संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकानृचनाम सप्तदशकाण्डः| ४१ ते ४५ एकानृचनाम सप्तदशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ सप्तदशकाण्डः - ४१ ते ४५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ४१ ते ४५ Translation - भाषांतर ४१यथ यदस्मिन्नन्त: ।शतमर्धमासाः शतं मासा: शतमृतव: शतं आर्तवा: ॥१॥शतमिदावत्सराः शतमनुवत्सराः शतं परिवत्सराः शतं संवत्सराः ॥२॥शतं ब्रह्माणि शतं कर्माणि शतं ज्योतींषि शतममृतानि ॥३॥शतं प्राणा: शतमपाना: शतं व्याना: शतं समाना: ॥४॥ज्योग् जीवति सर्वमायुरेति न पुरा जरसः प्र मीयते य एवं वेद ॥५॥४२अथ यदस्मिन्नन्त: ॥१॥शतं गायत्रा: शतं साह्ना: शतं त्रिरात्रा: शतं अतिरात्रा: ॥२॥शतं अग्निष्टोमाः शतं द्वादशाहाः शतं षडशिनः गतं सर्वपृष्टाः ॥३॥शतं राजसूया: शतं वाजपेया: शतं कामप्रा: सहस्रं सत्रायणानि ॥४॥एष बा अनड्वान् सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपान् मध्यतः प्रत्यतिष्ठात् ॥५॥ऋक्सामभ्यामुत्तभितो यजुषा यज्ञेन गायत्रेण ब्रह्मणा प्रथत उपरिष्ठात्।प्रथते प्रजया पशुभिर्गृहैर्धनेन य एवं वेद ॥६॥४३इन्द्रो बलेनासि परमेष्ठी व्रतेन येन गौस्तेन वैश्वदेव: ॥१॥यो ऽस्माद्द्वेष्टी यं च वयं द्विष्मस्तस्य प्राणान् सं बर्ह तस्य प्राणान् वि बर्ह ॥२॥इन्द्रोसीन्द्रस्य रूपमसि प्रजापतिरसि परमेष्ठिरसि ।स्वरसि स्वर्गोसि स्वर्गोलोकोसि स्वर्गं मा लोकं गमय।येनास्यवहस्तेन यज्ञो येन वहन्ति तेन लोक: ॥३॥येनैनं पश्यति तेन विश्वो येनैनं गमयति तेन सर्व: ॥४॥ये ऽस्य पादा: सा प्रतिष्ठा ।प्रति तिष्ठसि प्रजया पशुभिगृहैर्धनेनय एवं विद्वाननडुहो व्रतं बिभर्ति ॥५॥(इति एकनृचनाम सप्तदशकाण्डे षष्ठोऽनुवाको)४४नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ् परेहि ॥१॥अघशंसदु:शंसौ करेणानुकरेण च ।मृत्युंश्च सर्वांस्तेनेतो यक्ष्मांश्च निरजामसि ॥२॥निरितो मृत्युं निर्ऋतिं निर्यक्ष्ममजामसि ।यो नो द्वेष्टि तमद्ध्यग्ने: ऽक्रव्याद् यं द्विष्मस्तं ते प्रसुवामः ॥६॥यद्यग्निः क्रव्याद् यदि वा व्याघ्र इमं गोष्ठमन्योका आ विवेश ।तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोप्यग्नीन् ॥४॥यत् त्वा क्रुद्धा: प्रचक्रुर्मन्युना पुरुषे मृते ।सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥५॥पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रहा वसुनीतिरग्ने ।पुनस्त्वा ब्रह्मणस्पतिराधाद् दीर्घायुत्वाय शतशारदाय ॥६॥यो अग्निः क्रव्यात् प्रविवेश नो गृहमिमं पश्यन्नितरं जातवेदसम् ।तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥७॥क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।इहैवायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोके अपि भागो अस्य॥९॥क्रव्यादमग्निं शशमानमुक्थं प्र हिणोमि पथिभिः पितृयाणैः ।मा देवयानैः पथिभिरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥४५समिन्धते संकसुकं स्वस्तये शुद्धा भवन्त: शुचय: पावकाः ।जहाति रिप्रमत्येन एति समिद्धो अग्नि: सुपुना पुनातु ॥१॥देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत् ।मुच्यमानो निरंहसो मोह्यस्माङ् अशस्त्या: ॥२॥अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।अभूम यज्ञिया: शुद्धा: प्र ण आयूंषि तारिषत् ॥३॥संकसुको विकसुको निर्ऋथो यश्च निस्वरः ।ते ते यक्ष्मं सवेदसो दूराद दूरमुचुच्युवु: ॥४॥अन्येभ्यस्त्वा पुरुषेभ्यः गोभ्यो अश्वेभ्यस्त्वा ।क्रव्यादं निर्णुदामस्यग्निं जीवितयोपनम् ॥५॥यो नो अश्वेषु वीरेषु यो गोषु यो अजाविषु ।क्रव्यादं निर्णुदामस्यग्निर्यो जनयोपन: ॥६॥समिद्धो अग्नि आहुत स नो माभ्यपक्रमीः ।अत्रैव दीदिहि द्यवि ज्योक् च सूर्याय दृशे ॥७॥यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥८॥सीसे मृड्ढ्वं नडे मृड्ढवमग्निः संकसुकश्च यः ।अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥९॥सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।अव्यामसिक्न्यां मृष्टवा शुद्धा भवन्तु यज्ञिया: ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP