द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।
अग्निः सूर्य आपो मेधां विश्वेदेवाश्च सं ददुः ॥१॥
अहमस्ति सहमान उत्तरो नाम भूम्याम् ।
अभीषाडस्मि विश्वाषाडाशामाशां विषासहि: ॥२॥
यददो देवी प्रथमानाः पुरस्ताद्देवैः सृष्टा व्यसर्पो महित्वम् ।
आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥३॥
ये ग्रामा यान्यरण्यानि याः सभा अधि भूम्याम् ।
तेष्वहं देवि पृथिव्युद्वासं मधुमद् वचः ॥४॥
यद् वदामि मधुमत् तद् वदामि यदीक्षे तद् वनन्तु मा ।
त्विषीमानस्मि जूतिमानवान्यान् हन्मि दोधतः ॥!५॥
अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत:
मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम ॥६॥
शन्तिवा सुरभिः स्योना कीलालोघ्नी पयस्वती ।
भूमिर्नो अधि ब्रवीतु पृथिवी पयसा सह ॥७॥
भूमे मातर्नि धेहि मां भद्रया सुप्रतिष्ठितम् ।
संविदाना दिवा त्वं श्रियां मा धेहि भूत्याम् ॥८॥
यामन्वैच्छद्धविषा विश्वकर्मा यस्यामासन्नग्नयो ऽप्स्वन्त: ।
भुजिष्यं पात्रं निहितं गुहासीदाविर्भोगैरभवन्मातृमद्भ्य: ॥९॥
त्वमस्यावपनी जनानामदिति: कामदुघा विश्वरूपा । दुधा
यत्त ऊनं तत्त आ पूरयाति प्रजापति: प्रजाभि: संविदान: ॥१०॥
(इति एकानृचनाम सप्तदशकाण्डे प्रथमो ऽनुवाकः)


कस्मिन्नङ्गे तपो अस्याधि तिष्ठति कस्मिन्नङ्ग ऋतमस्याध्याहितम् ।
क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्नङ्गे. सत्यमस्य प्रतिष्ठितम् ॥१॥
क्व ब्रह्म क्व तिष्ठन्त्यापः कस्मिन्नङ्गे दिशो अस्य प्रतिष्ठिता: ।
कतमदङ्गमनु संचरेते अहोरात्रे संविदाने समानम् ॥२॥
कस्मिन्नङ्गे तिष्ठति भूमिरस्य कस्मिन्नङ्गे तिष्ठत्यन्तरिक्षम् ।
कस्मिन्नङ्गे तिष्ठत्याहिता द्यौ: कस्मिन्नङ्गे तिष्ठन्त्युत्तरं दिवः ॥३॥
कस्मादङ्गाद् दीप्यते ऽग्निरस्य कस्मादङ्गात् पवते मातरिश्वा ।
कस्मादङ्गाद् दि मिमीतेधि चन्द्रमा स्कम्भस्य महद् वि मिमानो अङ्गम् ॥४॥
क्व प्रेप्सन्दीप्यत ऊर्द्ध्वो अग्नि: क्व प्रेप्सन् पवते मातरिश्वा ।
यत्र प्रेप्सन्तीरभियन्त्यावृत: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥५॥
क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवत: संविदाने ।
यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव स: ॥६॥
क्वार्धमामा: क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।
यत्र यन्त्यृतवो यत्रार्तवा: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥७॥
यस्मिन् स्तब्ध्वा प्रजापतिर्लौकान् सर्वाङ् अधारयत् ।
स्कम्भं तं ब्रूहि कतम: स्विदेव सः ॥८॥
यत् परमं यच्च मध्यमं प्रजापति: ससृजे विश्वरूपम् ।
कियता स्कम्भः प्र विवेश तत्र यन्न प्राविशत् कियत्तद् बभूव ॥९॥
कियता स्कम्भ: प्र विवेश भूतं कियद् भविष्यदन्वाशयेस्य ।
एकं यदङ्गमकृणोत् सहस्रधा कियता स्कम्भ: प्र विवेश तत्र ॥१०॥


यत्र लोकांश्च कोशांश्च ब्रह्म यत्र जना विदु: ।
असच्च यत्र सच्चान्त:
स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥१॥
यत्र तपः पराक्रम्य ऋतं धारयत्युत्तरम् ।
व्रतं च यत्र श्रद्धा च ब्रह्मापः समाहिता:
स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२॥
यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्नध्याहिता।
यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः
स्कम्भं तं बूहि कतम: स्विदेव स: ॥३॥
यस्य त्रयस्त्रिंशद् देवा अङ्गे सर्वे समाहिताः
स्कम्भं तं बूहि कतम: स्विदेव स: ॥४॥
यत्र ऋषयो भूतकृत ऋच: साम यजुर्मही ।
एकर्षिर्यस्मिन्नार्पितः
स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥५॥
यस्य चतस्र: प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।
यज्ञो यस्मिन् पराक्रान्त: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥६॥
यत्रामृतं च मृत्युश्च पुरुषश्च समाहिता: ।
समुद्रो यस्य नाड्य: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥७॥
ये पुरुषे ब्रह्म विदु: ते स्कम्भमनुसंविदुः ।
यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।
ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥८॥
यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोभवन् ।
अङ्गानि यस्य यातवः स्कम्भ तं ब्रूहि कतम: स्विदेव सः ॥९॥
यस्य ब्रह्म मुखमाहुर्जिह्वा मधुकशामुत ।
विराजं यस्योध आहु स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥


यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।
छन्दांसि यस्य लोमानि
स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥१॥
असच्छाखां प्रतिष्ठन्तीं परममिव जना विदु: ।
उतो सन्मन्यन्तेवरे यस्य शाखामुपासते ॥२॥
यत्रादित्याश्च रुद्राश्च वसवश्च समाहिता: ।
स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥३॥
यस्य त्रयस्त्रिंशद् देवा निधिं रक्षन्ति सर्वदा ।
निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥४॥
यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।
यो वै तद्ब्रह्मणो वेद तं वै ब्रह्मविदो विदुः ॥५॥
बृहन्तो नाम ते देवा असतस्परि यज्ञिरे ।
एकं तदङ्गं स्कम्भस्यासदाहु: परो जना: ॥६॥
यत्र स्कम्भ: प्रजनयन् पुराणं व्यवर्तयत् ।
एकं तदङ्ग स्कम्भस्य पुराणमनुसंविदुः ॥७॥
यस्य त्रयस्त्रिंशद् देवा अङ्गे गात्राणि भेजिरे ।
तान् वै त्रयस्त्रिंशद्देवानेके ब्रह्म विदो विदुः ॥८॥
हिरण्यगर्भं परममनत्युद्यं जना विदु: ।
स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥९॥
स्कम्भे लोकाः स्कम्भे तप: स्कम्भेध्यृतमाहितम् ।
स्कम्भं त्वा विद्म प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥१०॥

१०
इन्द्रे लोका इन्द्रे तप इन्द्रेध्यृतमाहितम् ।
इन्द्र त्वा विद्म प्रत्यक्षं स्कम्भे सर्वं समाहितम् ॥१॥
नाम नाम्ना जोहवीमि पुरा सूर्यात् पुरोषस: ।
यदजः प्रथमं संबभूव स ह तत् स्वराज्यं जगाम यस्मान्न: परमस्ति भूतम् ॥२॥
यस्य भूमि: प्रमान्तरिक्षमुतोदरम् ।
दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नम: ॥३॥
यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्नव: ।
अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नम: ॥४॥
यस्य वातः प्राणापानौ चक्षुरङ्गिरसोभवन् ।
दिशो ययश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नम: ॥५॥
य: श्रमात्तपसो जातो लोकान् सर्वान् समानसे ।
सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नम: ॥६॥
स्कम्भो दाधार पृथिवीं द्यामुतामूं
स्कम्भो दाधारोर्वन्तरिक्षम ।
स्कम्भो दाधार प्रदिश: षडुर्वी:
स्कम्भ इदं विश्वं भुवनमा विवेश ॥७॥
कथं वातो नेलयति कथं न रमते मन: ।
किमाप: सत्यं प्रेप्सन्ती: प्र चक्रमिति सर्वदा ॥८॥
महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।
तस्मिञ्छ्रयन्ते य उ के च देवा वृक्षस्य
स्कन्ध: परित इव शाखा: ॥९॥
यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।
यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेमितं
स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP