संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गिरिराजखण्डः| अध्यायः ११ गिरिराजखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ गिरिराजखण्डः - अध्यायः ११ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता गिरिराजप्रभाववर्णने सिद्धमोक्षवर्णनम् Translation - भाषांतर श्रीनारद उवाच -इति श्रुत्वा सिद्धवाक्यं ब्राह्मणो विस्मयं गतः।पुनः पप्रच्छ तं राजन् गिरिराजप्रभाववित् ॥१॥ब्राह्मण उवाच -पुरा जन्मनि कस्त्वं भोस्त्वया किं कलुषं कृतम् ।सर्वं वद महाभाग त्वं साक्षाद्दिव्यदर्शनः ॥२॥सिद्ध उवाच -पुरा जन्मनि वैश्योऽहं धनी वैश्यसुतो महान् ।आबाल्याद्द्युतनिरतो विटगोष्ठीविशारदः ॥३॥वेश्यारतः कुमार्गोऽहं मदिरामदविह्वलः ।मात्रा पित्रा भार्ययापि भर्त्सितोऽहं सदा द्विज ॥४॥एकदा तु मया विप्र पितरौ गरदानतः ।मारितौ च तथा भार्या खड्गेन पथि मारिता ॥५॥गृहीत्वा तद्धनं सर्वं वेश्यया सहितः खलः ।दक्षिणाशां च गतवान् दस्युकर्माऽतिनिर्दयः ॥६॥एकदा तु मया वेश्या निःक्षिप्ता ह्यंधकूपके ।दस्युना हि मया पाशैर्मारिताः शतशो नराः ॥७॥धनलोभेन भो विप्र ब्रह्महत्याशतं कृतम् ।क्षत्रहत्या वैश्यहत्याः शूद्रहत्याः सहस्रशः ॥८॥एकदा मांसमानेतुं मृगान् हन्तुं वने गतम् ।सर्पोऽदशत्पदा स्पृष्टो दुष्टं मां निधनं गतम् ॥९॥संताड्य मुद्गरैर्घोरैर्यमदूता भयंकराः ।बद्ध्वा मां नरकं निन्युर्महापातकिनं खलम् ॥१०॥मन्वन्तरं तु पतितः कुम्भीपाके महाखले ।कल्पैकं तप्तसूर्मौ च महादुःखं गतः खलः ॥११॥चतुरशीतिलक्षाणां नरकाणां पृथक् पृथक् ।वर्षं वर्षं निपतितो निर्गतोऽहं यमेच्छया ॥१२॥ततस्तु भारते वर्षे प्राप्तोऽहं कर्मवासनाम् ।दशवारं सूकरोऽहं व्याघ्रोऽहं शतजन्मसु ॥१३॥उष्ट्रोऽहं जन्मशतकं महिषः शतजन्मसु ।सर्पोऽहं जन्मसाहस्रं मारितो दुष्टमानवैः ॥१४॥एवं वर्षायुतांते तु निर्जले विपिने द्विज ।राक्षसश्चेदृशो जातो विकरालो महाखलः ॥१५॥कस्य शूद्रस्य देहं वै समारुह्य व्रजं गतः ।वृन्दावनस्य निकटे यमुना निकटाच्छुभात् ॥१६॥समुत्थिता यष्टिहस्ताः श्यामलाः कृष्णपार्षदाः ।तैस्ताडितो धर्षितोऽहं व्रजभूमौ पलायितः ॥१७॥बुभिक्षितो बहुदिनैस्त्वां खादितुमिहागतः ।तावत्त्वया ताडितोऽहं गिरिराजाश्मना मुने ॥१८॥श्रीकृष्णकृपया साक्षात्कल्याणं मे बभूव ह ।श्रीनारद उवाच -एवं प्रवदतस्तस्य गोलोकाच्च महारथः ॥१९॥सहस्रादित्यसंकाशो हयायुतसमन्वितः ॥२०॥सहस्रचक्रध्वनिभृल्लक्षपार्षदमण्डितः ।मंजीरकिंकिणीजालो मनोहरतरो नृप ॥२१॥पश्यतस्तस्य विप्रस्य तमानेतुं समागतः ।तमागतं रथं दिव्यं नेमतुर्विप्रनिर्जरौ ॥२२॥ततः समारुह्य रथं स सिद्धोविरंजयन्मैथिल मण्डलं दिशाम् ।श्रीकृष्णलोकं प्रययौ परात्परंनिकुंजलीलाललितं मनोहरम् ॥२३॥विप्रोऽपि तस्मात् पुनरागतो गिरिंगोवर्धनं सर्वगिरिन्द्रदैवतम् ।प्रदक्षिणीकृत्य पुनः प्रणम्य तंययौ गृहं मैथिल तत्प्रभावित् ॥२४॥इदं मया ते कथितं प्रचण्डंसुमुक्तिदं श्रीगिरिराजखण्डम् ।श्रुत्वा जनः पाप्यपि न प्रचण्डंस्वप्नेऽपि पश्येद्यममुग्रदण्डम् ॥२५॥यः शृणोतिगिरिराज यशस्यंगोपराज नवकेलिरहस्यम् ।देवराज इव सोऽत्र समेतिनन्दराज इव शान्तिममुत्र ॥२६॥इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादेगिरिराजप्रभावप्रस्ताववर्णने सिद्धमोक्ष नाम एकादशोऽध्यायः ॥११॥इति श्रीगिरिराजखण्डःसमाप्तः ॥३॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP