संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गिरिराजखण्डः| अध्यायः ०३ गिरिराजखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ गिरिराजखण्डः - अध्यायः ०३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता इन्द्रयज्ञभङ्गं तथा गोवर्धनधारणम् Translation - भाषांतर श्रीनारद उवाच -अथ मन्मुखतः श्रुत्वा स्वात्मयागस्य नाशनम् ।गोवर्धनोत्सवं जातं कोपं चक्रे पुरन्दरः ॥१॥सांवर्तकं नाम गणं प्रलये मुक्तबंधनम् ।इन्द्रो व्रजविनाशाय प्रेषयामास सत्वरम् ॥२॥अथ मेघगणाः क्रुद्धा ध्वनंतश्चित्रवर्णिनः ।कृष्णाभाः पीतभाः केचित्केचिच्च हरितप्रभाः ॥३॥इन्द्रगोपनिभाः केचित्केचित्कर्पूरवत्प्रभाः ।नानाविधाश्च ये मेघा नीलपंकजसुप्रभाः ॥४॥हस्तितुल्यान्वारिबिन्दून् ववृषुस्ते मदोद्धताः ।हस्तिशुंडासमाभिश्च धाराभिश्चंचलाश्च ये ॥५॥निपेतुः कोटिशश्चाद्रिकूटतुल्योपला भृशम् ।वाता ववुः प्रचण्डाश्च क्षेपयन्तस्तरून् गृहान् ॥६॥प्रचण्डा वज्रपातानां मेघानामन्तकारिणाम् ।महाशब्दोऽभवद्भूमौ मैथिलेन्द्र भयंकरः ॥७॥ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ।विचेलुर्दिग्गजास्तारा ह्यपतन्भूमिमण्डलम् ॥८॥भयभीता गोपमुख्याः सकुटुम्बा जिगीषवः ।शिशुन्स्वान्स्वान्पुरस्कृत्य नन्दमन्दिरमाययुः ॥९॥श्रीनन्दनन्दनं नत्वा सबलं परमेश्वरम् ।उचुर्व्रजौकसः सर्वे भयार्ताः शरणं गताः ॥१०॥गोपा उचुः -राम राम महाबाहो कृष्ण कृष्ण व्रजेश्वर ।पाहि पाहि महाकष्टादिन्द्रदत्तान्निजान्जनान् ॥११॥हित्वेन्द्रयागं त्वद्वाक्यात्कृतो गोवर्धनोत्सवः ।अद्य शक्रे प्रकुपिते कर्तव्यं किं वदाशु नः ॥१२॥श्रीनारद उवाच -व्याकुलं गोकुलं वीक्ष्य गोपीगोपालसंकुलम् ।सवत्सकं गोकुलं च गोपानाह निराकुलः ॥१३॥श्रीभगवानुवाच -मा भैष्ट याताद्रितटं सर्वैः परिकरैः सह ।वः पूजा प्रहृता येन स रक्षां संविधास्यति ॥१४॥श्रीनारद उवाच -इत्युक्त्वा स्वजनैः सार्द्धमेत्य गोवर्धनं हरिः ।समुत्पाट्य दधाराद्रिं हस्तेनैकेन लीलया ॥१५॥यथोच्छिलींध्रं शिशुरश्रमो गजःस्वपुष्करेणैव च पुष्करं गिरिम् ।धृत्वा बभौ श्रीव्रजराजनन्दनःकृपाकरोऽसौ करुणामयः प्रभुः ॥१६॥अथाह गोपान्विशताद्रिगर्तंहे तात मातर्व्रजवल्लभेशाः ।सोपस्करैः सर्वधनैश्च गोभि-रत्रैव शक्रस्य भयं न किंचित् ॥१७॥इत्थं हरेर्वचः श्रुत्वा गोपा गोधनसंयुताः ।सकुटुम्बोपस्करैश्च विविशुः श्रीगिरेस्तलम् ॥१८॥वयस्या बालकाः सर्वे कृष्णोक्ताः सबला नृप ।स्वान्स्वांश्च लगुडानद्रेरवष्टंभान्प्रचक्रिरे ॥१९॥जलौघमागतं वीक्ष्य भगवांस्तद्गिरेरधः ।सुदर्शनं तथा शेषं मनसाऽऽज्ञां चकार ह ॥२०॥कोटिसूर्यप्रभं चाद्रेरूर्ध्वं चक्रं सुदर्शनम् ।धारासंपातमपिबदगस्त्य इव मैथिल ॥२१॥अधोऽधस्तं गिरेः शेषः कुण्डलीभूत आस्थितः ।रुरोध तज्जलं दीर्घं यथा वेला महोदधिम् ॥२२॥सप्ताहं सुस्थिरस्तस्थौ गोवर्धनधरो हरिः ।श्रीकृष्णचंद्रं पश्यंतश्चकोरा इव ते स्थिताः ॥२३॥मत्तमैरावतं नागं समारुह्य पुरन्दरः ।ससैन्यः क्रोधसंयुक्तो व्रजमण्डलमाययौ ॥२४॥दूराच्चिक्षेप वज्रं स्वं नंदगोष्ठजिघांसया ।स्तंभयामास शक्रस्य सवज्रं माधवो भुजम् ॥२५॥भयभीतस्तदा शक्रः सांवर्तकगणैः सह ।दुद्राव सहसा देवैर्यथेभः सिंहताडितः ॥२६॥तदैवार्कोदयो जातो गता मेघा इतस्ततः ।वाता उपरताः सद्यो नद्यः स्वल्पजला नृप ॥२७॥विपंकं भूतलं जातं निर्मलं खं बभूव ह ।चतुष्पदाः पक्षिणश्च सुखमापुस्ततस्ततः ॥२८॥हरिणोक्तास्तदा गोपा निर्ययुर्गिरिगर्ततः ।स्वं स्वं धनं गोधनं च समादाय शनैः शनैः ॥२९॥निर्यातेति वयस्यांश्च प्राह गोवर्धनोद्धरः ।ते तमाहुश्च निर्गच्छ धारयामोऽद्रिमोजसा ॥३०॥इति वादपरान् गोपान् गोवर्धनधरो हरिः ।तदर्द्धं च गिरेर्भारं प्रादात्तेभ्यो महामनाः ॥३१॥पतितास्तेन भारेण गोपबालाश्च निर्बलाः ॥३२॥करेण तान् समुत्थाप्य स्वस्थाने पूर्ववद्गिरिम् ।सर्वेषां पश्यतां कृष्णः स्थापयामास लीलया ॥३३॥तदैव गोपीगणगोपमुख्याःसम्पूज्य कृष्णं नृप नन्दसूनुम् ।गन्धाक्षताद्यैर्दधिदुग्धभोगै-र्ज्ञात्वा परं नेमुरतीव सर्वे ॥३४॥नन्दो यशोदा नृप रोहिणी चबलश्च सन्नन्दमुखाश्च वृद्धाः।आलिंग्य कृष्णं प्रददुर्धनानिशुभाशिषा संयुयुजुर्घृणार्ताः ॥३५॥संश्लाघ्य तं गायनवाद्यतत्परानृत्यन्त आरान्नृप नन्दनन्दनम् ।आजग्मुरेव स्वगृहान्व्रजौकसोहरिं पुरस्कृत्य मनोरथं गताः ॥३६॥तदैव देवा ववृषुः प्रहर्षिताःपुष्पैः शुभैः सुन्दरनन्दनोद्भवैः ।जगुर्यशः श्रीगिरिराजधारिणोगन्धर्वमुख्या दिवि सिद्धसङ्घाः ॥३७॥इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारदबहुलाश्वसंवादेगोवर्धनोद्धरणं नाम तृतीयोऽध्यायः ॥३॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP