३६
यावस्य कर्णौ सा श्रद्धा ॥१॥
चरा ऽचरा वै श्रद्धा तस्मात्कर्णौ मुहुर्वरीवर्जयति ॥२॥
श्रद्द्धते ऽस्मै श्रद्धानी यो भवति य एवं वेद ॥३॥

३७
यास्य दक्षिणा हनुः सा जुहूर्या ददर्यासम् ॥१॥
या सव्या सोपभृद य: कण्ठ: सा धुवा ॥२॥
अग्निरास्यं विद्युज्जिह्वा मरुतो दन्ताः पवमानः प्राणः ॥३॥
एषा वै मायामाहुर्वसोर्धारेति यदन्त्रगुदम् ।
वसोरेव धारां समृद्धिमक्षतिमवरुन्द्धे य एवं वेद ॥४॥

३८
यदस्य चर्म तदभ्रं यानि लोमानि तानि नक्षत्राणि ॥१॥
स्वेदो वर्षमूष्माणि ह्वारो यदोषधयश्च वनस्पतयश्चोवध्वम् ॥२॥ह्रारो
यो ऽस्य दक्षिणोर्धोस्तौ शारदौ मासौ याः सव्यास्तौ हैमन्तौ ॥३॥
यो ऽस्य जघनार्ध: तौ शैशिरौ मासौ य: पूर्वार्धस्तौ वासन्तौ ॥४॥
यदस्य पृष्ठं तौ ग्रैष्मौ मासौ यन्मध्यं तौ वार्षिकौ ॥५॥
संवत्सरो वा एष संभूतो येनानड्वान् येननडद्वतीन् ॥६॥
कल्पन्ते अस्मा ऋतवो नर्तुष्वा वृश्चत ऋतूनां प्रिय भवति य एवं वेद ॥७॥

३९
तपश्च वरश्च महश्च यशश्च
यदस्मिन्नन्तर्ऋचः सामानि यजूंषि ब्राह्मणं ॥१॥
ब्रह्म चैव लोकं चावरुन्द्धे
ब्राह्मणवर्चसी भवति य एवं वेद ॥२॥

४०
अथ यदस्मिन्नन्त: ।
शतं श्राद्धा: शतं दीक्षा शतं यज्ञा: शतं दक्षिणा: ॥१॥
शतं भूतय: शतं पुष्टयः शतं प्रभूतय: शतं समृद्धयः ॥२॥
शतं अभूतयः शतं निर्भूतयः शतं पराभूतयः शतमसमृद्धयः ॥३॥
शतं सिन्ध्यानि शतं अब्गणानि शतं तमांसि शतं रुधिराणि ॥४॥
य एवं विदुषो साधुकीर्तयत्येतैरेवैनं तमोभिः प्रोर्णोति ॥५॥
यदस्य प्राचीनं नाभ्यास्तेन द्विषन्तमाविशति ॥६॥
अथ यदस्य प्रतीचीन नाभ्यास्तेन मृत्युं नाष्ट्रामवर्तं तरति प्र पथो देवयानां जानाति य एवं वेद ॥७॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP