१६
ददामीत्येव ब्रूयादनुचैनामभूत्सत।
वशां ब्रह्मभ्यो याचद्भ्यस्तत् प्रजावदपत्यवत् ॥१॥
प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
कुटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।
तथा वशाया: संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
यो अस्या: कर्णावास्कुनोत्या स देवेषु वृश्चते ।
लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥५॥
पदोरस्या अधिष्ठानाद् विक्लिन्दुर्नाम विन्दति।
अनामनात् सं शीर्यन्ते या मुखेनोपजिघ्रति ॥६॥
यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।
ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
यदस्याः कस्मै चिद् भोगाय बालान् कश्चित् प्रकृन्तति ।
ततः कुमारा म्रियन्ते यक्ष्मश्चरत्यनामनात् ॥८॥
यदस्याः पल्पूलनाय शकृद् दासी समस्यति ।
ततो ऽपरूपं जायते तस्मादव्येष्यदेनस: ॥२॥
जायमानाभि जायते देवान् त्सब्राह्मणान् वशा।
तस्माद् ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम ॥१०॥

१७
य एनां वनिमायन्ति तेषां देवकृता वशा ।
ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥१॥
य एनां याचद्भ्यो आर्षेयेभ्यो न दित्सति ।
आा स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥२॥
यस्यान्यस्याद् वशाभोगो अन्यामिच्छेत तर्हि सः ।
हिंस्याददत्ता गोपतिं याचितां च न दित्सति ॥३॥
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा।
तामेतदायन्ति यस्मिन् कस्मिंश्च जायते ॥४॥
स्वमेतदायन्ति यद् वशां ब्राह्मणा अभि ।
यथैतानन्यज्जिनीयादेवास्याः निरोधनम् ॥५॥
चरेदेवा त्रैहायनादविज्ञातगदा सती ।
वशां च विद्यान्नारद ब्राह्मणास्तर्ह्येष्या: ॥६॥
य एनामवशामाह देवानां निहितं निधिम् ।
उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥७॥
दूरदभ्नैनमा शये याचितां च न दित्सति ।
नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥८॥
यो अस्या ऊधो न वेदाथो अस्या स्तनानुत ।
उभयेनैवास्मै दुहे दातुं चेदशकद् वशाम् ॥९॥
देवा वशां याचन्तिं मुखं कृत्वा ब्राह्मणम् ।
तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥१०॥

१८
हेडं पशूनां न्येति ब्राह्मणेभ्योददद् वशाम् ।
देवानां निहित भागं मर्त्यश्चेन्निप्रियायते ॥१॥
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।
अथैतां देवा अब्रुवन्नेवं ह विदुषो वशा ॥२॥
य एवं विदुषे दत्त्वाथान्यस्मै ददद् वशाम् ।
दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥३॥
देवा वशामयाचन् यस्मिन्नग्रे अजायत ।
तामेतां विद्यान्नारद: सह देवैरुदाजत ॥४॥
अनपत्यमल्पपशुं वशा कृणोतु पुरुषम् ।
ब्राह्मणैश्च याचितामथैनान्निप्रियायते॥५।
अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्तेभ्यो आ वृश्चते ददत् ॥६॥
चरेदस्य तावद् गोषु नास्य श्रुत्वा गृहे स्यात् ॥७॥
यो अस्या ऋचो उपश्रुत्याथ गोष्वचीचरत्।
आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥१८॥
वशा चरन्ति बहुधा देवानां निहितो निधिः ।
आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥९॥
आविरात्मानं कृणुते यदा स्थाम जिघांसति।
अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मन: ॥१०॥

१९
मनसां सं कल्पयति तद्देवाङ् अपि गच्छति ।
अथो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥१॥
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्य: ।
दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥२॥
वशा राजन्य ते माता तथा संभूतमग्रशः ।
तस्या आहुरनर्पणं यद् ब्रह्मभ्यः प्रदीयते ॥३॥
यदाज्यं प्रतिगृहीतमालुम्पेत् स्रुचो अग्नये ।
एवा ह ब्रह्मभ्यो वशामग्नये वृश्चतेददत् ॥४॥
पुरोडाशवत्सा सुदुघा लोके अस्योप तिष्ठति ।
सास्मै सर्वान् कामान् दुहे वशा प्रददुषे बहून ॥५॥
सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे।
अथाहुर्नारकं लोकं निरुन्थानस्य याचिताम् ॥६॥
प्रवीयमाना चरति कृद्धा गोपतये वशा।
वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥७॥
यो वेहतं मन्यमानो गृहेषु पचते वशाम् ।
अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥८॥
महदेषाव तपति चरन्ती गोषु गौरपि ।
अथो ह गोपतये वशा ददुषे विषं दुहे ॥९॥
प्रियं पशूनां भवति यद् ब्रह्मभ्य: प्रदीयते ।
अथो वशायास्तत् प्रियं यद्देवत्रा हविः स्यात् ॥१०॥

२०
या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।
तासां विलिप्त्यं भीमामुदाकुरुत नारद: ॥१॥
तां देवा अमीमांसन्त वशेयामवशेति ।
तामब्रवीन्नारद एषा वशानां वशतमा ॥२॥
कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।
कतमासां भीमतमा कस्या नाश्नीयादब्राह्मण: ॥३॥
विलिप्त्या बृहस्पते या च सूतवशा वशा।
तासां नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४॥
नमस्ते अस्तु नारदानुष्ठु विदुषे वशा।
कतमासां भीमतमा यामदत्त्वा पराभवेत् ॥५॥
विलिप्त्या बृहस्पते या च सूतवशा वशा।
याः प्र यच्छेद् ब्रह्मभ्यः य आशंसेत भूत्याम् ॥६॥
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा।
ताः प्र यच्छेद् ब्रह्मभ्य: सोनाव्रस्क: प्रजापतौ ॥७॥
एतद् वो ब्राह्मणा हविरिति मन्वीत याचितः ।
वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥८॥
देवा वशामुपावदन् नोदादिति हीडिता: ।
एताभिर्ऋग्भिर्भेदस्य तस्माद् वै स पराभवत् ॥९॥
उतैतां भेदो नाददाद् वशामिन्द्रेण याचित: ।
तस्मात् तं देवा एनसोवृश्चन्नहमुत्तरे ॥१०॥
ये वशाया अदानाय वदन्ति परिरापिण: ।
इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥११॥
ये गोपतिं पराणीयाथाहुर्मा ददा इति ।
रुद्रस्यास्तां हेतिं ते परि यन्त्यचेतस: ॥॥१२॥
यदि हुतां यद्यहुताममा च पचते वशाम् ।
देवान् सब्राह्मणानृत्वा जिह्मो लोकान्निर्ऋच्छति ॥१३॥
(ह्रति एकानृचनामसप्तदशकाण्डे चतुर्थो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP