गिरिराजखण्डः - अध्यायः ०१

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


बहुलाश्व उवाच -
कथं दधार भगवान् गिरिं गोवर्धनं वरम् ।
उच्छिलींध्रं यथा बालो ह्स्तेनैकेन लीलया ॥१॥
परिपूर्णतमस्यास्य श्रीकृष्णस्य महात्मनः ।
वदैतच्चरितं दिव्यमद्‌भुतं मुनिसत्तम ॥२॥
श्रीनारद उवाच -
वार्षिकं हि करं राज्ञे यथा शक्राय वै तथा ।
बलिं ददुः प्रावृडन्ते गोपाः सर्वे कृषीवलाः ॥३॥
महेन्द्रयागसंभारचयं दृष्ट्वैकदा हरिः ।
नन्दं पप्रच्छ सदसि वल्लभानां च शृण्वताम् ॥४॥
श्रीभगवानुवाच -
शक्रस्य पूजनं ह्येतत्किं फलं चास्य विद्यते ।
लौकिकं वा वदन्त्येतदथवा पारलौकिकम् ॥५॥
श्रीनन्द उवाच -
शक्रस्य पूजनं ह्येतद्‌भुक्तिमुक्तिकरं परम् ।
एतद्विना नरो भूमौ जायते न सुखी क्वचित् ॥६॥
श्रीभगवानुवाच -
शक्रादयो देवगणाश्च सर्वतो
भुंजन्ति ये स्वर्गसुखं स्वकर्मभिः ।
विशन्ति ते मर्त्यपदं शुभक्षये
तत्सेवनं विद्धि न मुक्तिकारणम् ॥७॥
भयं भवेद्वै परमेष्ठिने यतो
वार्ता तु का कौ किल तत्कृतात्मनाम् ।
तस्मात्परं कालमनंतमेव हि
सर्वं बलिष्ठं सुबुधा विदुः परे ॥८॥
ततस्तमाश्रित्य सुकर्मभिः परं
भजेद्धरिं यज्ञपतिं सुरेश्वरम् ।
विसृज्य सर्वं मनसा कृतेः फलं
व्रजेत्परं मोक्षमसौ न चान्यथा ॥९॥
गोविप्रसाध्वग्निसुराः श्रुतिस्तथा
धर्मश्च यज्ञाधिपतेर्विभूतयः ।
धिष्ण्येषु चैतेषु हरिं भजन्ति ये
सदा त्विहामुत्र सुखं व्रजन्ति ते ॥१०॥
समुत्थितोऽसौ हरिवक्षसो गिरि-
र्गोवर्धनो नाम गिरीन्द्रराजराट् ।
समागतो ह्यत्र पुलस्त्यतेजसा
यद्दर्शनाज्जन्म पुनर्न विद्यते ॥११॥
सम्पूज्य गोविप्रसुरान्महाद्रये
दातव्यमद्यैव परं ह्युपायनम् ।
एष प्रियो मे मखराज एव हि
न चेद्यथेच्छास्ति तथा कुरु व्रज ॥१२॥
श्रीनारद उवाच -
तेषां मध्येऽथ सन्नन्दो गोपो वृद्धोऽतिनीतिवित् ।
अतिप्रसन्नः श्रीकृष्णमाह नन्दस्य शृण्वतः ॥१३॥
सनंद उवाच -
हे नन्दसूनो हे तात त्वं साक्षाज्ज्ञानशेवधिः ।
कर्तव्या केन विधिना पूजाऽद्रेर्वद तत्त्वतः ॥१४॥
श्रीभगवानुवाच -
आलिप्य गोमयेनापि गिरिराजभुवं ह्यधः ।
धृत्वाऽथ सर्वसम्भारं भक्तियुक्तो जितेन्द्रियः ॥१५॥
सहस्रशीर्षामंत्रेणाद्रये स्नानं च कारयेत् ।
गंगाजलेन यमुनाजलेनापि द्विजैः सह ॥१६॥
शुक्लगोदुग्धधाराभिस्ततः पञ्चामृतैर्गिरिम् ।
स्नापयित्वा गन्धपुष्पैः पुनः कृष्णाजलेन वै ॥१७॥
वस्त्रं दिव्यं च नैवेद्यमासनं सर्वतोऽधिकम् ।
मालालंकारनिचयं दत्त्वा दीपावलिं पराम् ॥१८॥
ततः प्रदक्षिणां कुर्यान्नमस्कुर्यात्ततः परम् ।
कृतांजलिपुटो भूत्वा त्विदमेतदुदीरयेत् ॥१९॥
नमो वृन्दावनाङ्काय तुभ्यं गोलोकमौलिने ।
पूर्णब्रह्मातपत्राय नमो गोवर्धनाय च ॥२०॥
पुष्पांजलिं ततः कुर्यान्नीराजनमतः परम् ।
घण्टकांस्यमृदङ्गाद्यैर्वादित्रैर्मधुरस्वनैः ॥२१॥
वेदाहमेतं मंत्रेण वर्षलाजैः समाचरेत् ।
तत्समीपे चान्नकूटं कुर्याच्छ्रद्धासमन्वितः ॥२२॥
कचोलानां चतुःषष्टिपञ्चपंक्तिसमन्वितम् ।
तुलसीदलमिश्रैश्च श्रीगंगायमुनाजलैः ॥२३॥
षट्पञ्चाशत्तमैर्भागैः कुर्यात्सेवां समाहितः ।
ततोऽग्नीन् ब्राह्मणान्पूज्य गाः सुरान् गन्धपुष्पकैः ॥२४॥
भोजयित्वा द्विजवरान् सौगंधैर्मिष्टभोजनैः ।
अन्येभ्यश्चाश्वपाकेभ्यो दद्याद्‌भोजनमुत्तमम् ॥२५॥
गोपीगोपालवृन्दैश्च गवां नृत्यं च कारयेत् ।
मंगलैर्जयशब्दैश्च कुर्याद्‌गोवर्द्धनोत्सवम् ॥२६॥
यत्र गोवर्धनाभावस्तत्र पूजाविधिं शृणु ।
गोमयैर्वर्द्धनं कुर्यात्तदाकारं परोन्नतम् ॥२७॥
पुष्पव्यूहैर्लताजालैरिषिकाभिः समन्वितः ।
पूजनीयः सदा मर्त्यैर्गिरिर्गोवर्धनो भुवि ॥२८॥
शिलासमानं पुरटं क्षिप्त्वाऽद्रौ तच्छिलां नयेत् ।
गृह्णीयाद्यो विना स्वर्णं स महारौरवं व्रजेत् ॥२९॥
शालग्रामस्य देवस्य सेवनं कारयेत्सदा ।
पातकं न स्पृशेत्तं वै पद्मपत्रं यथा जलम् ॥३०॥
गिरिराजशिलासेवां यः करोति द्विजोत्तमः ।
सप्तद्वीपमहीतीर्थावगाहफलमेति सः ॥३१॥
गिरिराजमहापूजां वर्षे वर्षे करोति यः ।
इह सर्वसुखं भुक्त्वाऽमुत्र मोक्षं प्रयाति सः ॥३२॥


इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारद बहुलाश्व संवादे
श्रीगिरिराजपूजाविधिवर्णनं नाम प्रथमोऽध्यायः ॥१॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP