संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|सप्तर्चोनाम चतुर्थ काण्डः| १६ ते २० सप्तर्चोनाम चतुर्थ काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० चतुर्थ काण्डः - १६ ते २० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १६ ते २० Translation - भाषांतर १६उद्यन्नादित्यो घुणान् हन्तु सूर्यो निम्रोचन्रश्मिभिर्हन्तु ।तावन्नो अधि संहितम् ॥१॥अप्सरा मूलमखनद् गन्धर्वः पर्यब्रवीत् ।तेन वो वृत्रहां सूर्यो नि जम्भ्यां अमुचद् घुणान् ॥२॥घुणान् हन्त्वायती घुणान् हन्तु परायती ।घुणानवघ्नती हन्तु घुणान् पिनष्टु पिंषती ॥३॥घुणा न किञ्चनेह वः प्रतिबुद्धा अभूतन ।प्रदोषं तस्करा इव ॥४॥घुणानामद्यतो ज्येष्ठः कनिष्ठ उत मध्यमः ।हता वः सर्वे ज्ञातयो हता माता हतः पिता ॥५॥यथा फेन उदकेन ददृशानो निजस्यति ।एवा वयं घुणान् सर्वान् साकं वाचा नि जासयामसि ॥६॥नि गावो गोष्ठे असदन्नि मृगासो अविक्षत ।नित्यमादित्य रश्मिभिर्घुणान् सर्वानजीजसः ॥७॥उद्यन् रश्मीना तनुष्व वाणवद्भिः समर्पय ।घुणांस्त्वं सर्वानादित्य घोरया तन्वा तप ॥८॥१७य आनतः पराणतो दारोरिवापतक्षणम्॥शर्कोटो नाम वा असि कुतस्त्वं विषवानसः ॥१॥य उभयेन प्रहरसि पुच्छेन चास्येन च॥आस्ये च न ते विषं कुतस्ते पुच्छधावसत् ॥२॥विदुत्सुरस्य दानवस्य तस्य त्वं नपादसि ।तस्याग्रेरसं विषं ततस्तुवारसं विषम् ॥३॥अरसारसं त्वाकरं वध्रे वध्रिं त्वाकरम् ।वध्रिं त्वा चक्रुर्देवा अमृतास आसुरम् ॥४॥इयत्तकः कुसुम्भकस्तकं भिनद्मि शम्यया । ततो विषं परासिचमपाचीमनु संवतम् ॥५॥इमाः पश्चा मयूर्यः सप्त स्वसारो अग्रुवः।तास्ते विषं वि जह्रिर उदकं कुम्भिनीरिव कूपात् कुलजनीरिव ॥६॥नवानां नवतीनां विषस्य रोपुषीणाम् ।सर्वासामग्रभं नाम वीतापेतारसं विषम् ॥७॥१८व्रातमहमपक्ष्णानां व्रातं मुण्डीयसामुत । व्रातं मुण्डिव्लानामहं प्र ध्वाङ्क्षाङ् इव चातये ॥१॥प्रवक्ता प्रमादैता निद्रातन्द्रीस्तृतीयकः ।तान् जङ्गिड़स्याग्निना सर्वान् प्रति दहामसि ॥२॥अशुद्धान्नः परि पाहि रक्षोभ्य उत जङ्गिड ।यातुधानात् किमीदिनस्तस्मान्नः पाहि जङ्गिड़ ॥३॥अप्सराभ्यो गन्धर्वेभ्यो देवेभ्यो असुरेभ्यः ।अथो सर्वस्मात् पाप्मनस्तस्मान्नः पाहि जङ्गिड़ ॥४॥नि ते शत्रून् दहति देवो अग्निर्निररातिममतिं यातुधानान् ।आ याहि शत्रून् दुरितापघ्नञ्छतान्नो यक्ष्मेभ्यः परि पाहि जङ्गिड़।५॥अकर्माग्निमधिपामस्य देवमन्वारप्सि सहसा दैव्येन ।सहस्वान्नः सहसा पातु जङ्गिड़ो यथा जयेम पृतनाज्येषु ॥६॥सत्यो अग्नि: सत्या आप: सत्येमे द्यावापृथिवी विश्वसंभुवौ।सत्यमिदं ब्रह्मास्माकं कृतमस्तु यमबध्नादुशनेन्द्राय तं ते बध्नामि जङ्गिड़म् ॥७॥१९इयत्तिका शकुन्तिका सका जघास ते विषम् । माहं मृषि मो असौ पुरुषो मृत ।स च न मरति मा वयं मराम ।आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥१॥सूर्ये विषमा सृजामि दृतिं सुरावतो गृहे ।माहं मृषि मो असौ पुरुषो मृत ।स च न मरति मा वयं मराम॥आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥२॥त्रिषप्ता विस्फुलिङ्गका विषस्य पुष्पमक्षन् ।माहं मृषि मो असौ पुरुषो मृत ।स च न मरति मा वयं मराम ।आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥३॥आल्वन्तरुटं विषं विदारी करम्भो अरसं विषम् ।माहं मृषि मो असौ पुरुषो मृत ।स च न मरति मा वयं मराम ।आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥४॥वारुग्रमरसं विषमग्निश्व विषचर्षणिम् ।माहं मृषि मो असौ पुरुषो मृत ।स च न मरति मा वयं मराम ।आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥५॥शकुन्तिका मे अब्रवीद विषपुष्पं धयन्तिका ।माहं मृषि मो असौ पुरुषो मृत ।स च न मरति मा वयं मराम ।आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥६॥न रोपयति न मादयति न विषं हन्ति पुरुषम् ।माहं मृषि मो असौ पुरुषो मृत ।स च न मरति मा वयं मराम ।आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ॥७॥नवानां नवतीनां विषस्य रोपुषीणाम् ।सर्वासामग्रभं नाम वीतापेतारसं विषम् ॥८॥२०मधुमती पत्ये अस्मि जाराय मधुमत्तरा ।अथो मधव्यं मे भंसो मधु निपदने अहम् ॥१॥मधुना मा सं सृजामि मासरेण सुरा इव।वाङ्म इयं मधुना संसृष्टाक्षौ मे मधुसंदृशी ॥२॥मधु द्यौर्मधु पृथिवी मध्विन्द्रो मधु सूर्यः ।स्त्रियो या जज्ञिरे मधु ताभ्योहं मधुमत्तरा ॥३॥मधुमतीरोषधय आपो मधुमतीरुत॥गावो या जज्ञिरे मधु ताभ्योहं मधुमत्तरा ॥४॥मधोर्जातो मधुघो वीरुधां बलवत्तमः ।तेनाहं सर्वस्मै पुंसे कृण्वे निकरण हृदि।५॥यथाश्व बन्धनेष्ठो वड़वामभिधावति ।एवा त्वमुग्र ओषधेमुं कनिक्रदतमा नय ॥६॥अङ्गो नु मोदिव श्वसो अङ्गो नु मोदिव स्तनः ।अन्या विवित्स मा नो अन्याः परा जिघांसन् ।मामनु प्र ते मनश्छाया यन्तुमिवान्वयत् ॥७॥(इति सप्तर्चोनामचतुर्थकाण्डे चतुर्थो ऽनुवाकः) N/A References : N/A Last Updated : May 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP