः ।
शोषोऽनन्ते वधे सीरिण्युपयुक्तेतरेऽपि च ॥५६०॥

शोषा निर्माल्यदाने स्याच्छोषः शोषणयक्ष्मणोः ।

इति द्विस्वरषान्ताः ।

द्विस्वरसान्ताः

अर्चिर्मयूखशिखयोरदोऽत्र च परत्र च ॥५६१॥

आगः स्यादेनोवदघे मन्तावाशीर्हितैषणे ।
उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥५६२॥

उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः ।
अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ॥५६३॥

ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः ।
पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ॥५६४॥

बुद्धौ विकलवाचि स्याद्गुत्सः स्तम्बगुलुच्छयोः ।
हारभेदे ग्रन्थिपर्णे गोसो बोलविभातयोः ॥५६५॥

चास इक्षुपक्षिभेदोश्छन्दः पद्येच्छयोः श्रुतौ ।
ज्यायान् वृद्धे प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ॥५६६॥

प्रकाशे दृशि नक्षत्रे तपः कृच्छ्रादिकर्मणि ।
धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥५६७॥

तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले ।
त्रासो भये मणिदोषे तेजस्त्विड्रेतसोर्बले ॥५६८॥

नवनीते प्रभावेऽग्नौ दासो धीवरभृत्ययोः ।
वृषले दानपात्रे च दासी झिण्ट्यपि चेट्यपि ॥५६९॥

धनुः शरासने राशौ पियालर्दौ धनुर्धरे ।
नभो व्योम्नि नभा घ्राणे विसतन्तौ पतद्ग्रहे ॥५७०॥

प्रावृषि श्रावणे नासा घोणा द्वारोर्ध्वदारुणोः ।
पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि ॥५७१॥

बर्हिः कुशेऽग्नौ भासस्तु भासि गृद्ध्रशकुन्तयोः ।
महस्तेजस्युत्सवे च मिसिर्मांस्यजमोदयोः ॥५७२॥

शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका ।
रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ॥५७३॥

चोले रागे देहधातौ तिक्तादौ पारदेऽपि च ।
रसा तु रसनापाठामल्लकीक्षितिकङ्गुषु ॥५७४॥

रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः ।
स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥५७५॥

भाषाशृङ्खलके वत्सा उरस्तुग्वर्षतर्णकाः ।
वयस्तारुण्यबाल्यादौ खगे वर्चस्तु तेजसि ॥५७६॥

गूथे रूपे वसुस्त्वग्नौ देवभेदे नृपे रुचि ।
योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने ॥५७७॥

वपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः ।
वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके ॥५७८॥

विद्वान् ज्ञात्मविदोः प्राज्ञे वेधा धातृज्ञविष्णुषु ।
शंसा वचसि वाञ्छायां शिरोमूर्द्धप्रधानयोः ॥५७९॥

सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः ।
सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥५८०॥

स्रोतः प्रवाहेन्द्रिययोर्हंसोऽर्के मत्सरे च्युते ।
खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि ॥५८१॥

निर्लोभनृपतौ प्रणवाते श्रेष्ठेऽग्रतः स्थितः ।
हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे ॥५८२॥

इति द्विस्वरसान्ताः ।

द्विस्वरहान्ताः

अहिः सर्पे वृत्रे वप्रे स्यादीहोद्यमवाञ्छयोः ।
कुहूर्नष्टेन्दुदर्शे स्यात्क्वणिते कोकिलस्य च ॥५८३॥

ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे ।
उपरागे पूतनादावादित्यादौ विधुन्तुदे ॥५८४॥

ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः ।
गह्वरे सिंहपुच्छ्यां च गृहा दारेषु सद्मनि ॥५८५॥

प्रौहो निपुणतर्के स्याद्गजाङ्घ्रिपर्वणोरपि ।
बर्हः पर्णे परीवारे कलापे बहु भूयसि ॥५८६॥

त्र्यादिकासु च संख्यासु महावुत्सवतेजसी ।
मही भुवि नदीभेदे मोहौ मूर्च्छाविपर्ययौ ॥५८७॥

लोहं कालायसे सर्वतेजसे जोङ्गिकेऽपि च ।
वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः ॥५८८॥

वृषे वाहा तु वाहौ स्याद् व्यूहो निर्वाणतर्कयोः ।
समूहे बलविन्यासे सहः क्षमे बलेऽपि च ॥५८९॥

सहोर्व्यां सहदेवायां कुमार्यां नखभेषजे ।
मूद्गपर्ण्यां च सिंहस्तु राशिभेदे मृगाधिपे ॥५९०॥

श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणुमातरि ।
वासावृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके ॥५९१॥

इति द्विस्वरहान्ताः ।
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्रहे द्विस्वरकाण्डो द्वितीयः ॥२॥

N/A

References : N/A
Last Updated : November 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP